संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कुसारजातियोषितः ।सत्कथां पावनीं तत्र मोक्षदां भक्तिसंभृताम् ॥१॥सिन्धुदेशे तु ये भक्ताः कृष्णनारायणाश्रिताः ।अभवँस्ते मिलित्वा वै केचित् संघात्मकास्ततः ॥२॥लक्ष्मीनारायणसंहितायाः पारायणे शुभे ।कार्तिके शुक्लपक्षे वै प्रातश्चैकादशीदिने ॥३॥पूजनार्थं संहिताया आययुश्चोपदाकराः ।ब्राह्मणाः क्षत्रिया वैश्याः शूद्रा दासाश्च दासिकाः ॥४॥यावन्तः पुष्पहाराद्यैः कुंकुमाऽक्षतचन्दनैः ।धूपदीपसुनैवेद्यैरानर्चुः संहिताश्रियम् ॥५॥आरार्त्रिकफलपुष्पाञ्जलिस्वर्णार्पणैस्तथा ।मणिरत्नहीरकाद्यैः स्वर्णभूषाम्बरादिभिः ॥६॥ते स्वप्रकाशं व्यासं चाऽऽनर्चुः सर्वे तथाविधैः ।दिव्योत्तमैरुपचारैस्ततः श्रीकृष्णकीर्तनम् ॥७॥चक्रुर्वाद्यविशेषाढ्यं तालिकानादगर्भितम् ।'हरे कृष्ण बालकृष्ण कृष्णनारायण प्रभो ॥८॥अनादिश्रीकृष्णनारायण श्रीकान्त सद्विभो' ।एवं धून्ये प्रभवति मग्नानां सर्वदेहिनाम् ॥९॥एकाग्रमानसानां वै तदाऽऽश्चर्यं महद्ध्यभूत् ।विमानमागतं दिव्यं कोटिसूर्यसमप्रभम् ॥१०॥तत्रैका द्योतिकानाम्नी कंसारी दिव्यविग्रहा ।भूत्वाऽऽरुह्य विमाने सा ययौ धामाऽक्षरं परम् ॥११॥श्रीबद्रीप्रियोवाच-का सा वै द्योतिकानाम्नी कथं सा दिव्यविग्रहा ।केन पुण्येन सा याता धामाऽक्षरं तु तद्वद ॥१२॥श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि साऽऽसीद् वै कर्मचारिणी ।भृत्या दासी वेतनेन रायहरेर्नृपस्य वै ॥१३॥जात्या शूद्रा हि कंसारी पात्रमञ्जनकारिणी ।मार्जनादिपरा तत्र नृपराज्ञ्यास्तु किंकरी ॥१४॥भक्ताऽऽसीत् पूजने कार्ष्णे कंसारी तु कुसारिणी ।नित्यं सा शृणुते लक्ष्मीसंहितां नियमान्विता ॥१५॥राज्ञीकार्याणि निर्वर्त्य देरहकार्याणि सर्वथा ।राज्ञ्यालयसमस्तानि कार्याणि प्रविधाय सा ॥१६॥कृतस्नानजपपूजा कृतदास्यसमस्तिका ।कृतादरा भक्तिनिष्ठा कथायामुपतिष्ठते ॥१७॥पुष्पहारेण सहितां पुष्पहारेण वाचकम् ।कुंकुमाऽक्षतमुद्राभिः समर्चयति नित्यशः ॥१८॥करमाला स्थिरचित्ता नत्वा व्यासं सभां ततः ।श्रवणार्था सभायां सा निषीदति ह्यतन्द्रिता ॥१९॥तस्याः पतिः कुसारोऽपि कृष्णसाराऽभिधः सदा ।कथां श्रोतुं समायाति शीघ्रं याति च कर्मणे ॥२०॥राजसेवापरः पत्न्याः कार्यं शेषं करोति सः ।पत्नी भावप्रपूर्णा सा कथाः शृणोति सर्वथा ॥२, ॥श्रत्वा सन्धार्य रात्रौ स्वस्वामिने कथयत्यपि ।एवंविधाऽऽदरपरा कथाश्रवणमात्रतः ॥२२॥पावनी सा तु संभूता सर्वपापविवर्जिता ।तया मन्त्रो हरेस्तत्र गृहीतो व्यासतः शुभः ॥२३॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।नित्यं मन्त्रं जपति सा तथा करोति कीर्तनम् ॥२४॥ 'हरेकृष्ण कृष्णनारायण श्रीपरमेश्वर ।अनादिश्रीकृष्णनारायण श्रीपुरुषोत्तम' ॥२५॥एवं करोति भजनं भोजनं चैकवारकम् ।प्रसादं वा फलाद्यं वा गृह्णात्येव न चापरम् ॥२६॥एवं वै वर्तमानयाः कंसार्याः पापमोचनम् ।पुण्यानामुदयः कृष्णनारायणप्रसन्नता ॥२७॥सर्वं जातं स्वभावेन गुरोः करोति सेवनम् ।स्वपनं गात्रसंवाहं वस्त्रक्षालनकादिकम् ॥२८॥व्याससेवाप्रपुण्येन भक्तिबले प्रवर्धिता ।व्यासासनादिक्लृप्त्या च सभास्थलादिमार्जनात् ॥२९॥महापुण्यप्रतापेन कर्मक्षयो व्यजायत ।देहत्यागसमयोऽस्याः प्राप्तस्तदा हरिः स्वयम् ॥३०॥विमानं दिव्यमारुह्य स्वयं नेतुं समाययौ ।दिव्यदृशां गोचरो वै कृष्णनारायणः प्रभुः ॥३१॥किरीटी कुण्डली चक्री वासस्वी श्रीसमन्वितः ।प्रभासयन् दिशाः सर्वा आगत्य तु कथास्थले ॥३२॥अवतीर्य विमानात् स तां जग्राह करे हरिः ।सापि देहं भौतिकं वै त्यक्त्वा नत्वा सभां तथा ॥३३॥स्वतःप्रकाशं दिव्यं स्वं सद्गुरुं विष्णुरूपिणम् ।लोमशं च मुनिं साधूनन्यान्नत्वा पुनः पुनः ॥३४॥याचित्वा च क्षमां दिव्यदेहा मुक्तानिका शुभा ।दिव्या कार्ष्णी कृष्णतुल्या राधातुल्या मनोहरा ॥३५॥भूत्वा विमानमारुह्य कृष्णनारायणान्विता ।ययौ धामाऽक्षरं दिव्यं पश्यतां दिव्यचक्षुषाम् ॥३६॥आश्चर्यं परमं तद्वै कथाश्रवणसत्फलम् ।अभवद्वै तथा बद्रि महामोक्षप्रदं परम् ॥३७॥कुसारिणी द्योतिका सा कंसारी कृष्णसारिणी ।प्रसञ्जाता यथा लदमीर्दिव्ये धान्नि व्यराजत ॥३८॥एवं तदा बहवो वै नरा नार्यश्च पावनाः ।कथां श्रुत्वाऽभवन् लोके जीवन्मुक्ता हरेः प्रियाः ॥३९॥अमृतं भेषजं बद्रि करोत्येव निरामयम् ।कृष्णामृतं तु मायानां रोगान्नाशयति द्रुतम् ॥४०॥सतां सेवा गुरोः सेवा भक्तिश्च भजनं हरेः ।आत्मनो दिव्यतां श्रेष्ठां कुर्वन्त्येव प्रमोक्षणम् ॥४१॥शृणु बद्रीप्रिये देवि सायं त्वेकादशीतिथौ ।ऊर्जे तत्र महाश्चर्यमपरं संव्यजायत ॥४२॥कुलालस्य कुटुम्बं वै सेवायां सर्वथाऽभवत् ।कुंभकारो नरराजस्तथा भार्याऽस्य रक्षिका ॥४३॥पुत्राः पुत्र्यः समस्ता वै पारायणपरायणाः ।सर्वं कुटुम्बं नित्यं वै सेवते तत्सभास्थलम् ॥४४॥क्षणे क्षणे जलपानं ददात्यतीव शीतलम् ।पात्राणां भञ्जनं वायोव्यजनैः सुप्रदानकम् ॥४५॥आस्तरणास्तरणादि रजसां मार्जनादिकम् ।कथान्ते रिक्तभावे त्वास्तरणानां प्रमोडनम् ॥४६॥रक्षणं च स्थले योग्ये कच्चरादिनिकासनम् ।कथायाः श्रवणं चापि पूजनं दर्शनादिकम् ॥४७॥कुलालस्य कुटुम्बं वै सर्वं प्रसेवते सभाम् ।कथां शृणुते नित्यं तद् भजते पार्वतीपतिम् ॥४८॥एवं ध्वस्ताऽघमेवाऽतो मन्त्रं जग्राह सद्गुरोः ।व्यासात् प्राप्त्वा हरेर्नाममाहात्म्यं च ततः परम् ॥४९॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।मन्त्रं जेपुः कुलालास्ते भजनं चक्रिरे मुदा ॥५०॥ 'हरेकृष्ण प्रभोकृष्ण बालनारायण प्रभो ।अनादिश्रीकृष्णनारायण पारं कुरु प्रभो' ॥५१॥मालावर्तनमाचक्रुः कृष्णनारायणेति च ।सेवां चक्रुः सभायास्ते व्यासस्याऽमिततेजसः ॥५२॥तेन दग्धानि पापानि तेषां च वासनाक्षयः ।जन्ममृत्युप्रवाहस्याऽधिकारो नाशतां गतः ॥५३॥सायं कथान्ते धुन्याऽन्ते भजनान्ते हरेः पुरः ।सभान्तिके कुटुम्बं तत् समस्तं दिव्यभावनम् ॥५४॥श्रीहरेः कृपया दिव्यदेहं जातं द्रुतं तदा ।तावत् तत्र समायातं विमानं व्योममार्गतः ॥५५॥यत्र नारायणकृष्णो राधायुक्तोऽभवत् प्रभुः ।प्रकाशयन् दिशः सर्वा विमानात् समवातरत् ॥५६॥भूमौ तत्र कुलालाग्रे पश्यतां दिव्यचक्षुषाम् ।सर्वान् विधाय भगवान् कुलालात् दिव्यविग्रहान् ॥५७॥विमाने स्वे ह्यवस्थाप्य पराश्चर्यं प्रसारयन् ।ययौ धामाक्षरं दिव्यं कृपालुर्भक्तवत्सलः ॥५८॥कुलालानां स्थूलदेहा नाऽदृश्यन्त तदा भुवि ।स्थूलास्ते दिव्यतां प्राप्ताः सेवया श्रीगुरोः सताम् ॥५९॥वैष्णवानां सेवया च कथायाः सेवनात्तथा ।भक्त्या ध्यानेन कृष्णस्य कार्ष्णतां ते ययुस्तदा ॥६०॥लक्षशो वै जनास्तत्राश्चर्यमग्नास्ततोऽभवन् ।अहो कथाया माहात्म्यं बद्रिके दिव्यमोक्षकृत् ॥६१॥शृणु रात्रौ ततो जातं महाश्चर्यं वदामि ते ।रात्र्यारम्भे कीर्तनं वै चक्रिरे सर्ववैष्णवाः ॥६२॥एकादश्या जागरणे ययुः कृष्णैकतानताम् ।वाद्ययुक्ते कीर्तने वै प्रेममग्नास्तदाऽभवन् ॥६३॥तत्रैका स्वर्णकारस्त्री धातुध्मस्त्री तथाऽपरा ।सुम्बालिकाऽभिधा चाद्या परा नाम्ना विनोदिनी ॥६४॥कीर्तयन्त्यौ सहसैव तन्मय्यौ चित्तरोधताम् ।प्राप्यैकतानतां लब्ध्वा समाधिं भेजतुर्द्रुतम् ॥६५॥तयोरग्रेऽभवत्तेजोमयी मूर्तिः सनातनी ।अनादिश्रीकृष्णनारायणस्य यौवनान्विता ॥६६॥रमणीया सूर्यचन्द्रवह्निविद्युत्समप्रभा ।देदीप्यमाना सुभगा पुष्टा सर्वांगसुन्दरी ॥६७॥विमानं दिव्यतेजोमच्छोभनं परमाद्भुतम् ।तत्राऽदृश्यत वै रात्रौ भूतले हरिसन्निधौ ॥६८॥पार्षदैर्बहुभिर्युक्तं मुक्तानिकाभिशोभितम् ।चक्षुष्मतां दर्शनार्हं सर्वेषां दृष्टिगोचरम् ॥६९॥कृष्णनारायणो विष्णुः पश्यतां सर्वदेहिनाम् ।पस्पर्श ते स्त्रियौ दक्षकरेण यावदेव हि ॥७०॥तावद्विद्युत्समे श्वेते चोज्ज्वले ते बभूवतुः ।दिव्यरूपे दिव्यभूषाधरे दिव्यसुविग्रहे ॥७१॥तयोर्देहौ भौतिकौ तु तत्रैवाऽदृश्यतां गतौ ।दिव्यदेहौ सुनिष्पन्नौ शुभौ राधारमासमौ ॥७२॥युवत्यौ ते हरिं नत्वाऽऽरुरुहतुर्विमानकम् ।अनादिश्रीकृष्णनारायणो द्रुतं हसन् हरिः ॥७३॥स्वं विमानमधिरुह्य नीत्वा ते मुक्तयोषितौ ।ययौ धामाऽक्षरं तूर्णं दिव्येनाऽम्बरवर्त्मना ॥७४॥एवं तत्राश्चर्यमेतच्चमत्कारमयं ह्यभूत् ।कथायाः कीर्तनादेश्च फलं मोक्षप्रदं शुभम् ॥७५॥बद्रिके द्वादशीप्रातःकाले ब्राह्मे मुहूर्तके ।आश्चर्यं परमं जातं शृणु त्वं संवदामि ते ॥७६॥नाट्यकारोऽभवत्तत्र नाम्ना रञ्जनकोविदः ।स कृत्वा जागरं स्नात्वा ब्राह्मे मुहूर्तके प्रगे ॥७७॥नीत्वा पुष्पाणि च मालां चन्दनं कुंकुमं फलम् ।अक्षतान् दर्भपत्राणि तिलान् गूढं च शर्कराः ॥७८॥गोधूमान् श्वेतधोत्रं च स्वर्णमुद्रां च कम्बलम् ।पूजार्थं संहितायाः स समाययौ तु मण्डपम् ॥७९॥यां संहितां स्त्रीजनः प्रदक्षिणं करोति वै ।नरा नत्वा पूजयित्वा यान्ति गुर्वर्चनाय च ॥८०॥तत्र गायन् पूजनार्थं प्राप्तो रञ्जनकोविदः ।नेमे चानर्च तां संहितां पुष्पादिभिरादरात् ॥८१॥प्रदक्षिणं चकाराऽपि ततश्चारार्त्रिकं व्यधात् ।तत्क्षणे रुद्धचित्तोऽसौ तुर्यावस्थां विवेश ह ॥८२॥भानहीनः पपाताऽस्य देहस्तत्रैव भूतले ।तावद् दिव्यं समायातं विमानं प्रोज्ज्वलं शुभम् ॥८३॥अम्बरात् सहसा भूमाववातरत् तडिद् यथा ।तत्र नारायणकृष्णो दिव्यमूर्तिरदृश्यत ॥८४॥सर्वेषां गोचरः साक्षाद् रमाराधापतिः प्रभुः ।मायामुक्तं दिव्यदेहं हरिः रञ्जनकोविदम् ॥८५॥मुक्तात्मानं विमाने स्वे नीत्वा धामाऽक्षरं ययौ ।महाश्चर्यमभूत्तत्र बद्रिके प्रातरेव तत् ॥८६॥तावत् कश्चित् समायातः कदर्यस्तत्र भूसुरः ।पत्रपुष्पजलयुक्तः संहितापूजनाय वै ॥८७॥श्लोकमुच्चारयन् तस्थौ सम्मर्दे योषितां तथा ।'नमः संहितारूपाय माधवीस्वामिने नमः ॥८८॥निर्मलानां हृदिस्थाय मोक्षदाय च ते नमः ।नमो राधारमालक्ष्मीश्रीरूपायै मुहुर्मुहुः ॥८९॥मोक्षदात्र्यै दिव्यमात्रे ज्ञानदायै च ते नमः ।नमः श्रीकृष्णकान्तायै माणिक्यायै च ते नमः ॥९०॥ब्रह्मविद्यास्वरूपायै धामशक्त्यै च ते नमः ।नमः श्रीबदरीदेव्यै जयादेव्यै च ते नमः ॥९१॥नमः प्रियायै दिव्यायै पारंगत्यै च ते नमः ।नमो मात्रे महालक्ष्म्यै ललितायै च ते नमः ॥९२॥ब्रह्मदात्र्यै परब्रह्मयोगदात्र्यै च ते नमः ।इत्येवं स हरिकृष्णं तुष्टाव संहिताश्रियम् ॥९३॥तावन्नार्यो ददुस्तस्मै पूजावसरमुत्तमम् ।पुपूज परमात्मानं कदर्यो विप्रराट् तु सः ॥९४॥संहितां पूजयामास कूर्दनं नर्तनं तथा ।तालिकावादनं गालवादनं सक्थिशब्दनम् ॥९५॥घुर्घुरावादनं चाऽऽस्ये चकार कीर्तनं तथा ।क्षणं स्तब्धा दर्शका वै मानवास्तु तदाऽभवन् ॥९६॥अथैवं कीर्तने मग्नश्चैकचित्तोऽतिरोधकृत् ।मूर्तौ त्वेकात्मतां प्राप्तो ब्रह्मरन्ध्रे विवेश ह ॥९७॥ब्रह्मरन्ध्रात् तस्य तेजः सहस्रसूर्यसदृशम् ।निर्यातं सहसा तत्र ह्यन्धीकुर्वज्जगत्त्रयम् ॥९८॥नेत्रमूर्छां गतः सर्वे नरा नार्यश्च बद्रिके ।तावच्छान्तं चन्द्रसमं शनैर्दृश्य हि चाऽभवत् ॥९९॥तत्राऽनादिकृष्णनारायणः स्वामी व्यदृश्यत ।करे गृह्णन् कदर्यं तं नाम्ना श्रीरामसुन्दरम् ॥१००॥तावत्तत्र विमानं वै समायातं महाम्बरात् ।कृष्णनारायणस्तत्र नीत्वा श्रीरामसुन्दरम् ॥१०१॥दिव्यदेहं ययौ धामाऽक्षरं तूर्णं श्रियः पतिः ।आश्चर्यं परमं सर्वयोषितां कृष्णदर्शनात् ॥१०२॥अभवद् वै नराणां च प्रोत्साहः परमोऽभवत् ।कदर्यस्य शरीरं तत् तत्रैव लीनतां गतम् ॥१०३॥एतद्वै तन्महाश्चर्यं प्राप्ता दृष्ट्वा जनाः पुनः ।कथायाः श्रवणादेतन्मोक्षणं पूजनात्तथा ॥१०४॥सञ्जातं श्रीकदर्यस्य दिव्यदेहेन चाक्षरम् ।निवासाय सदा जातं धाम यच्छाश्वतं प्रभोः ॥१०५॥इत्येवं बद्रिके सिन्धुदेशे पारायणक्षणे ।नित्यं नित्यं प्रजायन्ते देहिनां मोक्षणानि वै ॥१०६॥पठनाच्छ्रवणादस्य चमत्कारस्य कीर्तनात् ।भुक्तिर्मुक्तिर्भवेच्चापि दिव्या गतिः परं पदम् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेसंहितायाः श्रवणेन पूजनेन च विद्योतानाम्न्याः कंसा-रिण्याः, कुंभकारस्य नरराजस्य कुटुम्बस्य, स्वर्णकारस्त्रिया अम्बालिकायाः, धातुध्मस्त्रिया विनोदिन्याः, नाट्यकारस्य रञ्जनकोविदस्य, कदर्यस्य श्रीरामसुन्दरस्य, च श्रीकृष्णनारायणेन मोक्षणं कृतमित्यादिनिरूपणनामा षट्चत्वारिंशोऽध्यायः ॥४६॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP