संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६५ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६५ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६५ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथामन्यां च पावनीम् ।लेखकश्चाऽभवत् ताडपत्रेषु पट्टकेष्वपि ॥१॥धातुपत्रेषु च काष्ठफालेषु चाम्बरेष्वपि ।नाम्ना विशालरेखो वै वैश्यः सुकरदे पुरे ॥२॥लेखोत्पन्नेन सततं जीविकां समवर्तयन् ।कुटुम्बपोषणं तुष्ट्या करोति धर्मवृत्तिमान् ॥३॥तस्यैकदा समायातः श्वा गृहे च गृहान्तरे ।सम्प्रविष्टः पात्रगतं पयोऽपिबत्तु धेनुजम् ॥४॥अशुद्धं तत्पयः सर्वं जातं घटगतं ततः ।वैश्योऽपश्यत् पिबन्तं तं श्वानं गृहान्तरे गतः ॥५॥रुषा यष्टिं समगृह्याऽताडयत् श्वा तु मूर्छितः ।आक्रोशन् पतितो भूमौ पादान् विक्षेपयन् मुहुः ॥६॥मृत्युं जगाम यावत्तु तावद् वैश्येन कर्षितः ।चत्वरे क्षिप्त एवापि तावत्पार्श्वालया जनाः ॥७॥श्रुत्वाऽऽक्रोशं सत्वरं ते कुतूहलसमन्विताः ।आययुश्चत्वरे तत्र व्यपश्यन् मारितं तदा ॥८॥श्वानं वैश्येन वै क्षिप्तं मृतं वैश्येन मारितम् ।तिरश्चक्रुस्तु ते वैश्यं धिक्कारं प्रददुस्तथा ॥९॥श्वघ्नोऽयं क्रूरकर्मा चाऽग्राह्यजलान्न एव च ।श्रुत्वैवं तु तदा पापशब्दान् लज्जां गतोऽभवत् ॥१०॥धर्मवान् कीर्तिमाँश्चापि वेगेन पापमाचरन् ।अवाच्यतां गतो वैश्यः शुशोचाऽतिजनान्तिके ॥११॥उवाच तान् पार्श्वलोकान् न मया मृत्युहेतवे ।ताडितः श्वा किन्तु शिक्षणार्थं प्रताडितोऽस्त्ययम् ॥१२॥गृहं प्रविश्य स यतो दुग्धं पपौ हि धेनुजम् ।सर्वं भ्रष्टं चकाराऽसौ तेन वै ताडितो मया ॥१३॥पार्श्वमर्मस्थले मारः कृतो नहि विजानता ।अकस्मात् पतितो मारः पार्श्वे मर्मणि तेन सः ॥१४॥मृतोऽयं तस्य हत्या मे जाता करोमि निष्कृतिम् ।विप्राः शिष्टा भवन्तो मे ब्रुवन्तु तस्य निष्कृतिम् ॥१५॥इत्यर्थिता भूसुरास्तं जगदुर्व्रतमुत्तमम् ।मासं कथायाः श्रवणं चैकभुक्तव्रतं तथा ॥१६॥सत्संगः साधुसेवा च दानं यथाधनं तथा ।तीर्थस्नानं मासमात्रं नित्य मन्त्रसहस्रकम् ॥१७॥हरेर्नाम्नां जपश्चेति प्रायश्चित्तं ददुर्द्विजाः ।विशालरेखः पापस्य नुत्तये विचचार ह ॥१८॥शर्करानगरं तीर्थं कथास्थानमनुत्तमम् ।स्थावरं जंगमं चेत्युभयं तीर्थं हि तत्स्थले ॥१९॥प्राप्तं तेन तु विधिना तीर्थं कृतं हि सिन्धुजम् ।कथायाः श्रवणं नित्यमेकभुक्तव्रतान्वितम् ॥२०॥मासमात्रं कृतं तेन लब्ध्वा यथोदितं मनुम् ।साधूनां सेवनं चापि कृतं तेन हितैषिणा ॥२१॥नष्टपापोऽभवन्नष्टवासनो वैश्य एव ह ।पूर्वजन्मार्जिताऽघानि नष्टानि सेवनात् सताम् ॥२२॥प्रारब्धं सञ्चितं कर्म सर्वमन्त समाव्रजत् ।आयुः पूर्णं तु सञ्जातं मृत्युकाल उपागतः ॥२३॥मासान्ते चैत्रशुक्लस्य पञ्चम्यां प्रातरेव सः ।स्नात्वा कथास्थलं प्राप पुपूज व्यासपुंगवम् ॥२४॥संहितां लोमशं चापि नत्वा महर्षिमण्डलम् ।कथां शुश्राव मालाया आवर्तनपुरःसरम् ॥२५॥कथान्ते कीर्तनान्तेऽस्य जृंभणान्यभवन् मुहुः ।तावद् व्योम्नो हरिः कृष्णोनारायणः समाययौ ॥२६॥सर्वेषां शृण्वतां प्राह तमायाहि विमानकम् ।श्रूत्वा विशालरेखः स मुमुदे मोक्षभाग्यवान् ॥२७॥द्रुतं मूर्छामवापाऽपि दिव्यदेहो बभूव ह ।विमाने तं समादाय ययौ धामाऽक्षरं हरिः ॥२८॥कृपैषा बद्रिके श्रीमत्कृष्णस्य मोक्षदायिनी ।प्रायश्चित्तनिमित्तेन मोक्षं यया जगाम सः ॥२९॥तस्य पत्नी शुचिकान्तानाम्नी तस्यौर्ध्वदैहिकम् ।चकार विधिवद् भक्ता वैष्णवी भाग्यशालिनी ॥३०॥वैराग्यं सा समापन्ना ह्यनपत्या सती शुभा ।भक्तिं चक्रे मनुं नाम लब्ध्वा श्रीलोमशात् सदा ॥३१॥नित्यं कथां शृणोत्येव साध्वीव्रजं प्रसेवते ।सा तु वैराग्यवेगेन ज्ञानेन सेवया तथा ॥३२॥त्यागदीक्षां जगृहे वै सर्वमन्त्रसमन्विताम् ।काषायधारिणी भूत्वा साध्वीनां मण्डलेऽवसत् ॥३३॥भेजेऽनादिकृष्णनारायणं पार्वीप्रभुम्पतिम् ।बद्रिके सा स्वतन्त्राऽभूत् साध्वी स्वर्गादिगामिनी ॥३४॥ब्रह्मसभामपि याति सा समाधिमती तथा ।शुचिकान्ताऽभवन्नाम्ना कृष्णकान्तेश्वरी ततः ॥३५॥चतुर्युगं तु सा साध्वी पृथ्व्यां ततः स्थिताऽभवत् ।भजनं कारयित्वाऽपि नारीजनानसंख्यकान् ॥३६॥प्रेषयामास मुक्त्यर्थं कार्ष्णं पदं हि पावनम् ।कुंकुमवापिकाक्षेत्रे वासं व्यधाच्चतुर्युगम् ॥३७॥ततो धामाऽक्षरं प्राप साध्व्ययुतं विधाय सा ।शिष्याणां मण्डलं तस्याः साध्वीनां चाऽयुतात्मकम् ॥३८॥व्यचरद् भूमिखण्डेषु नारीणां बोधदायकम् ।कृष्णनारायणीसत्यः सर्वा भेजुर्नरायणम् ॥३९॥शाखाः प्रशाखाः शिष्याः प्रशिष्याः स्थाप्य धरातले ।ययुर्धामाऽक्षरं ताश्च कृष्णनारायणालयम् ॥४०॥इत्येवं बद्रिके वैश्यो मोक्षं जगाम भक्तराट् ।कृष्णस्य कृपया भक्त्या सेवया श्रवणेन च ॥४१॥अथाऽन्यं ते कथयामि चमत्कारं महत्तमम् ।कायस्था बहवः श्रुत्वा चमत्कारं प्रमोक्षदम् ॥४२॥आययुः परितो राष्ट्रात् संहितायाः कथास्थलम् ।उपदा विविधा नीत्वा पूजासामग्रिकाऽन्विताः ॥४३॥कीर्तयन्तो हरेर्नाम गायन्तो गीतिका हरेः ।नरा नार्यो बालवृद्धा युवमण्डलकान्यपि ॥४४॥आययुः शर्कराभ्याशं महोद्यानं समुत्सुकाः ।महोद्याने कृतावासा कृतस्नानाश्च तीर्थके ॥४५॥उपदाकरपात्राश्चाऽऽययुः कथासभास्थलम् ।जयनादान् प्रचक्रुश्च दण्डवन्नमनाञ्जलिम् ॥४६॥पूजां चक्रुः संहितायाः मूर्तेश्च वाचकस्य च ।सतां महर्षिवर्याणां सतीनामर्हणानि च ॥४७॥विप्राणां योगिनां पूजां चक्रुश्चारार्त्रिकं व्यधुः ।उपाविविशुः सदसि शुश्रुवुश्च कथामृतम् ॥४८॥मन्त्रं स्वतःप्रकाशाच्च जगृहुर्नामधुन्यकम् ।ययुश्चाऽवसथान्नैजान् मासं तस्थुः कथार्थिनः ॥४९॥सतां सेवां च बहुधा चक्रिरे कीर्तनान्यपि ।तीर्थाप्लवनं दानानि चक्रिरे भजनं मिथः ॥५०॥हृतपापा अभवँस्ते गतमायिकवासनाः ।शुद्धात्मानोऽभवँश्चापि नरा नार्यः सहस्रशः ॥५१॥चैत्रशुक्लैकादश्यां च बद्रिके त्वाययौ हरिः ।अनादिश्रीकृष्णनारायणः स्वर्णविमानयुक् ॥५२॥हसन् प्राह हरिः सर्वान् कायस्थान् कृपया मुदा ।शृण्वतां मत्कथां सेवां कुर्वतां च सतां मुदा ॥५३॥भजतां मां च वः कल्याणार्थं चाहमुपागतः ।आयान्तु ते य इच्छन्ति त्वागन्तुं धाम मेऽक्षरम् ॥५४॥सज्जा भवन्तु तूर्णं चारोहन्तु मे विमानकम् ।नयामि चाऽक्षरं धाम शाश्वतानन्दमन्दिरम् ॥५५॥एवमुक्ताः करणाद्याः कायस्था नरयोषितः ।पञ्चशतानि सहसा सज्जास्तु मुक्तयेऽभवन् ॥५६॥तेषां हलहलाशब्दः सहस्रोत्क्षेपणाऽऽह्वनाः ।परितश्चाऽभवन् बद्रि महाश्चर्यविधायिनः ॥५७॥पञ्चशतानि कायस्था नरा नार्यस्तदा द्रुतम् ।त्यक्त्वा भौतिकवर्ष्माणि चाबालवृद्धदेहिनः ॥५८॥अभवन् दिव्यदेहास्ते कृष्णप्रोक्षितवारिभिः ।सर्वे षोडशवर्षास्ते मुक्ता मुक्तानिकाः शुभाः ॥५९॥आरुरुहुर्विमानं चोपाविविशुर्हरेः पुरः ।पुपूजुः परया भक्त्याऽऽश्लेषस्पर्शाऽञ्जलिस्तवैः ॥६०॥कृष्णनारायणनीता ययुस्ते परमं पदम् ।बद्रिके शृण्वतां तेषां धुन्यं च पश्यतामपि ॥६१॥सर्वेषामन्यलोकानां विमानं दिवमाविशत् ।चमत्कारो महान् जातः कृपयाऽयं हरेः प्रभोः ॥६२॥पश्चस्थैश्च कृतान्यूर्ध्वदैहिकानि ततः परम् ।तेऽपि विरागमापन्नाः कथां श्रुत्वा ययुस्ततः ॥६३॥निजान्निजानालयाँश्च कृष्णभक्तिं प्रचक्रिरे ।कालेन ते ययुर्धामाऽक्षरं श्रीपरमात्मनः ॥६४॥बद्रिके परमाश्चर्यं कथयामि निबोध मे ।त्रिवादनगरे त्वासीत् शास्ता शाहविलापनः ॥६५॥तस्य सम्पत्तयश्चासन् वाटीक्षेत्रगृहादिकाः ।अश्वा वृषभा गवया उष्ट्राश्च पशवोऽभवन् ॥६६॥गोऽजामहिष्य आसँश्च भृत्याश्चापि शताधिका ।ग्रामाधिपः खण्डराजः शाहविलापनस्तदा ॥६७॥अश्वपालाँश्च गोपालान् वेतनैः संररक्ष वै ।क्षत्रियः स हि शुश्राव कथोत्सवं महत्तमम् ॥६८॥मनश्चक्रे तत्र गन्तुं साश्वगोपालकैः सह ।सज्जोऽभवत् स तूर्णं वै श्रीस्वामिन्या स्त्रिया सह ॥६९॥श्रीस्वामिनी सती पत्नी गवां शतं निनाय ह ।दानधर्मार्थमेवापि दुग्धपानार्थमित्यपि ॥७०॥प्रतस्थिरे ते गृहतः शर्करानगरं ययुः ।गोपालाश्चाऽश्वपालाश्च तथा शाहविलापनः ॥७१॥श्रीस्वामिनी तथा तस्याः सख्यो दास्यः शतं तदा ।सभूषाः सोपकरणाः सोपदाः ससमृद्धयः ॥७२॥महोद्याने प्रचक्रुस्ते स्वावसथान् यथायथम् ।स्नात्वा ते दर्शनार्थं वै सोपदाः प्रययुः सभाम् ॥७३॥कथां श्रुत्वा ततः पूजामारार्त्रिकं प्रचक्रिरे ।राजा राज्ञी धनवन्तस्तथा भृत्यादयोऽपि च ॥७४॥न्यधुर्व्यासपुरःस्थाने भूषामुद्राऽम्बराणि च ।फलपुष्पान्नमिष्टान्नदुग्धदौग्धेयकानि च ॥७५॥स्वप्रकाशायनकोऽपि लोमशश्च महर्षयः ।आशीर्वादान् ददुस्तेभ्यो ययुश्चावसथाँस्ततः ॥७६॥एवं नित्यं नियमिताः शृण्वन्ति संहिताकथाम् ।राजैकदा निशि स्वप्ने ददर्श स्वं शवं प्रगे ॥७७॥उत्थाय सभयो भूत्वा कथास्थानं समागमत् ।न्यवेदयल्लोमशाय स्वाप्नवृत्तान्तमुल्बणम् ॥७८॥लोमशः प्राह राजानं समाप्तायुष्यकं तदा ।राजन् कर्मसमाप्तिस्ते जाता कथानिषेवणात् ॥७९॥मन्त्रं गृहाण नामापि गृह्ण श्रीपरमात्मनः ।सज्जो भव च मोक्षार्थं त्यज रागं तु भौतिकम् ॥८०॥इत्युक्तः स तु शीघ्रं वै मन्त्रं जग्राह नाम च ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥८१॥राज्ञीदास्यस्तथा दासा जगृहुर्मन्त्रमुत्तमम् ।ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८२॥ 'कृष्णनारायण कृष्णनारायण नरायण ।बालकृष्णाऽनादिकृष्णनारायण रमायण' ॥८३॥प्रभोनारायणश्रीमाधवीनारायण प्रभो ।जयाकृष्णललितान्रायणराधापते विभो ॥८४॥लब्ध्वा मन्त्रं भजनं ते चक्रुर्मिथो निजालये ।राजा राज्ञी ददतुश्च दानानि गजवाजिनाम् ॥८५॥गवां सुवर्णरत्नानां भूषावस्त्रादिसम्पदाम् ।सज्जो भूत्वा प्रतीक्षां तु राजा राज्ञीसमन्वितः ॥८६॥करोति श्रीहरेः सम्यग् गन्तुं मोक्षपदं परम् ।द्वादश्यां चैत्रशुक्लस्य विमानेनागतो हरिः ॥८७॥सतां प्रसेवया शुद्धं भक्तं राज्ञीसमेतकम् ।दिव्यदेहं विधायैव स्वामीकृष्णोनरायणः ॥८८॥तथाऽन्यान् दासदासीश्च भक्तिसर्वस्वसंभृताः ।दिव्यदेहान् विधायैव निषाद्य स्वविमानके ॥८९॥पश्यतां सर्वलोकानां निन्ये धामाऽक्षरं निजम् ।बद्रिके तन्महाश्चर्यं वीक्ष्याऽन्ये भृत्यदासिकाः ॥९०॥सर्वदानानि दत्वैव मोक्षार्थं कृतनिश्चयाः ।ज्येष्ठाय तु कुमाराय नाम्ना भास्करभूतये ॥९१॥राज्यधुरं विनिर्दिश्य सज्जास्ते मुक्तयेऽभवन् ।भेजुर्नारायणकृष्णं त्यक्तान्नभोजनादयः ॥९२॥दिनत्रयान्ते भगवान् स्वामीकृष्णोनरायणः ।कृपया त्वाययौ तूर्णं नेतुं धामाऽक्षरं निजम् ॥९३॥विमानेन समस्ताँस्तान् कृत्वा मूर्छासमन्वितान् ।त्याजयित्वा तु देहाँश्च दिव्यदेहान् विधाय च ॥९४॥निन्ये धामाऽक्षरं नैजं पश्यतां सर्वदेहिनाम् ।कुमारो भास्करभूतिश्चक्रे तदौर्ध्वदैहिकम् ॥९५॥भक्तो भूत्वा कथां श्रुत्वा भाग्यं मत्वा परं महत् ।ययौ त्रिवादनगरं शशास न्यायतः सदा ॥९६॥भक्त्या काले समायाते पावनः सोपि वै मुदा ।वासनाशून्यहृदयो वंशे न्यस्य धुरं निजाम् ॥९७॥ययौ धामाऽक्षरं कृष्णनारायणेन वाहितः ।एवं बद्रीप्रिये लोकैर्दृष्टा चमत्कृतिः परा ॥९८॥मोक्षदा पापहन्त्री च साक्षात्कृष्णाऽङ्घ्रियोजिका ।त्रिवादनगरे ये ये शुश्रुवुस्तां चमत्कृतिम् ॥९९॥तेऽपि पारोक्ष्यभावाढ्या भेजुः कृष्णंनरायणम् ।क्षीणपापा अभवँश्च सतां सेवापरायणाः ॥१००॥सत्संगेन ययुर्धामाऽक्षरं त्वन्ते कृपाश्रयाः ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिभवेदपि ॥१०१॥अश्वपालाश्च गोपाला ये ये चासन् त्रिवादके ।तेऽपि कृष्णं भजित्वैव ययुर्धामाक्षरं परम् ॥१०२॥निकृष्टयोनयश्चापि पशवोऽजागवादयः ।तेऽपि दुग्धार्पणयोगैर्ययुर्धामाऽक्षरं प्रभोः ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणादिना लेखकस्य विशालरेखस्य सपत्नीकस्य, करणाद्यानां कायस्थानां बहूनां, शाहविलापनक्षत्रियस्य सपत्नीदासीदासस्य च, मोक्षणमित्यादिनिरूपणनामा पञ्चषष्टितमोऽध्यायः ॥६५॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP