संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १९ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि ततः श्रीबालयोगिना ।स्वमात्रे ज्ञानलभ्यं यं प्राह ब्रह्मरसोत्तमम् ॥१॥यादृङ्मोहः शरीरे स्वे तत्रापीन्द्रियगोलके ।तत्रापि हृदये नैजे तथाऽऽत्मनि स्त्रियां सुते ॥२॥पत्यौ धने जीविकायां देहिनः समवर्तते ।तादृङ्मोहं हरेर्मूतौ कुर्यान्नारी नरोऽपि वा ॥३॥अन्यमोहं त्यजेत्सर्वं नारायणमृषिं विना ।क्षेत्रज्ञे श्रीपतौ कृष्णे कुर्यान्मोहं नरायणे ॥४॥तत्र वृत्तिं धारयेच्च हरौ श्रीपुरुषोत्तमे ।रमणीयतमे कृष्णे लग्नं मनो न चालयेत् ॥५॥गुरौ सत्सु हरौ स्नेहं कुर्यान्नान्यत्र वै क्वचित् ।आसक्तिं श्रीहरौ कुर्यात् तद्रसे पावनोत्तमे ॥६॥आत्मन्येव हरिं कृष्णनारायणं प्रधारयेत् ।हरौ सर्वविषयाणां सुखान्येकत्र सर्वथा ॥७॥लभ्यन्तेऽतो ब्रह्मरसोऽवाप्यते दर्शनेऽपि वै ।एवं ज्ञात्वा भजेत् कृष्णं पातिव्रत्येन सुन्दरी ॥८॥प्रसन्नो जायते तस्या भगवान् कृपया ह्यति ।शनैः शनैः सेवया तं प्रभुं नाथं प्रसादयेत् ॥९॥अनेकावर्त्तसंसिद्धा सेवया रसमाप्नुयात् ।अमाया स्यात् सदा यस्याः परे कान्ते रमेश्वरे ॥१०॥सिद्धदशा भवेदस्याः कृतार्थता च शाश्वती ।परब्रह्मानन्दरसयोग्यताऽस्यास्तदा मता ॥११॥आत्यन्तिकं च कल्याणं साध्वीता चोत्तमा तथा ।प्राप्तव्या तु यया साध्व्या तया पेयो रसो हरेः ॥१२॥अहर्निशं स्मृतिः कार्या कृष्णकान्तस्य स्वात्मनि ।धार्या मूर्तिर्भगवतः सेव्या दिव्येन वर्ष्मणा ॥१३॥पूर्णाब्धिवत् सुखं तस्य भक्ताया पूर्यतेऽनिशम् ।रसिकायां रसिकस्य कृष्णस्याऽऽनन्दपूर्णता ॥१४॥भक्त्या रसिकया कृष्णो रसं नैजं ददाति वै ।ब्रह्मरसं महानन्दं भक्तायै स्वामिभावनाम् ॥१५॥निर्दोषदिव्यभावाया ब्रह्मान्तर्यामियुक्तया ।भक्त्या चार्पितया कृष्णो रसिको रसमेति वै ॥१६॥ब्रह्मैक्यभावया स्वामी सेव्यः सेविकयाऽनिशम् ।सेविकाऽपि रसदाच्छ्रीकृष्णाद् रसं समश्नुते ॥१७॥कृष्णः कान्तः प्रसन्नः स्याद् भक्त्या वा सेवयाऽपि च ।आज्ञया चानुवृत्त्या वा तं धर्मं पालयेत् सती ॥१८॥अखण्डचिन्ता कृष्णस्य यस्या भवति मानसे ।सा तद्रसं महामिष्टं प्राप्नोत्यन्या न विन्दति ॥१९॥एकताना भवेद् या तु सैकरसा प्रजायते ।दृश्यते भगवान् यद्वन् मानवोऽपि न मानवः ॥२०॥नाऽस्य बाधो मायिकैर्वै पदार्थैश्च पराभवः ।अलौकिकं हि सामर्थ्यं कृष्णकान्ते विराजते ॥२१॥असंख्यस्त्रीपतिः कृष्णो निर्लेपोऽपि रसप्रदः ।विदित्वैवं प्रभुं नाथं भजते रसभागिनी ॥२२॥कान्तव्रतं शूरता च सर्वार्पणं तदात्मता ।पक्षः स्नेहश्च यस्याः स्यात् कृष्णे सा रसभागिनी ॥२३॥सतां सेवा हरेः सेवा साध्वीसेवाऽपि सर्वदा ।पद्मावतीकृष्णनारायणसेवात्मिका यदि ॥२४॥यस्या भवति संसारेऽप्यसारे सारगा तु सा ।अन्तरायकरं सर्वं त्यजत्येव हि सा सती ॥२५॥महतां तु सतां सेवा हरेराज्ञा कृपा तथा ।अर्पणं सर्वथा दिव्यपरब्रह्मरसप्रदाः ॥२६॥आहाराः सर्वथा कृष्णे देहेन्द्रियाऽऽन्तरात्मनाम् ।यस्या भवन्ति सततं सा स्याद्वै रसभागिनी ॥२७॥आत्मनिवेदितायज्ञः सर्वयज्ञशिरोमणिः ।परब्रह्मणि देवेशेऽर्पणं यत् पुरुषोत्तमे ॥२८॥आन्तरं सर्वथा दानं बाह्यं दानं च सर्वथा ।हरेः सम्बन्धवत् सर्वं वर्तनं स्फुरणादिकम् ॥२९॥निर्गुणं भगवद्भावं प्राप्य निर्गुणवर्तनम् ।महद्भाग्यं परं प्राप्य परं पदं च निर्मलम् ॥३०॥या साक्षाद् भगवत्प्राप्तिः सर्वेन्द्रियादिहोमजा ।राधालक्ष्मीसमा साध्वी तया प्रजायते सदा ॥३१॥मूर्तेर्बलं तु बहुधा विपुलं रक्ष्यमेव यत् ।स्नेहस्तस्याः प्रवर्धेत बलिष्ठाया हरौ प्रभौ ॥३२॥हरेर्मूर्तेर्बलवत्या नैष्कर्म्यं संप्रसिद्ध्यति ।भयं नास्या हि मायाया महाकालस्य वा भवेत्। ॥३३॥पक्वभक्ता हि सा त्वेकान्तिनी भक्ता हि सा भवेत् ।हरेः स्वरूपनिष्ठायां पक्वायाः श्रेय उत्तमम् ॥३४॥एवंवेत्र्याः कृतार्थत्वं ब्रह्मरसाभिमग्नता ।सारातिसारप्राप्तिश्च श्रीत्वं सम्पद्यते त्विह ॥३५॥यदक्षरेशान्मुक्ताश्च मुक्तान्यः संभवन्त्यपि ।अवतारा अवतारिण्यश्च राधारमादयः ॥३६॥ईश्वरा ईश्वराण्यश्च गोपा गोप्यो भवन्त्यपि ।सखायश्च तथा सख्यो दासा दास्यो भवन्त्यपि ॥३७॥आतिवाहिकदेवाश्च तथाऽधिदेवताः सुराः ।अध्यात्मानश्च पुरुषा व्यूहाः समुद्भवन्त्यपि ॥३८॥अधिभूतानि सर्वाणि समस्ततैजसानि च ।उत्पद्यन्ते हरेर्मूर्तेर्ब्रह्मान्तर्यामिशक्तयः ॥३९॥तमनादिकृष्णनारायणं कान्तं समाश्रयेत् ।सर्वानन्दप्रमोदानां निधिं ब्रह्मरसाश्रयम् ॥४०॥कामपूरं च निष्कामं सर्वानन्दरसप्रदम् ।संगिनं चाऽप्यसंगं च भोगिनं भोगवर्जितम् ॥४१॥लेपिनं चापि निर्लेपं कान्तं कान्तत्ववर्जितम् ।वरेण्यं चाऽवरं रम्यं शयानं शयनोज्झितम् ॥४२॥वधूग्रस्तं च विधुरं गृहस्थं गृहवर्जितम् ।अलिंगं दिव्यलिंगं च शास्त्रयोनिमयोनिकम् ॥४३॥इन्द्रं निरिन्द्रियं चापि शक्तं शक्तिप्रयोजकम् ।शीलिनं स्त्रीशीलिनं च कृष्णं श्वेतं निरूपिणम् ॥४४॥अचेष्टं दिव्यचेष्टं च सर्वचारित्र्यसंभृतम् ।एवंविधं परं कान्तं मत्वा कृष्णनरायणम् ॥४५॥प्राप्य साक्षाद् दिव्ययोगं ब्रह्मरसमवाप्नुयात् ।नैतादृश्याः प्रेमरसार्जने किञ्चिद्धि शिष्यते ॥४६॥देवलोका ब्रह्मलोकाः सर्वलोका हरेः कृते ।देवीलोकाः परीलोकाः श्रीलोकाश्च हरेः कृते ॥४७॥गुणातीतादिलोकाश्च भक्तलोका हरेः कृते ।मुक्तमुक्तानिकालोकाः श्रेयसामालयास्तथा ॥४८॥सम्पदामालयाश्चापि कल्पिताः परमेश्वरे ।भवन्ति मोक्षदाः सर्वे दिव्यस्वाम्यभिधिष्ठिताः ॥४९॥सर्वविधायां विकृतौ कृतौ ज्ञाने प्रसेवने ।हरेः प्रसन्नतावाञ्च्छा यस्याः सा रसभोगिनी ॥५०॥आत्मप्रयत्नसंरूढा देहेन्द्रियादिशासिका ।हर्यर्थकृतसर्वस्वा ब्रह्मरसं समश्नुते ॥५१॥आलोचनरसान् दिव्यान् व्यापारसद्रसान् परान् ।आनन्दमोदभोगादीन् स्नेहप्रेमसुखोत्सवान् ॥५२॥कामसंकल्पसक्त्यादीन् रत्याकर्षणमूर्छनाः ।समस्तामृतपानादीन् ताम्बूलरसमाधवीम् ॥५३॥स्पर्शमाधुर्यलावण्याऽभिन्नसंगोद्भवान् रसान् ।अश्नुते दत्तसर्वस्वा सर्वशृंगारजान् रसान् ॥५४॥सर्वं ब्रह्ममयं यस्यास्तस्या ब्रह्मरसाशनम् ।घनश्यामां श्वेतभां च मनोहरां किशोरिकाम् ॥५५॥मुक्तानिकामहामण्डलादिभावप्रसेविताम् ।मूर्तिं कृष्णात्मिकां प्राप्य भवेद् ब्रह्मरसाशनम् ॥५६॥एकरसं महातेजोऽक्षरब्रह्मप्रकाशकम् ।रसपूर्णं निजं धाम परब्रह्मरसात्मकम् ॥५७॥सम्पादयति भगवान् प्रज्ञेशः पुरुषोत्तमः ।कैवल्यसंभृतः श्रीमत्कृष्णनारायणः पतिः ॥५८॥स एव मानवश्चास्ते तथाऽप्यमानवोऽस्ति सः ।तद्वस्त्रालंकृतयश्च दिव्या वाहनदासिकाः ॥५९॥परिचर्यापरा दासा दिव्याः पानाशनार्हणाः ।सर्वावतारधर्ता सः सर्वावतारकारणम् ॥६०॥अलौकिकोऽपि भगवान् वर्तते लोकवत् त्विह ।एवंवेत्त्र्यास्त्विह मोक्षपदं करतलेऽस्ति वै ॥६१॥कर्तव्यं शिष्यते नाऽस्याः साधनान्तं गता तु सा ।वर्तते ब्रह्ममोदस्था परब्रह्मरसाशना ॥६२॥सत्यप्राणस्थिता चास्ते भागवताप्तसद्रसा ।एकान्तिकसतां योगात् तादात्म्यरूपनिश्चया ॥६३॥निर्विकल्पसमाधिस्था निर्गुणब्रह्मरूपिणी ।परब्रह्मरसास्वादा सैव भवति भामिनी ॥६४॥या विशिष्टा स्थूलरूपा माया तद्रसमाधवी ।या सूक्ष्माऽपि कृष्णयोगात् प्रसूतिं प्रकरोत्यपि ॥६५॥सा कृष्णस्य सदा पत्नी भोग्या माया तु बन्धिनी ।जडाऽपि कृष्णसम्बन्धाद् दिव्या तद्रससंभृता ॥६६॥भवत्यसंख्यलोकानां कृष्णरसाभिषञ्जिका ।राधारमाप्रियाद्याश्च परब्रह्मरसैः प्लुताः ॥६७॥रसयन्ति जगत् सर्वं तथैव तन्नरायणी ।साधुसंगतिमापन्ना चाऽप्रधृष्या हरीतरैः ॥६८॥रसयत्येव सहजानन्दे निजात्मवर्तिनि ।परब्रह्मरसे नित्ये स्वामिसक्तेऽतिशान्तिदे ॥६९॥कृष्णनिष्ठावती साध्वी कृष्णस्वरूपलोभिनी ।कृष्णार्थधर्मधर्त्र्येव शान्तिं द्रुतं प्रगच्छति ॥७०॥तीव्रश्रद्धा हरेः प्राप्तौ तद्रसावाप्तयेऽपि च ।यस्याः सा विन्दति प्रज्ञाप्रसूतं कृष्णजं रसम् ॥७१॥यस्या विह्वलता कृष्णदर्शनादौ सदाऽस्ति सा ।तीव्रवेगवतीश्रद्धाश्रया बोध्या तु भामिनी ॥७२॥महात्म्यज्ञानयुक्तायाः श्रद्धातैक्ष्ण्यं प्रजायते ।असंख्यरसलोभेन कृष्णकान्ता प्रजायते ॥७३॥कृष्णमूर्तिं विना भेदं विना त्यागं प्रसेवते ।स्थितप्रज्ञा निर्विकल्पा दृढप्रज्ञा प्रभुं पतिम् ॥७४॥सेवते सर्वपापघ्नं रसदं चाऽभयप्रदम् ।सोऽपि भक्तां तथा नैजां सेवते पुरुषोत्तमीम् ॥७५॥निर्विकारं सर्वविधक्षेत्रज्ञं लेपवर्जितम् ।योग्याऽयोग्यचरित्राणां गायिका गायति प्रभुम् ॥७६॥अहोभाग्यं च मन्वाना स्थितप्रज्ञा हरौ हि सा ।आक्षरीं स्थितिमापन्ना ध्यानकीर्तनतत्परा ॥७७॥वन्दनार्चनदानाद्यैः प्रसन्नतापरायणा ।दासीव सर्वसेवार्हा बद्रीमुक्ता यथा तथा ॥७८॥श्वेतद्वीपनिवासाभा श्रीपुराभिस्थितेव सा ।स्वेष्टदेवताश्रीकृष्णनारायणं श्रिता सदा ॥७९॥पतिव्रता सा श्रीकृष्णनारायणे प्रभौपतौ ।मनसा वर्ष्मणा भक्त्या मूर्तौ तत्सत्सु सेवया ॥८०॥राधारमाप्रमापद्मावतीसमा प्रसादिता ।वर्तते सा लभतेऽत्र परब्रह्मरसाशनम् ॥८१॥यदा सा वर्ततेऽनादिकृष्णसंगमसद्रसे ।तदा ब्राह्मी भवत्येव दिव्या मायापरा सखी ॥८२॥आत्मचैतन्यतादात्म्यं हरौ लब्धवती सती ।अनादिश्रीकृष्णकान्तमात्रसंसर्गसंभृता ॥८३॥परब्रह्माभियोगेन ब्रह्मवद् व्यापिका तथा ।सर्वैश्वर्यमहाशक्त्यसंख्यचमत्कृतिभृता ॥८४॥सर्वज्ञेव महाराज्ञी सम्राज्ञी समजायते ।सिद्धदशावती पत्नी महामुक्तानिका यथा ॥८५॥सिद्धदशां परां प्राप्य तेनैव वर्ष्मणा प्रिया ।गोलोकं चाक्षरं दिव्यं वैकुण्ठं श्रीपुरं तथा ॥८६॥अव्याकृतं चामृतं च धामन्यन्यानि यानि च ।तत्र याति हरेर्योगात् स्वतन्त्रा रसवेदिनी ॥८७॥सृष्टित्रयेऽपि सुगतिर्जायते कृष्णभामिनी ।कल्याणदं हि विज्ञानं सर्वकृत्त्वं हरेः सदा ॥८८॥हरेः सतां चरित्राणि दैहिकानि पराण्यपि ।सकामानि तथा यद्वा कामनावर्जितान्यपि ॥८९॥दिव्यान्येव सदा मोक्षप्रदानि पावनानि च ।अमायिकानि सर्वाणि प्रत्यक्षस्य हरेः सताम् ॥९०॥प्रत्यक्षो भगवानत्र सन्तः साक्षाद् भुवि स्थिताः ।प्राचीनाऽव्ययधामस्थसनातनस्वरूपिणः ॥९१॥भवन्त्येवेतिमाहात्म्यज्ञानं यस्यास्त्विहास्ति वै ।सा प्राप्ता परमब्रह्मचिन्तामणिं हि शाश्वतम् ॥९२॥कल्याणं परमं तस्या जायते ज्ञानयोषितः ।लक्ष्यं धामाऽक्षरं यस्याः प्राप्यो यस्याः पतिः प्रभुः ॥९३॥राज्यं कृष्णरसाऽवाप्तिः प्रजा मुक्तानिकागणाः ।आनन्दः श्रीकृष्णसंगे किं तस्या ननु शिष्यते ॥९४॥हरिं विना न लोभोऽस्ति परत्र वा निजात्मनि ।यावच्च ब्रह्मलोकेषु वैभवेष्वपि कश्चन ॥९५॥यन्मनो न भवेल्लग्नं सा चैकान्तिककोटिगा ।साध्वीं पदवीं चोत्कृष्टतमां साऽधिगता यतः ॥९६॥साध्व्यास्तस्या ब्रह्मपत्न्याः पूजां कुर्वन्ति देवताः ।हरेर्योगेन सा प्राप्ता ह्यलौकिकचमत्कृतिम् ॥९७॥चिन्तामणिः कृष्णनारायणस्तस्याः करे स्थितः ।तेन श्रीकृष्णभगवत्प्रेमरसं समश्नुते ॥९८॥इत्येवं श्रीकृष्णनारायणकान्तरसं त्वहम् ।मातर्नित्यं प्राप्तवती समश्नामि तदंकगा ॥९९॥नान्यमिच्छामि राधेशाद्भिन्नं वा चेतनं जडम् ।इत्युक्त्वा विररामाऽपि बद्रिके बालयोगिनी ॥१००॥प्रभोकृष्ण हरिकृष्ण बालकृष्ण रमापते ।कृष्णनारायणस्वामिन् माधवीश सतां पते ॥१०१॥श्रावयामास भजनं मातरं बालयोगिनी ।ननर्त च क्षणं मग्ना कान्ते भावभरा तदा ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां बालयोगिन्या मात्रे उपदिष्टस्य ज्ञानलभ्यस्योत्तमब्रह्मरसस्य निरूपणमित्यादिनामा नवदशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP