संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६ Translation - भाषांतर श्रीबद्रीश्वर्युवाच-अनादिश्रीकृष्णनारायणनारायणप्रभो ।नरनारायणविष्णो बद्रीनाथसुतापस ॥१॥सुशीलाख्यो भूसुरो वै कदा कुत्राऽभवत्पुरा ।पितृतृप्तिर्बदरेण कृता येन दिवम्प्रदा ॥२॥श्रीनरनारायण उवाच-शृणु बद्रीरमे देवि सुशीलस्य कथानकम् ।विहाराख्ये शुभे देशे पुलहाश्रमसन्निधौ ॥३॥गण्डक्याः सुभगे तीरे मौक्तिकाहारपत्तने ।सुशीलोऽभूद्विप्रवर्यः कुटुम्बिबहुलः खलु ॥४॥पिता तस्याऽभवन्नाम्ना श्रीशीलः कर्मठः सदा ।विद्वान् लोभाभिभूतश्च व्ययभीतिपरायणः ॥५॥कुटुम्बार्थे व्ययहीनो लब्धद्रव्यादिसञ्चयः ।उत्सवादिविहीनश्च व्रतोत्साहादिवर्जितः ॥६॥महीमानादिसम्माने कदर्य इव निर्व्ययः ।वेषे याने भोजनेऽपि रूक्ष इव वनेचरः ॥७॥देवपूजादिकार्येषु भिक्षोपलब्धनिर्वहः ।आतिथ्यादिविहीनश्च शुष्कयज्ञपरायणः ॥८॥अपत्यानां दुग्धपाने पिष्टमण्डप्रदायकः ।शाकादिशून्यमध्याह्नभोजनो घृतवर्जितम् ॥९॥कृशरान्नं भुनक्त्येव भोजयत्यपि योषितम् ।पुत्रादीन् शाकमात्रं च भोजयत्यपि तद्विधम् ॥१०॥दानादिवर्जितो विप्रः श्रीशीलः कर्मठः पिता ।नदीतीरे स्वयं गत्वा स्नात्वा नीत्वा फलादिकम् ॥११॥समिधश्च स्वयं समाहृत्याग्नौ प्रजुहोति वै ।तत्रापि बिन्दुमात्रं वै घृतं ददाति नाऽधिकम् ॥१२॥कौपीनं चाऽञ्चलं धत्ते नाधिकं वस्त्रमित्यपि ।यज्ञपट्टेन वै स्कन्धे निर्वहत्येव भूसुरः ॥१३॥गृहस्थोऽपि लोभवशात्तापसो हि मुनिर्यथा ।तथाऽयं वर्तते गेहे पर्युषितेन वै क्वचित् ॥१४॥भाजीं लब्ध्वाऽथवा कन्दान् मूलानि वा दलानि वा ।वनेऽरण्येऽप्यटव्यां वाऽऽनयत्ययं भुनक्ति तत् ॥१५॥एवंविधस्य विप्रस्य पुत्रा दशाऽभवन् शनैः ।पुत्र्यः सप्ताऽभवँश्चापि ब्राह्मणधर्मशोभिताः ॥१६॥ज्येष्ठः सुशीलनामाऽस्य सुतो वेदादिविद्यया ।ख्यातिमाप समस्तेषु पार्श्वग्रामेषु कर्मठः ॥१७॥उदारो दानशीलश्च धर्मोत्सवपरायणः ।भोजने छादने भोग्ये कुटुम्बपरिपोषकः ॥१८॥राजमानादिपात्रं च प्रजासम्मानसत्कृतः ।यज्ञकार्यादिनिष्णातो वैष्णवो भक्तराड् यथा ॥१९॥सतां सेवाव्रतवाँश्च साध्वीसेवापरायणः ।आतिथ्यधर्मो गोसेवाग्रामसेवापरायणः ॥२०॥पाठको बालकानां च कथाकारश्च सर्वदा ।एवंविधं निजं पुत्रं लोमधर्मविवर्जितम् ॥२१॥व्ययशीलं पिता वीक्ष्य गृहाद्दूरं चकार तम् ।तेनाऽयं स्वं गृहं त्यक्त्वा ययौ तु पत्तनान्तरम् ॥२२॥दाराभाग्याऽभिधं राज्यं तद्राज्ञा तु कृतादरः ।उवास स्वस्थचित्तोऽयं प्रजाराजादिमानितः ॥२३॥दाराभाग्येश्वरो राजा नाम्ना दारेश्वराभिधः ।सौधं वासाय विदुषे सुशीलायाऽर्पणं ददौ ॥२४॥भूमिं क्षेत्रं वाटिकां च महोद्यानं च वाहनम् ।अन्नं निर्वाहमात्रं च ददौ दानेऽर्कपर्वणि ॥२५॥विप्रोऽयं प्राप्य सन्मानं प्रसन्नः शुभसम्पदा ।शान्तचित्तो हरिं भेजे श्रीपतिं निजवल्लभम् ॥२६॥जीविकां निजयात्राया योग्यां लब्ध्वा तुतोष ह ।उपाधिं सर्वथोपार्ज्यगोचरं स विहाय वै ॥२७॥लक्ष्मीनारायणसंहितायाः कथां तु प्रत्यहम् ।नगरे वाचयामास प्रजासंघसभास्थले ॥२८॥नृपो दारेश्वरश्चापि प्रत्यहं तूपतिष्ठति ।आख्यानानि विविधानि भक्तभक्तिपराणि हि ॥२९॥अनादिश्रीकृष्णनारायणाख्यानानि यान्यपि ।श्रुत्वा श्रुत्वा मोदते वै वैष्णवास्योद्गतानि च ॥३०॥कथान्ते कारयत्येव सवाद्योत्सवकीर्तनम् ।हरे कृष्ण बालकृष्ण श्रीपते पुरुषोत्तम ॥३१॥अनादिश्रीकृष्णणनारायण श्रीबदरीश्वर ।एवं कृत्वा कीर्तनं च नैवेद्यं विनिवेद्य च ॥३२॥प्रसादं संविभज्याऽथ गृहं यान्ति सभाजनाः ।विप्रः सायं हरेर्भक्तिं प्रातर्भक्तिं करोति च ॥३३॥मध्याह्नभक्तिं कृत्वाऽथ भोजनं स करोति वै ।सायं प्रातर्जनास्तस्य समागमार्थमुत्सुकाः ॥३४॥आयान्ति श्रेयसे नित्यं मुमुक्षवः सुमानसाः ।तेभ्यो मन्त्रं विप्रवर्यो ददाति मोक्षदायकम् ॥३५॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।बहवो वैष्णवाश्चैवं सम्पन्नास्तत्र पत्तने ॥३६॥नराणां योषितां चापि भक्तिसंघा सुधार्मिकाः ।अभवन् भक्तिकर्माणो भजन्ति श्रीप्रभापतिम् ॥३७॥पत्तने तु यथा तद्वद् ग्रामेषु चेतरेष्वपि ।भक्तसंघा अभवँश्च कृष्णनारायणाश्रिताः ॥३८॥अथ भक्तोत्तमं श्रेष्ठं विप्रं भागवतं शुभम् ।योग्यं मत्वाऽस्मै स्वपुत्रीं राजा कुन्दनिकां ददौ ॥३९॥सुशीलोऽयं भाग्यवाँश्च लब्ध्वा कुन्दनिकां सतीम् ।पत्नीं नृपसुतां दिव्यां मुमुदे कृपया हरेः ॥४०॥सापि लक्ष्मीसमा धर्मवती भक्तिमती सती ।भेजेऽनादिकृष्णनारायणार्यं वल्लभं प्रभुम् ॥४१॥उदारा हि महर्द्धिसंभृता दानेश्वरी प्रिया ।कृष्णप्रिया सदा कृष्णभक्तिपरा व्यजायत ॥४२॥जामाता राजभवने शोभते भाग्यवर्धितः ।कीर्तिश्चाऽस्याऽभवद् व्याप्ताऽभितः शुश्राव तां पिता ॥४३॥पित्रा प्रहिताः पुत्राश्च पुत्र्यश्चापि सहोदरम् ।ज्येष्ठं द्रष्टुं चाययुश्च महोत्साहसमन्विताः ॥४४॥माताऽपि गालवीदेवी पुत्रं द्रष्टुमुपाययौ ।पिता तस्थौ गृहे त्वेकस्त्यागदोषातिलज्जितः ॥४५॥धनलोभपरश्चापि गृहे धनस्य रक्षकः ।दैवयोगेन विप्रस्य श्रीशीलस्याऽभवज्ज्वरः ॥४६॥आयुःक्षयेन मरणं प्राप्तो गृहेऽतिनिर्जने ।ज्ञातिजनैः शनैर्ज्ञाते मरणे तत्क्रिया कृता ॥४७॥पापिनश्च कदर्यस्य लुब्धस्य बदरीश्वरि ।मृतिः शून्या जायते वै बहुष्वपि कुटुम्बिषु ॥४८॥लोभदोषेण विप्रोऽसौ वासनाद्रिप्रवासितः ।प्रेततां लब्धवाँस्तत्र गृहे भूतशरीरधृक् ॥४९॥गृहपृध्वीगते द्रव्ये कृतवासो हि तिष्ठति ।नान्यः प्रवेशं लभते प्रविष्टं पीडयत्ययम् ॥५०॥ख्यातोऽभवत् स भूतोऽसौ प्रेतचेष्टापरायणः ।अदत्तदानो लभते नैवाऽन्नं भोजनं जलम् ॥५१॥क्षुधायुक्तः क्वचिद् रौति रात्र्यर्धोत्तरमेव सः ।क्वचिद्धसति सस्फोटं गर्जयन्नम्बरं बहु ॥५२॥क्वचिद् विप्रात्मको भूत्वा ग्राममध्येऽर्धरात्रिके ।समये च तदूर्ध्वे च विहरत्यतिदुःखितः ॥५३॥श्रीशीलस्य गतिस्त्वेवं जाता बद्रीप्रभेश्वरि ।दारभाम्येऽपि पुत्राश्च पुत्र्यश्च पत्निका तथा ॥५४॥राजसम्मानमासाद्य सुखं लब्ध्वा महत्तरम् ।तत्रैव ज्येष्ठभ्रातुश्चाऽऽज्ञया न्यूषुर्निरन्तरम् ॥५५॥देवकन्यासमा रूपे युवत्यो विप्रकन्यकाः ।राजकुटुम्बे भाग्येन विवाहितास्ततोऽभवन् ॥५६॥माताऽभवत् सुसुखिनी सुता राज्ञ्योऽभवन्नपि ।पुत्राश्चापि ख्यातिमन्तो नृपकुटुम्बयोगिनः ॥५७॥नृपकुटुम्बिकन्यानां पतयस्ते ततोऽभवन् ।भक्तिः कृता हि फलति सतां सेवा फलत्यपि ॥५८॥दानं पुण्यं चोपकारश्चाशीर्वादाः फलन्त्यपि ।ज्येष्ठभ्रातुः पुण्ययोगैः सर्वे राजकुटुम्बवत् ॥५९॥जातं याने भोजने च दारेषु ऋद्धिवैभवे ।यत्र लक्ष्मीः प्रसन्नाऽस्ति यत्र नारायणोऽपि च ॥६०॥यत्र देवाः प्रतुष्टाश्च तत्र न्यूनं न विद्यते ।कृतं कालेन फलति नाऽकृतं त्वाप्यते क्वचित्। ॥६१॥बद्रीप्रभे सुशीलोऽयं प्रजेश्वर इवाऽभवत् ।मम भक्त्या कथया च कीर्तनैर्दानपूजनैः ॥६२॥अथैकदा पिता प्रेतो निजपत्न्यामुपाययौ ।आवेशं बहुलं प्राप्य रुरोद बहुधा ततः ॥६३॥भजनेन कृतः सर्वैः स्फुटाक्षरश्च को भवान् ।जगादाऽहं पिता नाम्ना श्रीशीलोऽस्मि मृतोऽस्मि च ॥६४॥अथ शोकं गताः सर्वे रुरुदुश्चापि लौकिकम् ।क्रियां चक्रुस्ततो राज्ञ आज्ञामासाद्य ते जनाः ॥६५॥ययौ लौकिककार्यार्थं श्राद्धार्थं तन्मृतिस्थलम् ।पत्तनं मौक्तिकहारं चक्रुः श्राद्धादि कर्म च ॥६६॥उद्धारार्थं पितुस्तत्र बहुदानानि ते ददुः ।पुत्राश्चक्रुर्हि बहुधोद्धारपुण्यानि तत्र ह ॥६७॥गण्डक्या चाऽस्थिविन्यासं चक्रुस्ते वार्षिकं विधिम् ।यद्धनं त्वर्जितं पित्रा निहितं भूतलेऽपि च ॥६८॥सर्वं दानेषु पुत्रास्ते ददुः कदर्यदूषितम् ।तथापि प्रेतविप्रस्य सद्गतिर्न व्यजायत ॥६९॥कृते यज्ञेऽपि बद्रीशि न मुक्तिर्वासनावतः ।किं पुनर्दानकर्मादि मोक्षदं वासनावतः ॥७०॥न मोक्षं समवापाऽसौ पुनः पत्न्यामुपाययौ ।सकम्पं च महाक्रोशं कृत्वोवाच निजात्मजान् ॥७१॥न मे मुक्तिः प्रजाता वै वासना बाधते हि माम् ।भोजनस्य सुवेषादेर्लोभस्य च धनस्य च ॥७२॥वासनापरिहारार्थं यान्तु बदरिकाश्रमम् ।नरनारायणावासं महर्षिगणसेवितम् ॥७३॥श्राद्धं मदर्थं तत्रैव कुर्वन्तु बदरीतले ।दिव्यं च बदरं मह्यं भोजनार्थं ददत्वपि ॥७४॥नारायणार्पितं वारि फलं च बदरं महत् ।तथा च वल्कलं वस्त्रं कम्बलं वा यथोचितम् ॥७५॥बदरीफलकृद्धारं बदरीरसमित्यपि ।श्राद्धे मह्यं ददत्वेव तृप्तिर्मे शाश्वती तथा ॥७६॥भविष्यति क्षुधानाशस्तृषानाशो भविष्यति ।वासना बद्रीशनारायणाग्रे मे विनंक्ष्यति ॥७७॥पत्न्यामाविश्य बदरीनाथं त्वायामि वै सह ।कुर्वन्तु मम कार्याणि दिव्ये बदरिकाऽऽश्रमे ॥७८॥एकस्यपि बदरस्य दानेन तर्पणं मम ।मोक्षदं शाश्वततृप्तिप्रदं स्यान्मे न संशयः ॥७९॥अन्यथा मे न वै मोक्षः कोटिदानैरपीह वै ।कदर्याणां न वै मोक्षस्तीर्थायुते कृतेऽपि हि ॥८०॥अथ ते प्रययुः सर्वे पद्भ्यां बदरिकाश्रमम् ।संस्नुस्तत्राऽऽदिगंगाया नेमुर्नरं नरायणम् ॥८१॥बद्रीप्रभां प्रणेमुश्च साध्वर्षीनार्चयँस्तथा ।सर्वतीर्थानि कृत्वैव श्राद्धं चक्रुः समाहिताः ॥८२॥ज्येष्ठपुत्रो ददौ पिण्डान् बदराख्यं फलं तथा ।गांगेयं सलिलं नारायणपादप्रसादजम् ॥८३॥ददौ सुवर्णदानं च विप्राय वल्कलं तथा ।गोदानं च तथा दानोत्तमानि भूमिदानकम् ॥८४॥गोरसादिप्रदानानि मिष्टान्नानि घृतानि च ।अम्बराणि विचित्राणि ददुर्नृपोचितानि हि ॥८५॥जग्राह श्रीशीलविप्रः साक्षादागत्य वै करे ।बदरं च जलं रम्यं वल्कलं शर्करां तथा ॥८६॥अन्यत् सर्वं विशिष्टं च प्राप्य तृप्तिं जगाम सः ।पत्न्यां प्रविश्य तत्रैव प्राह तृप्तोऽस्मि सर्वथा ॥८७॥इदानीं शाश्वता लोका मदर्थं समुपस्थिताः ।प्रेतता मे गता त्वत्र ह्येष यामि परं पदम् ॥८८॥वासना मे तदा नष्टा माया नष्टा दुरन्तगा ।पापानि मम नष्टानि पुण्यं जातं च मुक्तिकृत् ॥८९॥विमानं च मदर्थं वै समागतं सुतैजसम् ।नरनारायणकृष्णपाषदैः शोभनं परम् ॥९०॥सर्वे भवन्तु सुखिनः पुत्राः पुत्र्यश्च मे प्रिया ।एकेन बदरेणाऽहं शाश्वतीं तृप्तिमाप्तवान् ॥९१॥एष यामि स्वस्ति वोऽस्तु तारितोऽहं व्रजामि वै ।इत्युक्त्वा दिव्यसदने त्वधिरुह्य विमानके ॥९२॥पार्षदैर्विष्णुभक्तैश्च सन्मानितो हि पश्यताम् ।सर्वेषां निजपुत्राणां पुत्रीणां योषितस्तथा ॥९३॥महर्षीणां पश्यतां च विमानेनाऽक्षरं ययौ ।महाश्चर्यं गताः सर्वे नरनारायणाश्रमे ॥९४॥पितृमुक्तिं विधायैव न्यवर्तन्त सुतादयः ।पूजयित्वा बदरीशीं बद्रीनाथं नरायणम् ॥९५॥नरं सम्पूज्य बदरं सबीजं प्राप्य ते ततः ।अवतीर्य हिमाद्रेस्तु निजालयं ययुर्द्रुतम् ॥९६॥मौक्तिकाहारमासाद्य दत्वा दानं गृहस्य च ।सर्वेषामुपकरणादीनां दानं प्रदाय च ॥९७॥आययुस्ते सुखस्थानं दाराभाग्याख्यपत्तनम् ।श्वशुरं नृपतिं दारेश्वरं तथा प्रजाजनान् ॥९८॥भक्तान् भक्तानिकाश्चापि प्राहुर्वृत्तान्तमेव ते ।आश्चर्यं परमं प्राप्ता बदरीशप्रतापजम् ॥९९॥एवं बदरदानस्य माहात्म्यं मोक्षदं परम् ।कथितं ते बद्रिके वै सर्वापद्विनिवारकम् ॥१००॥ततः श्रुत्वा जनसंघा दाराभाग्याभिधो नृपः ।प्रजाश्च संघशो भूत्वा कुटुम्बसहिता ययुः ॥१०१॥बदर्याः खलु यात्रार्थं नरनारायणाश्रमम् ।सर्वसामग्रिकायुक्ता भक्तिलग्नैकमानसाः ॥१०२॥भजन्तः श्रीबद्रिकेशं ध्यायन्तो बदरीश्वरीम् ।प्रापुर्हिमालये बद्रीप्रभे बदरिकाश्रमम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीशीलस्य पुत्राणां दाराभाग्यपत्तने राजसम्मानं श्रीशीलस्य मरणं प्रेतता तदुद्धाराय बद्रिकाश्रमे श्राद्धे बदरादिदानं प्रेतमोक्षणं चेत्यादिनिरूपणनामा षष्ठोऽध्यायः ॥६॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP