संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां परमपावनीम् ।सिन्धुदेशे संहितायाः कथां श्रोतुं तु नित्यशः ॥१॥विमानेन समायाति क्षारपुरक्षितीश्वरः ।नाम्ना क्षीरोदवीराख्यस्तथा राज्ञी रुहारणिः ॥२॥उभौ शृणुत सदसि पूजयित्वा तु वाचकम् ।संहितां पूजयित्वाऽपि प्रणम्यर्षीन् मुनीन् गुरून् ॥३॥समासीनौ राजवर्गासनयोः कृष्णमानसौ ।श्रवणेन ततो जातौ पावनौ तौ नृपीनृपौ ॥४॥जगृहतुर्मनुं व्यासात् स्वीयप्रकाशकाद्धि तौ ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥५॥प्रियकृष्ण बालकृष्ण कृष्णनारायणेति च ।जेपतुर्मालिकाद्वारा नामसंकीर्तनं हरेः ॥६॥चक्रतुस्तौ सतां सेवां कृष्णभक्तिपरायणौ ।प्रियकृष्ण हरिकृष्ण कृष्णनारायणेति तौ ॥७॥ऊचतुः सततं चेति प्रातः पूजां प्रचक्रतुः ।नैवेद्यं हरये धूपं दीपं ताम्चूलकं जलम् ॥८॥अर्पयामासतुर्ध्यानं चक्रतुः मालतीपतेः ।महाभागवतौ त्वेवं जातौ दिव्यगुणान्वितौ ॥९॥निर्मानौ दासवन्नित्यं वर्तमानौ सभास्थले ।कथामूर्तिं कृष्णमूर्तिं धारयामासतुः सदा ॥१०॥तयोः प्रजाजनाश्चापि समायान्ति कथार्थिनः ।नरा नार्यः पवित्राश्च जायन्ते श्रवणादिभिः ॥११॥बहवस्ते हरेर्मन्त्रं जगृहुः शरणागताः ।कार्तिके धवले पक्षे द्वादश्यां तु कथास्थले ॥१२॥क्षीरोदवीरो नृपतिः रुहारण्या समं तथा ।प्रजाजनैः समं तत्र कथायां समतिष्ठत ॥१३॥श्रत्वा कथां संहिताया आरार्त्रिकं व्यधात्तदा ।प्रसादं श्रीहरेः प्राप्य भुक्त्वाऽऽस्वाद्यजलामृतम् ॥१४॥सभायां तत्र लोकानां पश्यतां समुपाविशत् ।राज्ञी चापि तदा तत्र सन्निधौ समुपाविशत् ॥१५॥तावत्तत्र समायातं विमानं दिव्यतैजसम् ।अनादिश्रीकृष्णनारायणाधिष्ठितमुज्ज्वलम् ॥१६॥अवातरत् सभापार्श्वे तस्मान्नारायणप्रभुः ।निःससार क्षितावेत्य कृत्वा तौ दिव्यविग्रहौ ॥१७॥नृपीनृपौ विमाने तु नीत्वा श्रीपुरुषोत्तमः ।सर्वेषां पश्यतां धामाऽक्षरं ययौ तदा प्रभुः ॥१८॥आश्चर्यं परमं वीक्ष्य लोका मोदमुपाययुः ।न देहौ भौतिकौ तत्र तयोः स्तश्चेति तन्महत् ॥१९॥सामर्थ्यं वीक्ष्य नृपयोः कृपां नारायणस्य च ।अनेनैव तु देहेन मोक्षं नयति माधवः ॥२०॥विचार्येत्थं तु बहवो नरा नार्यः समुत्सुकाः ।गन्तुं धामाऽक्षरं सज्जा बभूवुस्तत्र बद्रिके ॥२१॥तत्र सहस्रशः सन्तो महर्षयः सहस्रशः ।वृद्धाः सहस्रशश्चापि स्त्रियोऽनाथाः सहस्रशः ॥२२॥पापा यद्वा च निष्पापाः कथाश्रवणकारिणः ।कृष्णनारायणधामाऽक्षरं गन्तुं सुतत्पराः ॥२३॥अभवन् द्वादशीसायं कथानीराजनोत्तरम् ।कीर्तनान्ते हरिर्ज्ञात्वा भक्तानां वाञ्छितं शुभम् ॥२४॥कथाश्रवणधौताघान् शरणागतिसंप्लुतान् ।त्यक्तेषणान् भक्तिमतो नेतुं कृष्णः समाययौ ॥२५॥लब्धमन्त्रान् समस्तान् वै नरान्नारीस्तदा हरिः ।कृत्वा सर्वान् दिव्यदेहान् तच्छरीरामृतान् हि तान् ॥२६॥विमाने सुविशाले वै धृत्वा धामाऽक्षरं ययौ ।आश्चर्यं परमं बद्रि कृष्णेनैतत् तदा कृतम् ॥२७॥अमन्त्राश्चाऽगुरवो ये ते तु नैवाऽधिकारिणः ।अवशिष्टाश्चाऽधृताश्च स्थितास्तत्रैव ते तदा ॥२८॥तेऽपि कथाश्रवणान्ते लोमशात् तत्र वै मनुम् ।जगृहुः पावनाः सर्वे सज्जास्ततोऽभवन् खलु ॥२९॥अथाऽऽययौ भगवान् श्रीपतिर्नेतुं समन्त्रकान् ।रात्रौ विमानके धृत्वा दिव्यदेहान् प्रसज्जितान् ॥३०॥निन्येऽनादिकृष्णनारायणो धामाऽक्षरं निजम् ।सहस्रशो नरा नार्यो वृद्धा वा वासनोज्झिताः ॥३१॥कृष्णनारायणमूर्तौ प्रेमस्नेहपरायणाः ।विषवत्कृतसंसारास्त्यक्तलोकेषणास्तथा ॥३२॥निरुद्धवृत्तयः कृष्णे प्रपत्तिं परमां गताः ।कृपया चेच्छया विष्णोर्ययुर्धामाक्षरं हरेः ॥३३॥अहो भाग्यं हि बलवद् बलिष्ठा च कृपा हरेः ।कोटिकल्पतपोलभ्यं लब्धवन्तोऽक्षरं यया ॥३४॥नर्षयो यत्पदं श्रेष्ठं यं हरिं वाऽर्जयन्त्यपि ।तपोभिरल्पबहुलैस्तं हरिं ते प्रपेदिरे ॥३५॥यदर्थं भूभृतः भूमिं राज्यं त्यक्त्वा तपन्त्यपि ।तथापि नाऽऽप्नुवन्त्येनं तं प्राप्ताः कृपया प्रभोः ॥३६॥दुर्लभः सुलभो जातो धामेशो भूतले त्विह ।अदृश्यो दृश्यतां प्राप्तः कृपया सर्वदेहिनाम् ॥३७॥कष्टसाध्यो हरिस्त्वद्य कृपासाध्योऽस्ति सर्वथा ।कथमन्यथा पापानां चक्षुषोर्गोचरो हरिः ॥३८॥जना ऊचुः-अहो भाग्यं शुभं श्रेष्ठमस्माकं यद्धरिस्त्विह ।निजे गृहे स्वयमेत्य ददाति दर्शनं निजम् ॥३९॥एवंविधं तु सुलभं प्राप्याऽपि न भजन्ति ये ।त एव कर्महीना वै दुर्भाग्या मानवा अपि ॥४०॥पशुवज्जीवनं तेषां गतं भवति मोक्षदम् ।न पुनर्मानवो देहोऽवाप्स्यतेऽतो भजन्तु तम् ॥४१॥गृह्णन्तु श्रीहरेर्मन्त्रं शरणं यान्तु सर्वथा ।तन्वा लक्ष्म्या धिया कृष्णं प्रसेवन्तां कृतादराः ॥४२॥गृहं वाटी सुता नारी पतिः पुत्राश्च वाजिनः ।सम्पदश्चञ्चलाः सर्वास्ताभिः कृष्णं लभन्त्विह ॥४३॥एवं बद्रीप्रिये तत्र जनाः प्रोचुः परस्परम् ।जगृहुः कृष्णमन्त्राँश्च बभूवुर्वैष्णवास्तदा ॥४४॥भेजिरे श्रीकृष्णनारायणं साधून् सिषेविरे ।नरा नार्यः परां पवित्रतां प्राप्य ततः सदा ॥४५॥महाभागवता भूत्वा प्रतीक्षन्ते स्म माधवम् ।कदा नारायणकृष्णो धामाऽस्मान्नेष्यति प्रभुः ॥४६॥कदा साक्षान्निजान् कृत्वा ग्रहीष्यति करं प्रभुः ।आतुरा एवमर्थास्ते नारायणपरायणाः ॥४७॥आबालवृद्धा अभवन् विवेकभक्तितत्पराः ।बद्रिके सिन्धुजा देशाः कथाप्रभावतस्ततः ॥४८॥प्रायो भागवतैर्भक्तैः सम्पन्ना दिव्यतां गताः ।स्थले स्थले बालकृष्णो विमानेन स्वदर्शनम् ॥४९॥दत्वा भक्तं च भक्तां च नयत्यक्षरधाम सः ।एवमाश्चर्यमनिशं प्रत्यहं तत्र वर्तते ॥५०॥बद्रिके परितो देशे राष्ट्रे ग्रामे च पत्तने ।वार्त्तेयं सम्प्रवृत्ता यत् परायणं हि मुक्तिदम् ॥५१॥यन्ति मुक्तिं मावनास्तु श्रुत्वा पारायणं प्रभोः ।कृत्वा तु दर्शनं साक्षाद् यान्ति धाम विमानगाः ॥५२॥न पापं भगवान् कृष्णो गणयत्यत्र पापिनः ।पावयित्वा कृपयैव नयत्यूर्ध्वाऽक्षरं पदम् ॥५३॥श्रुत्वाऽन्येऽपि महापापाः पापसन्त्रस्तमानसाः ।आगत्य बद्रिके श्रुत्वा कथां यन्ति परं पदम् ॥५४॥एवंविधं चमत्कारं बहुमानवकीर्तितम् ।श्रुत्वा पापा महापापा आययुः संहितास्थलम् ॥५५॥हिंसका घातकाश्चौराः कृतघ्नाश्च प्रतारकाः ।विश्वासघातका मद्यपाना मांसादना अपि ॥५६॥मुमुक्षाप्रेरितास्त्रस्ताः कर्मभिः स्वकृतैस्तदा ।निष्ठाश्रद्धाप्रपत्तिविश्वासधर्मास्तु ते हरेः ॥५७॥कथां श्रुत्वा नरा नार्यो लेभिरेऽतिपवित्रताम् ।शृणु श्रीबद्रिके तत्र महापापास्त्रियाः कथाम् ॥५८॥अन्ततः पावनीं सर्वपापघ्नां कृष्णयोगदाम् ।अभवत्सोमिकानाम्नी गणिका पञ्च तत्सुताः ॥५९॥मांसादिन्यो मद्यपास्ता जीवहिंसापरायणाः ।सर्वादिन्यः कुक्कुटादिपालिन्यश्चाऽण्डभक्षिकाः ॥६०॥पुत्र्यश्च गणिका चापि सर्वास्ता वारयोषितः ।मिथुनकुट्टवास्तव्या बीजसांकर्यगर्भजाः ॥६१॥श्रुत्वा लोकमुख्येभ्यो वै महिमानं हरेः परम् ।कथाश्रवणजं चापि मोक्षलाभं प्रकर्ण्य च ॥६२॥जातपापप्रणाशेच्छाः स्वज्ञात्युद्धारहेतवे ।प्रथमं ताः पञ्चपुत्र्यो माता च शर्करापुरम् ॥६३॥संहितायाः कथां श्रोतुमाययुः साधनान्विताः ।लोमशं ताः प्रणम्यैव चक्रुर्निवेदनं निजम् ॥६४॥दयालुर्लोमशस्ताभ्यो ददौ कृपाऽमृतं बलम् ।हरेः प्रसादजं वारि पुष्पं पत्रं फलं ददौ ॥६५॥एकाशनं व्रतं नित्यं स्नानं सिन्धौ प्रपूजनम् ।अनादिश्रीकृष्णनारायणमूर्तेः सुचिन्तनम् ॥६६॥मद्यमांसादिसन्त्यागं साधुसेवनमन्वहम् ।कृष्णनारायणजापं ददौ ताभ्यस्तु लोमशः ॥६७॥बद्रिके तास्तथैवाऽऽसन् सर्वा गुरोर्वचःस्थिताः ।मासमेवं व्रतस्थास्ताः शुश्रुवुः संहिताकथाः ॥६८॥पापनाशोऽभवत्तासां धर्मशुद्धिस्तथाऽभवत् ।देहशुद्धिश्च सञ्जाता प्रसादान्नफलाशनात् ॥६९॥ततो मन्त्रं ददौ ताभ्यो लोमशः पारमेश्वरम् ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥७०॥कृष्णनारायणस्वामिकृष्णनारायणं जपम् ।ददौ ताभ्यस्ततः सर्वाः शुद्धात्मदिव्यभावनाः ।कार्तिकस्य तु पूर्णाया आरभ्य मासमेव ताः ॥७१॥मार्गशीर्षपूर्णिमापर्यन्तं पारायणे स्थिताः ।शुश्रुवुः परमात्मानं लक्ष्मीकान्तं हृदि स्थितम् ॥७२॥जेपुर्नारायणस्वामिप्रभुंकृष्णं निशामुखे ।अपश्यन् परमात्मानं हसन्तं द्राक् पुरःस्थितम् ॥७३॥गुरोः कृपया मन्त्रस्य जपेन साधुसेवया ।कथायाः श्रवणेनापि भक्त्या ध्यानेन निष्ठया ॥७४॥पुण्योदयेन भगवान् श्रीकृष्णो दर्शनं ददौ ।कोटिकामातिसौन्दर्यलावण्ययौवनान्वितः ॥७५॥सर्वाभरणभूषाढ्यः सर्वशृंगारशोभनः ।सर्वस्नेहप्रमोदाढ्यो महानन्दप्रदो हरिः ॥७६॥तेजसा परितो भागान् प्रद्योतयन् हसन् हरिः ।षट् ताः प्राह वरार्थं वै ताश्च कृष्णं प्रवव्रिरे ॥७७॥वाराङ्गिन्य ऊचुः-वरदानं कृष्णनारायणोऽस्तु परमो वरः ।आक्षरं च पदं स्थानं निवासार्थं सदाऽस्तु नः ॥७८॥सर्वपापविनाशोऽत्र भक्त्या ते नो ह्यजायत ।शुद्धा मुक्तानिका दिव्याः कृत्वा नय परं पदम् ॥७९॥इत्येवं बद्रिके तास्तु वव्रिरे श्रीहरेस्तदा ।तथाऽस्त्वेवं हरिः प्राह तावद्विमानमागतम् ॥८०॥दिव्यं सुवर्णवर्णं वै सर्वसम्पद्भरं शुभम् ।अनादिश्रीकृष्णनारायणस्तत्राऽभवद्धि हरिः ॥८१॥राधालक्ष्मीयुतः सोऽयं चावातरद् विमानतः ।सभायाः पुरतः स्थित्वा पस्पर्श ताश्च पाणिना ॥८२॥तावत्तासां भौतिकास्तु देहास्ते न्यपतन् क्षितौ ।दिव्यदेहाः कमलासदृश्यस्ता वै तदाऽभवन् ॥८३॥सर्वेषां पश्यतां कृष्णाऽऽज्ञयाऽऽरुरुहुरुत्सुकाः ।विमानं सहसा बालकृष्णेन सह तद्द्रुतम् ॥८४॥अम्बरे त्वभवद् यानं ययौ धामाऽक्षरं प्रति ।जयनादास्तदा ह्यासन् महाश्चर्यमभूत्तु तत् ॥८५॥अहो पापसमाचारमय्योऽपि श्रवणाद्धरिम् ।पतिं प्राप्य ययुर्धामाऽक्षरं भक्तेर्हि गौरवम् ॥८६॥कृपालुः श्रीकृष्णनारायणः श्रीस्वामिवल्लभः ।महापापातिपापाढ्यान् विशोध्य नयति ध्रुवम् ॥८७॥परं पदं शाश्वतं वै नात्र कार्या विचारणा ।एवं श्रुत्वा बद्रिके वै चमत्कारं तदाऽपराः ॥८८॥मिथः प्राहुरहो आल्यो नो ग्रामाद् गणिका कथाम् ।श्रोतुं पञ्चसुताभिः सोमिकानाम्नी ययौ तु या ॥८९॥सा प्रययौ विमानेन हरेर्धाम परं पदम् ।सा धन्या सोमिका चापि धन्या पुत्र्यश्च पञ्च ताः ॥९०॥अरुणानी पाटलानी धवलानी मृणालिनी ।किञ्जल्कानी पञ्च पुत्र्यो देव्यो भूत्वाऽक्षरं ययुः ॥९१॥अहो वयं प्रयास्यामः श्रीकृष्णशरणं शुभम् ।आत्मोद्धारं करिष्यामः साक्षात्प्राप्य पतिं हरिम् ॥९२॥इत्येवं वारसुन्दर्यो मिथो मिथुनकुट्टगाः ।निश्चित्य ताः कथां श्रोतुमाययुर्वै सहस्रशः ॥९३॥बद्रिके तीर्थयानेऽपि पदे पदेऽश्वमेधजम् ।फलं सञ्जायते श्राद्धवतां तासां तथाऽभवत् ॥९४॥पापान्यासां विनष्टानि तीर्थाभिगमनात्तदा ।स्नात्वा स्थित्वा कथां श्रुत्वा मन्त्रं प्रापुर्हि लोमशात् ॥९५॥पौषकृष्णैकादश्यां ताः कथान्ते प्रातरेव ह ।विमानं त्वम्बरात्प्राप्तं व्यलोकयन् सुवर्णजम् ॥९६॥अनादिश्रीकृष्णनारायणयुक्तं महायतम् ।हरिश्चावाऽतरत् तस्मात् कथाशालान्तिकं तदा ॥९७॥विमानादानीतवारिप्रोक्षणं स मुहुर्मुहुः ।कृतावान् श्रीकृष्णनारायणो वारांगनागणे ॥९८॥तास्तु प्राप्य कणौंस्तूर्णं त्यक्तभौतिकपुत्तलाः ।दिव्यमुक्तानिका भूत्वा तस्थुः कृष्णस्य सन्निधौ ॥१९॥पश्यतां सर्वलोकानां नीत्वा कृष्णो विमानके ।सहस्रवारमुक्ताभिः सहितश्चाक्षरं ययौ ॥१००॥ताश्च शुद्धा ब्रह्मह्रदे स्नात्वा श्रीकमलासमाः ।धाममुक्तानिका जाताः कथाकृष्णप्रसादतः ॥१०१॥श्रद्धया फलमाप्नोति भक्त्या प्रसन्नतां तथा ।सेवयाऽऽत्मानमाप्नोति कृपया परमेश्वरम् ॥१०२॥बद्रिके सर्वलोकेषु संहितायाः कथाबलम् ।प्रासरत् सहसा मोक्षप्रदं पापनिवासकम् ॥१०३॥संघशो वै नरा नार्यो मोक्षार्थं कृतनिश्चयाः ।कथायाः श्रवणार्थं ते समायान्ति समन्ततः ॥१०४॥कीर्तनानि प्रजायन्ते भजनानि स्थले स्थले ।सतां सेवाः प्रवर्तन्ते भक्ष्यभोज्यप्रदानकैः ॥१०५॥चमत्काराः प्रजायन्ते तत्र तत्र दिने दिने ।श्रुत्वा श्रुत्वा नरा नार्यो हर्षिताः संभवन्ति वै ॥१०६॥भजन्ते श्रीबालकृष्णं साक्षाद्वद्ध्रदयस्थितम् ।लभन्ते परमं लाभं ज्ञानं शुद्धिं परां गतिम् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन क्षीरोदवीरनृपतेः रुहारिणीराज्ञीयुतस्य, सहस्राधिप्रजानां, पञ्चपुत्रीसहितायाः सोमिकानाम्नीगणिकायाः, तथा मिथुनकुट्टवासिनीगणिकानां, संहिताकथाश्रवणेन मोक्षणं चेत्यादिनिरूपणनामा सप्तचत्वारिंशोऽध्यायः ॥४७॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP