संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ६८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ६८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ६८ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां चान्यां हितावहाम् ।भरवाटोऽभवद्ग्रामे गुन्द्रके परमीरकः ॥१॥परमीराऽभिधः सोऽयमजासहस्रपालकः ।अजामात्रपयोवृत्त्या तथोर्णविक्रयादिभिः ॥२॥अजाविक्रयवृत्त्या च जीवत्येव कुटुम्बवान् ।अजामांसाशनश्चापि तथाऽजाबालभक्षकः ॥३॥एवंविधोऽभवत् पापी सदाऽजापशुजीवनः ।चारयत्येव सर्वाऽजाः सीमक्षेत्रादिषु नृणाम् ॥४॥सस्वामिकेषु क्षेत्रेषु सस्यघासतृणानि च ।यानि तान्यपि चौर्येण चारयत्यपि वै निशि ॥५॥एवं दोषकरश्चाऽयं भरवाटोऽघसंभृतः ।धर्मकर्मादिहीनः स कालपाशवशंगतः ॥६॥ययौ यमालयं याम्यैर्नीतश्च तत्र रौरवे ।असिपत्रवने कालपाशे सन्दशके तथा ॥७॥अग्निज्वाले नरकेषु क्षिप्तो लालाशनेऽपि च ।याम्यदुःखान्यनुभूय भूतले श्येनतां गतः ॥८॥अरण्ये श्येनपक्षी स जातः पापावशेषतः ।स तूड्डीय वनाद् वनान्तरं सिन्धुतटेऽगमत् ॥९॥प्राप्तोऽयं शर्कराभूमिं यत्र कथा प्रवर्तते ।तरुषण्डेषु विश्रान्तिं लेभे मध्याह्नके तदा ॥१०॥तत्र तत्र च चटका मार्गयन् तूत्करे स्थिताः ।भक्षयन्तीश्चटकाः स व्यलोकयत् सुदूरतः ॥११॥साधूच्छिष्टौदनकणान् कृष्णप्रसादरूपिणः ।भक्षयन्तीर्भक्ष्यचित्ताश्चटका वीक्ष्य वै द्रुतम् ॥१२॥उत्पपात द्रुमात्तूर्णं पपात चटकोपरि ।सहस्रशश्चटकास्ता उड्डीय भयतो द्रुतम् ॥१३॥उत्पेतुरम्बरं त्वेकां धृतवान् भक्ष्यमुत्तमम् ।चञ्च्वा तां मारयामास तावच्चटकावर्ष्मणः ॥१४॥विनिर्ययौ दिव्यनारी सर्वाभरणभूषिता ।स्वर्गस्य देवता यद्वत् कन्या तेजस्विनी शुभा ॥१५॥पुष्पमालां करे धृत्वा साऽप्सरःसुन्दरी द्रुतम् ।कथामण्डपमागत्य व्योममार्गेण पूजनम् ॥१६॥प्रचक्रे श्रीप्रभे बद्रि संहितायाः समुत्सुका ।विलोकिता समस्तैश्च मण्डपस्थैर्जनैस्तदा ॥१७॥पृष्टा का त्वं नता चापि प्रत्युवाच जनान् प्रति ।चटकाऽहं प्रसादान्नभक्षणात् पापवर्जिता ॥१८॥पवित्रा पुण्यसंयुक्ता भवाम्यद्य जनास्त्विह ।सतामुच्छिष्टमासाद्याऽभवं स्वर्गाय देवता ॥१९॥अप्सरोवरतां प्राप्ता स्वर्गं प्रयामि चाधुना ।चतुर्युगं दिवि स्थित्वा श्रीसंहिताऽर्हणोद्भवम् ॥२०॥पुण्यमासाद्य यास्यामि वैकुष्ठं मुक्तविग्रहा ।श्येनोऽयं तु पुरा चासीद्भरवाटो ह्यजापतिः ॥२१॥अहमासमजा तस्य मृताऽत्र चटकाऽभवम् ।तेन धृता मृता चास्मि प्रयामि स्वर्गमुत्तमम् ॥२२॥अन्याश्चटका उड्डीय प्रयाताश्चाऽम्बरं द्रुतम् ।ता अपि भरवाटस्याऽभवन्नजादिमण्डलम् ॥२३॥ताः सर्वा अपि कालेन प्रसादभक्षिका यतः ।निष्पापाः पुण्यवत्यश्च प्रयास्यन्ति परं पदम् ॥२४॥श्येनोऽपि मम देहस्य प्रसादपावितस्य वै ।भक्षणेन पुण्यबलो भविष्यति न संशयः ॥२५॥शनैः शनैः कणभक्षी भविष्यत्युत्करे स्थितः ।प्रसादकणभुग् भूत्वा वैकुण्ठं स प्रयास्यति ॥२६॥इत्युक्त्वा चटका बद्रि नत्वा संपूज्य चामृतम् ।वारि पीत्वा ययौ स्वर्गं सर्वेषां पश्यतां परी ॥२७॥महाश्चर्यमभूत्तेषां पश्यतां देहिनां तदा ।बद्रिके चाथ चटकां श्येनः स बुभुजे तदा ॥२८॥ओदनं सुसुगन्धं च प्रसादोच्छिष्टमित्यपि ।बुभुजेऽन्यान्नकणकान् शृतान् स्वादून् सुमोदवान् ॥२९॥मिष्टान्नखण्डकाँश्चापि घृतपक्वान् सुरन्धितान् ।कच्चरस्थान् नित्यमेवमागत्य श्येन आद तान् ॥३०॥पूतात्मा चाऽभवच्छ्येनस्तत्याज मांसभक्षणम् ।जातिस्मरोऽभवत्तेन मोक्षमैच्छन्निजात्मनः ॥३१॥चटकानां तथा मोक्षमैक्षत् पुराऽजजन्मनाम् ।नित्यं श्येनस्तरुषण्डे प्रतीक्षन् चटकागमम् ॥३२॥प्रच्छन्नस्तिष्ठति क्रोडे दिवसे चोत्करोन्मुखः ।चटकाश्च समायान्ति प्रसादोच्छिष्टवाञ्च्छया ॥३३॥भक्षयन्त्येकचित्ताश्च तावत्पतति पक्षिराट ।चटकं वा चटकां वा समादत्तेऽदनाय सः ॥३४॥चटकाऽपि मृता तूर्णं देवो वा देवता तदा ।भूत्वा यात्यम्बरं स्वर्गं प्रयात्येव मुदाऽव्ययम् ॥३५॥एवं नित्यं प्रकुर्वाणश्चैकदाऽऽह तरौ स्थितः ।चटका यूयमेवादावजा आस्त शुभा मम ॥३६॥कर्मयोगेन जन्माऽत्र भवतीनां हि वर्तते ।मया पूर्वं भवतीनां दुग्धान्यतिथये तथा ॥३७॥साधुभ्यो धर्मकार्यार्थं नारायणाय चैकदा ।अर्पितानि शिवरात्र्यां शिवस्नानार्थमित्यतः ॥३८॥तेन पुण्यप्रतापेन भवत्यश्चटकास्त्विह ।सञ्जाता अपि कृष्णस्य प्रसादोच्छिष्टभक्षिकाः ॥३९॥पवित्राः पुण्यशालिन्यो भवथैव दिवार्थिकाः ।स्मरन्तु पूर्वजन्माऽद्य स्पृष्ट्वा मां भरवाटकम् ॥४०॥श्येनात्मानं ततो यान्तु दिवं वैकुण्ठमित्यपि ।श्रीसंहिताकथां श्रुत्वा प्रपूज्य वाचकं तथा ॥४१॥साधून् सम्पूज्य दिव्यान् वै मोक्षदान् यान्तु मोक्षणम् ।इत्येवं बद्रिके जातिस्मरः श्येनो जगाद तान् ॥४२॥तेऽपि सर्वे चटकाश्च नरा नार्यस्तदा शुभाम् ।श्येनगिरं समाकर्ण्य महाश्चर्यपुरःसराः ॥४३॥सस्मरुः पूर्वजन्मानि भरवाटस्य ता अजाः ।तदा विश्वासमापन्ना नेमुः श्येनं पुरा पतिम् ॥४४॥श्येनोऽपि सत्कृतस्तैश्च समाययौ तमुत्करम् ।मिलितश्चटकेभ्यश्च चटकाभ्यश्च सादरम् ॥४५॥जातिस्मराः समस्तास्ते वृत्तान्तान् जगदुर्मिथः ।उत्सवं मेनिरे तत्र बुभुजिरे प्रसादकम् ॥४६॥अहिंसाव्रतमास्थाय न्यूषुस्तरुगणे मिथः ।उच्छिष्टं भक्षयन्तस्ते शृण्वन्तश्च कथामृतम् ॥४७॥मासं मिथोऽवसन् तावन्मृत्युस्तेषामुपाययौ ।सर्वे क्षपितकर्माणो निष्पापाश्चटकादयः ॥४८॥वैशाखकृष्णद्वादश्यां मध्याह्नोत्तरमेव ह ।प्रसादोच्छिष्टभक्षास्ते श्येनेन सहसा सह ॥४९॥त्यक्तदेहा अभवँश्च बभूवुर्देवजातयः ।सहस्रशः सुरा देव्यः सर्वाभरणभूषिताः ॥५०॥तन्नेता भरवाटोऽपि देवेश्वरो व्यजायत ।गृहीतकरमालास्ते गृहीतकुसुमास्तथा ॥५१॥संहितां ते प्रपूज्यापि व्यासं प्रपूज्य वै द्रुतम् ।धृत्वा धूलिं कथाभूमेर्जनित्वाऽऽश्चर्यमुत्तमम् ॥५२॥जयशब्दानुच्चरन्तो ययुः स्वर्गं सहस्रशः ।बद्रिके ते दिवोऽन्ते च वैकुण्ठं धाम शोभनम् ॥५३॥प्रयास्यन्ति महाभागा मुक्ता मुक्तानिकास्तदा ।तत्र नारायणं लक्ष्मीं प्रसेव्य कृपया हरेः ॥५४॥गोलोकं संप्रयास्यन्ति राधाकृष्णकृपालयाः ।तत्र प्रसाद्य राधां च कृष्णं प्रसाद्य वै ततः ॥५५॥प्रयास्यन्त्यक्षरं धाम परमं शाश्वतं सुखम् ।इत्येतत् कथितं तुभ्यं माहात्म्यं तु कथोद्भवम् ॥५६॥प्रसादस्यापि माहात्म्यं यस्य पाठाच्छ्रुतेरपि ।भुक्तिर्मुक्तिर्दिवं स्वेष्टं लभेत् कृष्णकृपालवात् ॥५७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽजापालभरवाटस्य श्येनजन्मनि, अजानां चटकाजन्मसु च, हरेः साधूनां च प्रसादोच्छिष्टभक्षणलाभेन कथालाभेन च मोक्षण-मित्यादिनिरूपणनामाऽष्टषष्टितमोऽध्यायः ॥६८॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP