संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७९ Translation - भाषांतर श्रीबदरीप्रियोवाच-नारायणहरे कृष्ण ततः किं समजायत ।क्व क्व यानं ततः कुंकुमाऽक्षरागमनं कदा ॥१॥श्रीनरनारायण उवाच-आषाढशुक्लद्वादश्यां कृतस्नानप्रपूजनः ।अनादिश्रीकृष्णनारायणो नैजे गजासने ॥२॥पद्मावतीप्रियायुक्तो व्यराजत स्वदर्शनम् ।प्रातर्दातुं स्वतःप्रकाशोऽपि वै लोमशो मुनिः ॥३॥श्रीमद्गोपालकृष्णाद्या पत्नीव्रताश्च भूसुराः ।व्यराजन्त सभायां ते कृष्णनारायणान्तिके ॥४॥विप्राः सत्यः साधवश्च सिद्धाश्च यतयोऽमलाः ।विरेजिरे सभामध्ये सूर्यवर्चस्विनोऽनघाः ॥५॥श्रीहरेर्दर्शनार्थं वै स्वायंभुवादिसृष्टिपाः ।ब्रह्माद्या भगवन्तश्च महेन्द्राद्याश्च देवताः ॥६॥महर्षयश्च राजानो राज्ञ्यश्च देविकागणाः ।श्रेष्ठिनश्च प्रजावर्गा महाभागवतोत्तमाः ॥७॥आययुश्चोपदा हस्ता पुपूजुः परमेश्वरम् ।व्यासं गुरुं लोमशं च नत्वोपाविविशुश्च ते ॥८॥लोमशः श्रीगुरुं सर्वान् धन्यवादानवासृजत् ।विदायं प्रददौ योग्योत्तमेभ्यो हि यथायथम् ॥९॥साधुभ्यश्च सतीभ्यश्च महर्षिभ्यो विदायकम् ।महीमानेभ्य एवाप्यागन्तुकेभ्यो विदायकम् ॥१०॥सुरेभ्यः पितृदेवेभ्यः सिद्धेभ्यः प्रददौ तथा ।गान्धर्वसूतबन्दिभ्यः सेवकेभ्यो ददौ मुदा ॥११॥कर्मचारेभ्य उत्कृष्टविदायानि ददौ मुनिः ।पारितोषिकरूपाणि स्वर्णादीनि ददौ मुदा ॥१२॥विप्रेभ्यो दक्षिणादानोत्तमानि कानकानि च ।हीरकान् रत्नभूषाश्च धनानि प्रददौ मुनिः ॥१३॥देवीभ्यः स्त्रीभ्य एवापि कन्याभ्यः प्रददौ मुनिः ।बालेभ्यो ब्रह्मचारिभ्यो यतिनीभ्यो विदायकम् ॥१४॥सांख्ययोगिनीभ्यो ब्रह्मचारिणीभ्यो ददौ मुनिः ।यथायोग्यं विदायं वै पूर्णसन्तोषकारकम् ॥१५॥स्वर्णहारान् स्वर्णभूषाः स्वर्णाम्बराणि मुद्रिकाः ।सुवेषान् स्वर्णपात्राणि देहोपकरणान्यपि ॥१६॥शृंगारोत्तमरूपाणि कल्पपात्राणि यान्यपि ।कल्पचिन्तामणीन् मौक्तिकादिहारान् ददौ मुनिः ॥१७॥यानानि गृहसामग्रीर्ददौ श्रीलोमशो गुरुः ।आशीर्वादान् ददौ चान्ते महोत्सविभ्य आदरात् ॥१८॥विहायं प्रददौ पुष्पहारान् कण्ठेषु देहिनाम् ।अथ भूपाः सभायां ते जगदुर्लोमशं मुनिम् ॥१९॥निजालयान्निजराज्यं पवित्रयितुमागमैः ।अनादिश्रीकृष्णनारायणो व्यासश्च संहिताः ॥२०॥लोमशः पितरौ चान्याः श्रीलक्ष्म्याद्याश्च देवताः ।यथायोग्यं समायान्तु पवित्रयन्तु नः क्षितीः ॥२१॥राष्ट्राणि नः प्रदेशांश्च प्रजाश्च मन्दिराणि नः ।पवित्रयन्तु चागत्य भगवन्तः परेश्वराः ॥२२॥स्वायम्भुवो मनुश्चापि प्रियव्रतो नृपस्तथा ।उत्तानपादश्चाप्याह प्राहाऽऽग्निध्रो नृपस्तथा ॥२३॥प्रार्थयँश्च तदा खण्डेश्वरा हिरण्यकादयः ।पावयितुं निजावासान् निजप्रजादिभूमिकाः ॥२४॥तथाऽस्त्वितिकृष्णनारायणस्तेभ्यो ददौ वचः ।कोटिरायो रायहरिस्ततो विदायकं महत् ॥२५॥यथायोग्यं नृपादीनां चक्रतुः सेवकाविव ।सभाविसर्जनं बद्रि जयनादैस्ततोऽभवत् ॥२६॥भोजनान्यभवँस्तत्र लक्षाऽयुताधिदेहिनाम् ।सज्जता प्रस्थानकानि गमनानि ततोऽभवन् ॥२७॥प्रजाः स्वस्वराष्ट्रदेशान् ययुः प्रसन्नमानसाः ।महीमाना ययुश्चापि नृपभिन्नाः प्रजाजनाः ॥२८॥देवा ययुश्चेश्वराश्च तदा कृष्णाज्ञया दिने ।देवैरभ्यर्थितः कृष्णो गन्तुं स्वर्गादिकालयान् ॥२९॥हरिः कालान्तरे गन्तुं स्वीकृत्यतानवासृजत् ।ईश्वरानपि सर्वान् वै प्रार्थनाकारिणस्तथा ॥३०॥कालान्तरे प्रयातुं स्वीकृत्येश्वरानवासृजत् ।पितॄनपि तथोक्त्वैव पातालवासिनस्तथा ॥३१॥कालान्तरे प्रगन्तुं च स्वीकृत्य तानवासृजत् ।ओमित्याह हरिस्तत्र भूपेभ्यस्तद्दिने खलु ॥३२॥पृथ्व्यामेव नृपाणां तु गन्तुं गृहाणि भूस्तरान् ।स्वीचकार कृपासिन्धुर्लोमशस्यानुमन्त्रणात् ॥३३॥अथ सर्वसमाजो द्वादश्यां विसृष्ट एव ह ।केवलाश्च नृपाः सज्जा भूत्वा प्रतीक्षणे स्थिताः ॥३४॥तदा व्यचिन्तयत् कृष्णः सर्वेषां लाभकांक्षया ।नैकरूपधरत्वं वै सर्वैः सह प्रमाणकम् ॥३५॥अथैवं संविचार्यैवाऽनादिकृष्णनरायणः ।बद्रिकेऽधारयन्नैकरूपाणि सदृशानि सः ॥३६॥स्वतःप्रकाशव्यासात्मा लोमशात्माऽभवत्प्रभुः ।तावद्रूपश्च पित्रात्मा मात्रात्मा चाऽभवत्प्रभुः ॥३७॥राधारमादिशक्त्यात्मा दासदासीस्वरूपवान् ।यावन्तो राजन्यवर्यास्तावद्रूपाण्यधारयत् ॥३८॥तेषां तावद्विमानेषु समारुरोह माधवः ।तावत्सर्वस्वरूपात्मा सर्वस्ववर्गरूपवान् ॥३९॥शर्करानगरं त्यक्त्वाऽम्बरे विमानकानि वै ।अभवन् बद्रिके कृष्णाज्ञया तत्स्वामिजूंषि वै ॥४०॥तदा वाद्यान्यवाद्यन्त जयशब्दास्तदाऽभवन् ।ओं नमो बालकृष्णायाऽनादिकृष्णाय ते नमः ॥४१॥नमस्काराश्चाभवँश्च पुष्पाऽक्षताऽभिवर्धनम् ।चक्रुर्लोका देवताद्याश्चन्दनाद्यभिवर्षणम् ॥४२॥कृष्णाज्ञया विमानानि निर्ययुः सिन्धुमण्डलात् ।प्रथमं कोटिरायस्याऽऽलयं प्रति ययौ द्रुतम् ॥४३॥द्वितीयं तु रायहरिमन्दिरं प्रति तद् ययौ ।तृतीयं तु ययौ स्वायम्भुवमन्दिरमुज्ज्वलम् ॥४४॥चतुर्थं तु ययौ दिव्यं प्रियव्रतालयं प्रति ।पंचमं तु ययौ दिव्यमुत्तानपादमन्दिरम् ॥४५॥षष्ठमाग्नीध्रराज्यं वै सप्तमं तु हिरण्यकम् ।अष्टमं केतुमालं च नवमं तु कुरुं प्रति ॥४६॥दशमं काशिकाराजं ययौ विमानमुत्तमम् ।शावदीनं लक्ष्मणं च जुम्मासेम्लं नृपं प्रति ॥४७॥दक्षजवंगरं शिबिदेवं प्रति पृथक् पृथक् ।थर्कूटस्थं वीरजारं शक्त्यक्षिकं नृपं प्रति ॥४८॥कालिमाशं बालकाशं कथकं प्रति वै पृथक् ।पृथुराजं प्रत्युरलकेतुमुष्ट्रालराजकम् ॥४९॥तीराणं चापि हंकारं जयकाष्ठलकं प्रति ।पृथक् कृष्णस्य यानानि ययुस्तैस्तैः सहैव ह ॥५०॥अल्वीनरं जीनवर्द्धिमल्पकेतुं पृथक् पृथक् ।जयकृष्णवनृपतिं परीशाननृपं प्रति ॥५१॥इन्दुरायं च मुद्राण्डं गण्डराजं पृथक् प्रति ।वृहच्छरं च लीनोर्णं बललीनं पृथक् पृथक् ॥५२॥रायगामलभूपं च वरसिंहं पृथग् ययुः ।फेनतन्तुनृपं स्तोकहोमं च कोलकं प्रति ॥५३॥काष्ठयानं दिनमानार्कं पृथग् रायकिन्नटम् ।रायरोकीश्वरं रायरणजीवं पृथग् ययुः ॥५४॥रायवाकक्षकं चापि रायमारीशकं प्रति ।रायबलेश्वरं रायलम्बरं प्रति वै पृथक् ॥५५॥रायनवार्कभूपं च रायहुण्डेशकं प्रति ।रायकूपेशभूपं च कालिमाण्डलिकं प्रति ॥५६॥वनजेलेशभूपं च पारावारपिबं पृथक् ।हरेर्विमानवर्याणि ययुस्तान् प्रति वै पृथक् ॥५७॥कोटीश्वरं श्रीसतीशं त्रेताकर्कशभूपतिम् ।आण्डजरं बाल्यरजं रायसोमनकं पृथग् ॥५८॥ऊरुगवाक्षकं पराङ्व्रतमीशानपानकम् ।राजारायपतिं चापि विमानानि पृथग् ययुः ॥५९॥यज्ञं धर्मं च धातारं विधातारं पृथक् पृथक् ।नाभिं किम्पुरुषं चान्यं रम्यकं प्रति वै पृथक् ॥६०॥उमारायं क्षीरपुरुं नागविक्रमणं प्रति ।जयादित्यं विक्रमार्कं कृष्णदुर्गं च पाञ्चलम् ॥६१॥प्रभालाक्षं लक्षसेनम् आम्रशालं श्रीलम्भनम् ।प्रपत्पालं प्राणिपातं नन्दिभिल्लं पृथग् ययुः ॥६२॥रायपारं चेन्द्रगृत्सं गवयेन्द्रं जनास्त्रकम् ।कर्णपुत्समवध्याभं यागदेवं पटासनम् ॥६३॥दाराभाग्यं राजमानं माधवं ब्रह्मपानकम् ।शीलहारं माणिकाभं चित्तमांगेयकं प्रति ॥६४॥चन्द्रनागं मेदकोशं पुरुकुत्सं पृथग् ययुः ।बालसंघं पार्वतेशं नागविजयकं प्रति ॥६५॥राजमारुं महेन्द्राभं मदाशनं नृपं प्रति ।शररंगं मधुराजं विरामासं पृथग् ययुः ॥६६॥त्रिकूटार्कं महासारं चित्रलास्यं नृपं प्रति ।कलिकाञ्चनमापाण्डमक्कलार्यं विवर्धनम् ॥६७॥मण्डलारं जवलीनमिन्द्रद्युम्नं नृपं प्रति ।माठरसिंहं नृपं कुटिधरं चिचिन्तनं पृथग् ॥६८॥उदङ्प्रभं श्रीनागारिं धरणिध्रं(घ्रं) रजिध्वजम् ।मूरध्वजं कुंकुमास्यं नृपं प्रति पृथक् पृथक् ॥६९॥ययुर्हरेर्विमानानि बद्रिके सह तैः पृथक् ।तथा खण्डनृपैश्चापि द्वीपेशैश्चाब्धितीरगैः ॥७०॥रणेशैरद्रिभूपैश्च चोपभूपैः पृथग् ययुः ।तत्तद्देशान् समुल्लंघ्य तत्तद्राष्ट्राणि संययुः ॥७१॥तत्तन्नृपालयोद्यानभूम्यादौ तान्यवातरन् ।जलपानं भोजनादि कारयित्वाऽमृतादनम् ॥७२॥नगरे भ्रामयामासुः स्वस्वस्मिन् भूमिपास्ततः ।संहितायाः पूजनं च व्यासस्य पूजनं गुरोः ॥७३॥स्वे स्वे दिव्ये महारम्ये प्रासादे चक्रुरुत्सुकाः ।उपदाश्चार्पयामासू रत्नहीरकमालिकाः ॥७४॥सर्वोत्कृष्टं गृहे यद्यद् राज्ये राष्ट्रे तथोत्तमम् ।तत्तच्छ्रीकृष्णसेवायां न्यधुस्ते राजसत्तमाः ॥७५॥आरार्त्रिकं प्रचक्रुश्च पपुः पादामृतं हरेः ।प्रसादं भक्षयामासुः श्रीस्वामिकृष्णहस्ततः ॥७६॥सेवयामासुरत्यर्थं पादसंवाहनादिभिः ।एनं प्रसादयामासुर्भक्त्या पद्मावतीपतिम् ॥७७॥जगृहुस्ते महामन्त्रान् प्रज्ञानारायणाननात् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥७८॥'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा ।कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ॥७९॥शूलमीनध्वजधनुश्चक्रस्वस्तिवानव' ।'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः' ॥८०॥'ब्राह्म्यहं श्रीकृष्णनारायणदासी भवामि ओम्' ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥८१॥'अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥८२॥पिता बन्धुः सुहृन्मित्रं रक्षकः पोषकोऽस्तु सः' ।'बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।तन्नः श्रीशः प्रचोदयात् ॥८३॥'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखभंक्त्र्यै श्रियै नमः' ।'ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ॥८४॥'कृष्णनारायणभक्तोऽहं श्रीहरिः शरणं मम' ।'श्रीकृष्णो वल्लभः स्वामी श्रीस्वामी शरणं मम' ॥८५॥'श्रीकृष्णः श्रीहरिः स्वामी श्रीपतिः शरणं मम' ।'श्रीकृष्णो वैष्णवाचार्यः प्रभुः पद्मावतीपतिः ॥८६॥स्वामी मे शाश्वतः कान्तस्तस्याऽहं स्वामिनी प्रिया' ।'प्रभुः कृष्णः पारमेशः श्रीकृष्णः शरणं मम' ॥८७॥'प्रभुः कृष्णः पार्वणो नारायणः शरणं मम' ।एतान्मन्त्रान् ददौ कृष्णनारायणः स्वयं हरिः ॥८८॥'कृष्णनारायण कृष्णनारायण नरायण ।अनादिश्रीकृष्णनारायण राधारमायण ॥८९॥'प्रभो नारायण माधवीश्रीनारायण प्रभो ।जयानारायण श्रीललितानारायण! विभो' ॥९०॥'कंभरागोपाललालः स्वामी पतिश्च मामव' ।एवं मन्त्रान् नामधुन्यं ददौ चापि स्वयं हरिः ॥९१॥तुलसीकण्ठिकां चापि तिलकं चन्द्रशोभितम् ।ददौ स्वचरणौ तेषां वक्षःस्थलेषु माधवः ॥९२॥जगृहुस्ते हरे रक्तचरणौ रंगशोभितौ ।मुद्रापितौ शुभौ सर्वपादचिह्नसुशोभितौ ॥९३॥दक्षहस्ततलस्यापि सचिह्नमुद्रिकां शुभाम् ।जगृहुस्ते तु पूजार्थं दर्शनार्थं तु रञ्जिताम् ॥९४॥प्रतिकृतिं प्रतिमां च प्रतिरूपं च जगृहुः ।चित्रं कृत्वा हरिं गेहे रक्षयामासुरन्वहम् ॥९५॥बद्रिके द्वादशीरात्रिं सर्वगेहेषु माधवः ।उषित्वा तु ततः प्रातः कृतसेवादराऽशनः ॥९६॥कृतपूजः समस्तैश्च तोषितस्तोषितैश्च तैः ।सवाद्यगीतयशसा जयनादैः समन्ततः ॥९७॥प्रस्थापितो विमाने स्वे पृथक् समारुरोह च ।तदा सर्वेऽन्तिमां नैजां प्रार्थनां चक्रुऽरीशिनः ॥९८॥ 'हरे स्वामिन् कृपासिन्धो पाविताः कृपया वयम् ।तथैव चान्तकालेऽपि पावनान् स्वाक्षरं नय ॥९९॥मध्ये सदा मूर्तिरूपो रक्षयाऽस्मान् तवाश्रितान् ।हृदये स्वं दिव्यरूपं सदा चेदं प्रदर्शय ॥१००॥तवाऽस्मीति तव स्मश्च तथा पालय सर्वदा ।एवं मायाविमोहो न भवन्नैवेति चिन्तय' ॥१०१॥इत्येवं बद्रिके सर्वे चक्रुश्चाभ्यर्थनां प्रभोः ।पूजायामागतं यद्यत् सर्वं प्रसादरूपि तत् ॥१०२॥हरिस्तेभ्यः प्रदातृभ्यः प्रत्यार्पयत् कृपावशः ।आशीर्वादान् शुभान् दत्वा स्वीकृत्य प्रार्थनां ततः ॥१०३॥प्राप्य विदायमेवाऽसौ पश्यन् भक्तान्नृपादिकान् ।प्रजाजनाः प्रपश्यँश्च प्रेम्णा विमानमैरयत् ॥१०४॥अम्बरे सहसा कृष्णविमानानि समौड्डयन् ।तिरोऽभवन् चिदाकाशे कृष्णात्मकानि तानि वै ॥१०५॥एकीभूतानि सर्वाणि सौराष्ट्रेऽश्वसरोऽन्तिके ।कुंकुमवापिकाक्षेत्रे विमानमेकमाययौ ॥१०६॥अवातिरच्छनैः क्षेत्रे द्योतयन् सर्वतोदिशः ।भगवान् व्यासदेवाद्या लोमशाद्या महर्षयः ॥१०७॥पितरौ दासिका दासा विविशुः स्वस्वमन्दिरम् ।एवं श्रीबद्रिके पारायणस्याऽस्य महोत्सवः ॥१०८॥अभूत् सर्वोत्सवाग्र्यश्च पारायणाग्र्य एव सः ।ततस्तु चक्रिरे त्वन्ये मखान् भागवतोत्तमाः ॥१०९॥स्वारोचिषस्तथा भूपा उत्तमस्तामसोऽपि च ।रैवतश्चाक्षुषश्चापि वैवस्वतोऽपि तन्नृपाः ॥११०॥एते च मनवः पारायणोत्सवान् प्रचक्रिरे ।अन्ये चापि विधास्यन्ति महाभागवतोत्तमाः ॥१११॥मोक्षशास्त्रमिदं बद्रि धर्मार्थकामनाफलम् ।सर्वेष्टदायकं चात्मपरमात्मप्रसङ्गदम् ॥११२॥पठनाच्छ्रवणादस्य कथोत्सवस्य चिन्तनात् ।सर्वेष्टसिद्धिः सुलभा सुलभा दिव्यसम्पदः ॥११३॥मोक्षलाभो भवेच्चापि सर्वेषणाप्रपूर्त्तयः ।कल्पवृक्षसमास्तस्य संकल्पाः सफला द्रुतम् ॥११४॥मनश्चिन्तामणिप्रख्यं प्रजायेत न संशयः ।कथानां धारणाल्लक्ष्मीतुल्या नारी भवेदपि ॥११५॥नरो नारायणः स्याच्च कथानां धारणादिह ।बद्रिके सर्वसृष्टौ तत् पारायणं जयत्यति ॥११६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽखिलनृपार्थितः श्रीहरिर्नैकरूपधरः सन् सर्वनृपराष्ट्रमन्दिराणि ययौ, पूजां प्रगृह्य पावयित्वा तिरोभूयाऽश्वपट्टसरः प्रत्याययावित्यादिनिरूपणनामा नवाऽधिकसप्ततितमोऽध्यायः ॥७९॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP