संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः|
अध्यायः २४

तिष्यसन्तानः - अध्यायः २४

लक्ष्मीनारायणसंहिता


श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि श्रेयसे श्वशुरो हरिम् ।
पप्रच्छाऽऽत्यन्तिकं मोक्षं कथं स स्याद् वदात्र मे ॥१॥
जामाता श्रीबालकृष्णोऽवतारी पुरुषोत्तमः ।
उपादिदेश निकामदेवाय मोक्षसाधनम् ॥२॥
पूज्यतम श्वशुराऽत्र वदामि मोक्षसाधनम् ।
मोक्षयोगं सुसुलभं दुर्भाग्यानां तु दुर्लभम् ॥३॥
साक्षात् कृष्णप्रसंगेन मुच्यते भवबन्धनात् ।
कृष्णे सर्वस्वदाता वै मुक्तो भवति मायिकात् ॥४॥
कन्यां कृष्णाय दाता वै याति मत्परमं पदम् ।
कृष्णतादात्म्यमापन्ना कन्योद्धरति तत्कुलम् ॥५॥
कृष्णनारायणभक्त्या मानवा यान्ति तत्पदम् ।
श्रीकृष्णमन्दिराऽऽवासा वसन्ति चाऽक्षरे ततः ॥६॥
श्रीकृष्णे कृतविश्वासा मोक्षं यान्ति हि शाश्वतम् ।
यस्य नारायणी पुत्री स? मोक्षगतो हि सः ॥७॥
कुंकुमवापिकातीर्थं तारयत्येव वासिनम् ।
सत्संगो मोक्षदश्चास्ति कृतो नारायणे परः ॥८॥
सतां समागमः श्रेष्ठश्रेयसः साधनं सदा ।
सतीसाध्वीप्रसंगेन नार्यो यान्ति परं पदम् ॥९॥
सेवया प्राप्यते सतां प्रसन्नता तया हरिः ।
हरेः प्राप्तौ परा प्राप्तिर्मोक्षार्थं नैव विद्यते ॥१०॥
एषा तु सुलभा विप्रवर्य भवता चार्जिता ।
प्राप्तव्यो विद्यते नाऽन्यः ततोऽहं परमेश्वरः ॥११॥
नारायणीं महालक्ष्मीं नारायणं परेश्वरम् ।
ध्यात्वा स्नेहेन सेवित्वा मुच्यते कर्मबन्धनात् ॥१२॥
सोऽहं नारायणश्चाऽस्मि लक्ष्मीश्च बालयोगिनी ।
या सा बद्रीप्रिया बद्रिकाश्रमेऽस्ति मम प्रिया ॥१३॥
बद्रिका सा भवत्पुत्री मम भार्या त्वयाऽर्पिता ।
एवं मां तां भवान् ध्यात्वा मद्रूपः संभविष्यति ॥१४॥
श्रेयसे त्वाययोः साक्षात्सेवाज्ञानं भवद्धितम् ।
तत् कृत्वाऽत्र महत्तीर्थे स्वयं मोक्षं गमिष्यसि ॥१५॥
गुरुदेवर्षिसिद्धर्षिसेवा साधुसमागमः ।
ब्रह्मात्मवेदनं भक्तिर्मोक्षसाधनमुत्तमम् ॥१६॥
मोक्षयोगो महानस्ति सर्वयोगेश्वरः सुखः ।
हरेर्मूर्तिः सदा योगो मोक्षयोगो महत्तमः ॥१७॥
मूलं संसारवृक्षस्य ममाऽहं चेति नित्यदा ।
तन्ममाऽहं परे कृष्णे योजितं मयि मोक्षकृत् ॥१८॥
अहं मायांकुरो बोध्यो वासना मूलमेव सा ।
ममेति स्कन्धवान् वृक्षः शाखाः क्षेत्रगृहाणि च ॥१९॥
दाराः सख्यः पल्लवाश्च धनधान्यादिपत्रिकाः ।
पापमञ्जरिकाव्याप्तो दुःखादिमलदस्तथा ॥२०॥
तस्य प्रछित्तये कृष्णमाहात्म्यज्ञानमुत्तमम् ।
अर्जयित्वा विद्ययाऽहंवृक्षश्छेद्यो हि पण्डितैः ॥२१॥
ततो ब्रह्मरसं पीत्वा दिव्यतृप्तिप्रदं परम् ।
प्रयान्त्येव परब्रह्म प्राज्ञा निर्वृत्तिमुत्तमाम् ॥२२॥
नाऽयं देहो हि विप्रोऽस्ति नाऽऽत्मा वा विप्र उच्यते ।
वित्तिं प्राप्तो हरेर्यः स विप्रो माहात्म्यवित्तियुक् ॥२३॥
त्वमहं चेति संसारो भिन्नवासनया कृतः ।
मयि विप्रेश्वरे कृष्णेऽर्पणात् त्वमादि लीयते ॥२४॥
गृहं दारा धनं वंशो लीयन्ते चास्य वासनाः ।
तद्गृहं यत्र वसति सा दारा दीर्यते यया ॥२५॥
तद्धनं यत्सहायार्थं वंशः स यस्तु शाश्वतः ।
नारायणो गृहं नित्यं दारा बुद्धिः प्रमोक्षिणी ॥२६॥
भक्तिर्धनं दूरमार्गे सहायदं तथाऽव्ययम् ।
वंशः स एव मुक्तानां वंशा ये ते मताश्च नः ॥२७॥
ब्रह्मरसो महद् भोज्यं येन जीवति सर्वदा ।
यन्मुक्तये कृतं तद्वै पुरुषार्थः प्रकीर्तितः ॥२८॥
मूर्ध्नि कण्ठे ललाटे च हृदये च निजे हरिम् ।
ध्यायेदात्मनि चात्मस्थं यः स मुच्येत बन्धनात् ॥२९॥
निकामदेव कामानां यदा लयो मयीश्वरे ।
तदा निष्कामतामेत्य ब्रह्मरसान् समश्नुते ॥३०॥
यथाऽग्निर्वर्धते काष्ठैस्तेजस्वी जायते बहुः ।
काष्ठानि संविधायैव भस्मरूपाणि नान्यथा ॥३१॥
तथाऽऽत्मा वर्धते पुण्यैः सुप्रकाशः प्रजायते ।
पुण्यानि भस्मसात् कृत्वा ब्रह्मरसं समश्नुते ॥३२॥
पुण्यं वा यदि वा पापं महारण्यं भवाय तत् ।
पुण्यपापेऽर्पयित्वा मे महामोक्षं प्रविन्दति ॥३३॥
ज्ञात्वा मां परमात्मानं स्वात्मस्थं स्वामिनं पतिम् ।
प्रभुं दिव्यगुणागारं मुच्यते ब्रह्मरूपभाक् ॥३४॥
अहं ब्रह्म परब्रह्मलग्नोऽस्मि स्थूलवर्जितः ।
अहं ब्रह्म परब्रह्मलग्नोऽस्मि सूक्ष्मवर्जितः ॥३५॥
अहं ब्रह्म परब्रह्मलग्नोऽस्मि हेतुवर्जितः ।
अहं ब्रह्म परब्रह्मलग्नोऽस्मि व्योमवर्जितः ॥३६॥
अहं ब्रह्म परब्रह्मलग्नोऽस्मि स्थानवर्जितः ।
अहं ब्रह्म परब्रह्मलग्नोऽस्मि मात्रवर्जितः ॥३७॥
अहं ब्रह्म परब्रह्मलग्नोऽस्मीन्द्रियवर्जितः ।
अहं ब्रह्म परब्रह्मलग्नोऽस्मि प्राणवर्जितः ॥३८८॥
अहं ब्रह्म परब्रह्मलग्नोऽस्मि चार्थवर्जितः ।
अहं ब्रह्म परब्रह्मलग्नोऽस्मि दिव्यतान्वितः ॥३९॥
अहं ब्रह्म परब्रह्मप्रभ्वऽस्मि ज्ञानभानवान् ।
परब्रह्मणि लग्नोऽस्मि शेषो दासश्च किंकरः ॥४०॥
नान्यन्मे रोचते कृष्णमन्तरा दृष्टिसृष्टिषु ।
इत्येवं त्वात्मनो ब्राह्मीं भां ज्ञात्वा मुच्यते भवात् ॥४१॥
ततो न मरणं दुःखं न रोगो नरकं न च ।
न पापैर्युज्यते विज्ञो निरये न च पच्यते ॥४२॥
न गर्भे न तथा बाह्ये वासोऽस्य मायिकः क्वचित् ।
कृष्णनारायणं प्राप्तः श्वेतनारायणो हि सः ॥४३॥
भक्त्या च सेवयोपासनया मां लभते स हि ।
ध्यानेन कीर्तनेनापि पूजनेन जपेन मे ॥४४॥
स्तवनेन व्रतेनाऽपि दानेन च मखेन च ।
मय्यर्पितेन सर्वेण शुद्धात्मा ब्रह्म जायते ॥४५॥
नारायणेतिमन्त्रेण कृष्णनारायणेन च ।
अनादिश्रीकृष्णनारायणेन याति मोक्षणम् ॥४६॥
मम भक्त्या निःकृष्टोऽपि सर्वमाप्नोति चोत्तमम् ।
स्वर्गं वा शाश्वतानन्दाऽक्षरं धाम प्रयात्यपि ॥४७॥
तुष्याम्यहं यथा भक्त्या सेवया चार्पणेन च ।
तथा नाऽन्येन तुष्यामि तुष्यामि साधुसेवया ॥४८॥
महतां श्रेयसां मूले प्रसवः पुण्यसन्ततेः ।
जीवितस्य फलं स्वादु स्मरणं मे सदा द्विज ॥४९॥
मुञ्चन्त्यश्रूणि संहर्षात् संप्रहृष्टतनूरुहाः ।
गायन्ति सामसूक्तानि मयि वासं गता जनाः ॥५०॥
परब्रह्म प्रगायन्तो ब्रह्मरूपेतिसंस्थिताः ।
भक्त्या प्रणामकर्तारो वैष्णवाः पावना भुवि ॥५१॥
श्रीभक्तजनवात्सल्यं कृष्णभक्तानुमोदनम् ।
हरिलीलाश्रवःप्रीतिं प्राप्तानां सफलो भवः ॥५२॥
येन सर्वार्पणेनैव कृष्णे भक्तिर्निवेदिता ।
भावो निवेशितः कृष्णे महाभागवतो हि सः ॥५३॥
अर्चयत्येव मां नित्यं ध्यायति मां रटत्यपि ।
सर्वरागविनिर्मुक्तो म्लेच्छो विप्रोत्तमो हि सः ॥५४॥
मोक्षगत्यै प्रवृत्तो यो मत्कृपापात्रमेव यः ।
पावनः स मनुष्याणां स पूज्यः स यथा हरिः ॥५५॥
पुनाति श्रीहरेर्भक्तश्चाण्डालोऽपि तु पावनः ।
यद्गृहे श्रीहरिश्चास्ते यच्चित्ते श्रीनरायणः ॥५६॥
तस्मै देयं ततो ग्राह्यं पावनः पापिनां हि सः ।
श्रुत्वाऽन्यं पापिनं पापमुक्तये स्तौति मां हि सः ॥५७॥
दयां कुरु प्रपन्नाय तवाऽस्मीति दयां कुरु ।
एवं भूताऽभयदस्य वशे कृष्णो हि वर्तते ॥५८॥
वेदमन्त्रिसहस्रेभ्यो व्रत्ययुतेभ्य एव च ।
तापसानां कोटितश्च कृष्णभक्तो विशिष्यते ॥९९॥
एकान्तिनो हरेर्भक्ता दिव्येन वर्ष्मणाऽक्षरम् ।
तेनैव वपुषा भक्त्या यद्वा यान्ति परं पदम् ॥६०॥
एकान्तज्ञानभक्त्याढ्यश्चानन्यभावसंभृतः ।
हरेः प्रियतमो नित्यं भक्तावव्यभिचारवान् ॥६१॥
आपत्स्वपि न मुञ्चेत प्रीतिं मय्यनपायिनीम् ।
मां स्मरन् मां चाश्रयँश्च मे चित्तान्नोपसर्पति ॥६२॥
नाऽधीतो न मखी नैव व्रती नाऽऽचारवान्नपि ।
भक्तिं मे वहते यस्तु कृत्यकृत्यः स वै मतः ॥६३॥
तपसां च मखानां च वेदानां पारगा अपि ।
विना भक्तिं गतिं नैव यान्ति यां भक्तियोगिनः ॥६४॥
यः कश्चिच्छ्रीकृष्णभक्तोऽप्यनाचारोऽप्यनाश्रमी ।
तथापि जगतां सूर्य इवोदितः स पावनः ॥६५॥
अपि पापप्रयोगाश्च देहेन्द्रियवशा जनाः ।
भक्ता मे यान्त्यक्षरं यन्नारायणपरायणाः ॥६६॥
दृढा नारायणे भक्तिर्येषां चाऽव्यभिचारिणी ।
तुच्छं स्वर्गसुखं तेषां भक्तिः शाश्वतमोक्षदा ॥६७॥
कर्ममयेऽत्र संसारे प्रपन्नानां करात् प्रभुः ।
भुंक्तेऽन्नजलताम्बूलं तुष्टो भवति मोक्षदः ॥६८॥
यो न कृष्णं भोजयति न पाययति सेवते ।
पूजयत्येव नैवाऽपि तस्य सर्वं निरर्थकम् ॥६९॥
कथां न संशृणुते स बधिरो माययाऽऽवृतः ।
दर्शनं कुरुते नैव सोऽत्राऽन्धोऽज्ञानसंवृतः ॥७०॥
नाम्नां च कीर्तने मेऽत्र न यस्य पुलकोद्गमः ।
हृदुल्लासोऽपि नैवाऽस्ति सोऽस्ति कुणप एव ह ॥७१॥
मयि भक्तिमतां विप्र मुक्तिर्दासीव वर्तते ।
मय्यनन्यमनसा तु सर्वथा भवसंक्षयः ॥७२॥
यमोऽपि स्वदूतवर्गान् प्रातर्गदति नित्यशः ।
वैष्णवान् वर्जयित्वैव चरन्त्ववैष्णवान् प्रति ॥७३॥
नाऽहं वैष्णवभक्तानां प्रभुर्दण्डधरोऽपि सन् ।
अनाचारी दुराचारी विष्णुभक्तो हि मुच्यते ॥७४॥
अनन्यभक्तिमान् कृष्णे कृष्णनिश्चयशोभनः ।
साधुधर्मा परो दिव्यो भवत्येव स उत्तमः ॥७५॥
यस्य भक्तिः स्थिरा कृष्णे प्रत्यणु वर्ष्मणि स्थिता ।
सर्वार्थास्तस्य करगा मुक्तिर्हस्तेऽस्य वर्तते ॥७६॥
मया विनिर्मिता माया सर्वेषां बन्धनप्रदा ।
या सा तस्य भवत्येवाऽनुकूला भक्तिमोक्षदा ॥७७॥
तरन्ति ते मम मायां प्रपद्यन्ते तु मां धिया ।
भक्त्या तुष्यामि श्रीनाथः सेवया यावदात्मना ॥७८॥
नान्योपायैस्तुष्टिमेमि यथैमि चार्पणात्मना ।
संसारो गारलो वृक्षस्तस्य फले शुभे युगे ॥७९॥
मयि स्नेहमयी भक्तिस्तथा साधुसमागमः ।
पितरस्तस्य तुष्यन्ति प्रनृत्यन्ति पितामहाः ॥८०॥
सत्संगं च तथा भक्तिं कुर्वन् कुलेऽस्ति चेज्जनः ।
जलान्नानि मया विप्र निर्मितानि प्रशान्तये ॥८१॥
तथापि नैव मां लोका भजन्ते मोहसम्पदः ।
पापा द्विष्टा मम स्मृत्या यान्त्यमायं पदं मम ॥८२॥
जडा अपि जना ये मच्छरणं संगता भुवि ।
तेऽपि मायामतिक्रम्य प्रयान्ति परमाऽक्षरम् ॥८३॥
नमस्यो जायते देही नमस्कारपरोऽपि मे ।
योऽहमन्तर्निविष्टोऽस्मि हृदयालयशोभनः ॥८४॥
मम योगेन दिव्यो मे भक्तो मुक्तोऽस्ति सर्वदा ।
तं सर्वसाक्षिणं कृष्णं नमस्येत हृदाऽनिशम् ॥८२॥
नमस्कारे सुशक्तोऽपि न मां नमस्करोति यः ।
सोऽत्र मग्नो महाघोरे संसारे न तरिष्यति ॥८६॥
कृष्णनारायणे चैका मयि भावनमस्कृतिः ।
पुनाति सद्यश्चाण्डालं किमुताऽन्यजनानिह ॥८७॥
कृत्वा सुदण्डवन्नारायणं मां प्रणमेत्तु यः ।
स प्राप्नोति गतिं श्रेष्ठां सहस्रमखजोर्जिताम् ॥८८॥
संसारे दुष्टकान्तारे धावतां देहिनामिह ।
मयि कृष्णे नमस्कारो विश्रान्तिदश्च तारकः ॥८९॥
आसीनो वा शयानो वा भुञ्जानो विहरन्नपि ।
अनादिश्रीकृष्णनारायणाय नम उच्चरेत् ॥९०॥
मम नाम सुलभं वै जिह्वा दत्ता तदर्थिनी ।
तथापि न गृणन्त्येते नारकाः किं तदद्भुतम् ॥९१॥
अनन्तसृष्टिजा व्यासाः शेषाश्चाऽनन्तरूपिणः ।
मम लीलाचरित्राणां नाम्नां नान्तं प्रयन्ति ते ॥९२॥
मतिक्षयान्निवर्तन्ते न मे गुणक्षयात् क्वचित् ।
अवशोऽपि वदेत् कृष्ण मुच्यते सर्वबन्धनात् ॥९३॥
बद्धः परिकरस्तेन सर्वथा चाऽक्षरं प्रति ।
स्वप्नेऽपि मां स्मरत्येषो मोक्षाय कल्प्यते द्विजः ॥९४॥
नमः श्रीबालकृष्णाय श्रीकृष्णस्य शुभाय च ।
वहन् भावेन भक्तोऽसौ यमाय नैव कल्पितः ॥९५॥
सूर्योदयेऽन्धतमसां क्षयवन्मम कीर्तने ।
पापानां जायते विप्र क्षयो मोक्षस्ततोऽपि च ॥९६॥
पाथेयं श्रीकृतणनारायणनाम महाध्वनि ।
गच्छतां मध्यलोकानां विघ्नानां विनिवारकम् ॥९७॥
श्रीकृष्णश्रीकृष्णनारायणश्रीकृष्णमाधव ।
जपन्नरोऽक्षरं याति युगेषु सर्वदा सदा ॥९८॥
जिह्वायां श्रीबालकृष्णहरे यस्य स मोक्षगः ।
सर्वसारोत्तमसारश्चाराधनं हरेर्मम ॥९९॥
पूज्योऽसि मच्छ्वशुरोऽसि नारायणीपिताऽसि च ।
सर्वथा चानुग्राह्योऽसि मोक्षे स्थितोऽसि मानद ॥१००॥
जामातारं च मां लब्ध्वा दत्वा दानं सुतात्मकम् ।
किमन्यच्छिष्यते मोक्षे निकामदेव मे वद ॥१०१॥
सम्पन्नं सर्वकार्यं ते निष्पन्नं मोक्षणं शुभम् ।
कृतकृत्योऽसि भगवन् मद्रहस्यं तवोदितम् ॥१०२॥
प्रभोकृष्ण जयकृष्ण माधवीकृष्ण संजपन् ।
श्रीकृष्ण ललिताकृष्ण जपन् याहि ममाऽक्षरम् ॥१०३॥
बालायोगिनिकाकृष्ण बालाकृष्णेति संजपन् ।
मे कृष्णो वल्लभः स्वामी जपन् याहि ममाऽक्षरम् ॥१०४॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने निकामदेवाख्येन मोक्षयोगं प्रति पृष्टः श्रीकृष्णनाराणस्तस्मै मोक्षयोगमुपादिदेशेतिनिरूपणनामा चतुर्विंशोऽध्यायः ॥२४॥

N/A

References : N/A
Last Updated : May 06, 2021

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP