संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि राजाऽऽसीत् शालमित्रकः ।क्षत्रियो धर्मनिष्ठश्च प्रजापालनतत्परः ॥१॥दानधर्मरतो नित्यं गोविप्रसाधुपूजकः ।अन्नसत्रं गृहे यस्य वस्त्रसत्रं महत्तथा ।धनसत्रं तथा यस्य कोशेऽभूद् दीनरक्षकम् ॥२॥यस्य ग्रामे दिव्यदेवालयाः सन्ति सुशोभिताः ।विप्राश्च साधवः साध्व्यो देवसेवापरायणाः ॥३॥वर्तन्ते 'यस्य नगरे राष्ट्रग्रामेषु वै तथा ।जीविकाजीवनाः सर्वे राज्ञा दत्तार्थवृत्तिकाः ॥४॥प्रतिदेवालयं क्षेत्रं सस्यानां जनकं महत् ।महती वाटिका चापि गोधनं दांसदासिकाः ॥५॥अन्नवस्त्रप्रदानं च प्रतिवर्षं पृथक् तथा ।धनदानं पृथक् चापि जीविका प्रतिमन्दिरम् ॥६॥एवं राज्ये सर्वतोऽस्य धर्मशालास्तथाऽभवन् ।वृक्षच्छायाश्च मार्गेषु तथोद्यानानि मन्दिरे ॥७॥वर्तन्ते दैवपुष्पार्थं जलकूपाः प्रतिस्थलम् ।देवपूजाप्रवाहाश्च चन्दनाक्षतकुंकुमम् ॥८॥धूपदीपसुनैवेद्यफलताम्बूलकानि च ।राजकोशात् प्रपद्यन्ते प्रतिदेवालयं सदा ॥९॥एवं पूर्वैः पूर्वतरैः पूर्वतमैः सुजीविकाः ।बद्धा देवार्हणार्थं वै सर्वथा पूर्वजीविकाः ॥१०॥अथ राजा वर्तमानः शालामित्रस्तदा स्वयम् ।भक्तो भूत्वा परीक्षार्थं पूजाकालेऽन्वहं द्रुतम् ॥११॥प्रत्येकं मन्दिरं याति यात्राक्षुर्भिक्षुको यथा ।विलोकयति बद्धां तां व्यवस्थां पूजकैः कृताम् ॥२॥पूजका नैव कुर्वन्ति पूजां पूर्वैर्यथाऽर्पिताम् ।यथाक्लृप्तां न कुर्वन्ति सेवानैवेद्यकं ह्यपि ॥१३॥आरार्त्रिकं न कुर्वन्ति क्वचित् क्वचिन्न वन्दनम् ।कुत्रचिद्धूपनं नैव कुत्रचिन्नैव दीपनम् ॥१४॥कुत्रचिच्चन्दनं नैव कुत्रचिन्नैव तूलसी ।कुत्रचिन्न महादेवे स्नानपुष्पाम्बरादिकम् ॥१५॥कुत्रचिन्न हरौ कृष्णे भूषाम्बरनिवेदनम् ।कुत्रचिन्न रवौ देव्यां पूजाशृंगारतर्पणम् ॥१६॥कुत्रचिन्न नरे नारायणे नैवेद्यकार्पणम् ।कुत्रचिन्नैव पूजाऽस्ति नीराजनं न जायते ॥१७॥पूजकेषु व्यसनानि प्रत्यक्षं स व्यलोकयत् ।नरानार्यो धर्महीना वर्तन्ते मन्दिरादिषु ॥१८॥स्नानसत्कर्महीनाश्च पूजका मलिनास्तथा ।स्वार्थमात्रपरा नैजोदरंभरा वसन्ति च ॥१९॥क्वचित्तु मन्दिरे भ्रष्टाचारा मद्यपरायणाः ।वर्तन्ते पूजकाश्चेति प्रत्यक्षं स व्यलोकयत् ॥२०॥वीक्ष्यैवं निजराज्ये वै मन्दिरेषु घृणास्थितिम् ।विचारमकरोद् राजा बुद्ध्या विवेकमिश्रया ॥२१॥मम ये पूर्वजा दत्तवन्तो दानानि जीविकाः ।धर्मार्थं देवपूजार्थं दैवकार्यार्थमन्वहम् ॥२२॥मन्दिरेषु पूजका ये पूजिका याश्च सन्ति वै ।न कुर्वन्ति यथार्थं ते पूजनं देवतार्चनम् ॥२३॥वृथा खादन्ति ते सर्वे घसाशिनो वृषोज्झिताः ।येन ध्येयेन तेभ्यो वा देवेभ्यो दत्तजीविकाः ॥२४॥तद्ध्येयं जायते नैव देवपूजा न जायते ।व्यसनानि पूजकास्ते समाचरन्ति सर्वथा ॥२५॥न तेजो विद्यते तेषामाननेषु मनागपि ।निस्तेजसो विलोक्यन्ते पूजका मन्दिरेषु वै ॥२६॥भ्रष्टाचारा भ्रष्टधर्माः कदर्या इव धूम्रिणः ।यत्र पूजाकरा भ्रष्टाचाराः स्वोदरपूर्त्तिकाः ॥२७॥व्यसनाभिभूतचित्ता देवास्तत्र वसन्ति न ।यत्र वै पूजकाः स्नानहीनाश्च मलिनान्तराः ॥२८॥मलिवस्त्रा मलिदेहा देवास्तत्र वसन्ति न ।यत्र वै पूजकाः कामिक्रोधिलोभिप्रतारिणः ॥२९॥असत्याऽनृतमिथ्याढ्या देवास्तत्र वसन्ति न ।सतृष्णाः पूजका यत्र प्रमादाऽऽलस्यसंभराः ॥३०॥निस्त्रपाः स्वाध्यायहीना देवास्तत्र वसन्ति न ।पूजकाः स्नेहहीनाश्च भक्तिसेवोज्झताः खलाः ॥३१॥देवगौरवहीनाश्च देवास्तत्र वसन्ति न ।यत्राऽर्चका व्रतहीना नास्तिक्याडम्बरान्बिताः ॥३२॥मृषावादा मृषाकार्या देवोत्सवादिवर्जिताः ।पूजाप्रकारशून्याश्च देवास्तत्र वसन्ति न ॥३३॥यत्र गन्धः सुगन्धो न धूपो दीपो न विद्यते ।यत्र नीराजनं नास्ति देवास्तत्र वसन्ति न ॥३४॥यत्र शुद्धिर्न पात्राणां जलशुद्धिर्न विद्यते ।नैवेद्यस्य न वै शुद्धिर्देवास्तत्र वसन्ति न ॥३५॥देवगृहस्य शुद्धिर्न शुद्धिः सिंहासनस्य न ।देवशय्यादिशुद्धिर्न देवास्तत्र वसन्ति न ॥३६॥मन्दिरे मार्जनं नास्ति प्रक्षालनं न वा क्वाचित् ।धूलिनिष्कासनं नास्ति देवास्तत्र वसन्ति न ॥३७॥निर्माल्यदूरता नास्ति नूत्नपुष्पार्पणं न च ।नूत्नशृंगारभूषा न देवास्तत्र वसन्ति न ॥३८॥नूत्नवेषार्पणं नास्ति नूत्नजलार्पणं न च ।नूत्नचन्दनचर्चा न देवास्तत्र वसन्ति न ॥३९॥नूतनाऽक्षतकुंकुमतुलसीफलशर्कराः ।मध्वाज्यादि नूतनं न देवास्तत्र वसन्ति न ॥४०॥यत्रोपकरणौज्ज्वल्यं वस्त्रौज्ज्वल्यं न विद्यते ।भूषौज्ज्वल्यं बिम्बौज्ज्वल्यं देवास्तत्र वसन्ति न ॥४१॥अन्धकारो यत्र शैत्यं महौष्ण्यं दुष्टवायवः ।क्लेशाः कलहा यत्स्थाने देवास्तत्र वसन्ति न ॥४२॥पूजको ब्रह्मचारी न पाचकः शुद्धिवर्जितः ।स्तावको भावशून्यश्च देवास्तत्र वसन्ति न ॥४३॥यद्देवाऽग्रे सोपानत्का मानवा यान्ति सन्निधौ ।सशस्त्रा गर्वयुक्ताश्च देवास्तत्र वसन्ति न ॥४४॥मद्यमांसाशनं यत्र दुर्गन्धिभक्षणादिकम् ।दुष्टपानादिकं यत्र देवास्तत्र वसन्ति न ॥४५॥निषिद्धाचरणं यत्र विहितत्यजनं तथा ।पूजाकालनियमो न देवास्तत्र वसन्ति न ॥४६॥देववाद्यानि पात्राणि चामरादीनि सन्ति न ।मन्त्रा यत्र न विद्यन्ते देवास्तत्र वसन्ति न ॥४७॥मानवा मन्दिरे देवगृहे स्वपन्ति यत्र च ।सहनिवासनं नित्यं देवास्तत्र वसन्ति न ॥४८॥देवानां गौरवं यत्र पाल्यते मानवैर्नहि ।पृष्ठे देवा मनुष्याणां देवास्तत्र वसन्ति न ॥४९॥श्वानश्च शूकरा यत्र गृहे भ्रमन्ति वानराः ।भ्रष्टजीवा यत्र सन्ति देवास्तत्र वसन्ति न ॥५०॥पापिनां पादसञ्चारः स्पर्शो देवस्य सर्वदा ।भ्रष्टवस्त्वर्पणं यत्र देवास्तत्र वसन्ति न ॥५१॥आदरो भावना नास्ति प्रेम स्नेहो न विद्यते ।पूजकस्यां न चाऽऽस्तिक्यं देवास्तत्र वसन्ति न ॥५२॥यद्देवाग्रे ग्राम्यवार्ता देहकार्याणि यत्पुरः ।यदग्रे चित्तमालिन्यं देवास्तत्र वसन्ति न ॥५३॥विधिहीना प्रतिष्ठा चाऽजलपुष्पं प्रपूजनम् ।स्तुतिहीनः प्रवेशश्च देवास्तत्र वसन्ति न ॥५४॥पूजकस्य तपो यत्र पूजा श्रेष्ठा प्रजायते ।आभिरूप्यं यत्र मूर्तेर्देवास्तत्र वसन्ति वै ॥५५॥साधवः पूजका यत्र ब्रह्मचर्यपरायणाः ।साध्व्यो वा दीक्षिताः शीतव्रतास्तत्र हि देवताः ॥५६॥आत्मशुद्धिर्भावशुद्धिर्द्रव्यशुद्धिः समस्तिका ।पूजाशुद्धिर्भक्तशुद्धिर्देवास्तत्र वसन्ति वै ॥५७॥विद्यमानासु सर्वासु जीविकास्वपि ये नराः ।पूजोत्सवान्न कुर्वन्ति देवास्तत्र वसन्ति न ॥५८॥अपूजा वा न्यूनपूजा भ्रष्टपूजास्तु देवताः ।रुष्टा खनन्ति वंशान् वै स्थापकस्य नृपस्य च ॥५९॥विलोक्यन्ते मया सर्वदेवालयेषु राष्ट्रके ।पूजका भ्रष्टपूजास्ते दोषं कुर्वन्त मन्दिरे ॥६०॥दोषभागो भवेऽन्यस्मिन् नृपतेः शासकस्य च ।तस्मात्ते शिक्षणीया वै राजाज्ञया मयाऽधुना ॥६१॥विचार्येत्थं नवं कृत्वा नियमं सप्रकाशकम् ।श्रावयामास सर्वत्र देवार्चनार्थमन्वहम् ॥६२॥अद्याऽऽरभ्य तु देवानां पूजनं विधिना तु ये ।सर्वथा न करिष्यन्ति राजा वृत्तिं हरिष्यति ॥६३॥इत्येवं निजराष्ट्रे वै श्रावयामास सर्वथा ।भूत्वा श्रीबद्रिके वृत्तिहानेर्भयात्तु केचन ॥६४विधिवत् पूजनं चारेभिरे भक्तियुता नराः ।ये खलाश्च शठाश्चासन् प्रमादमोहगर्विताः ॥६५॥नास्तिक्यमिथ्यावादाश्च मृषादेवादिवादिनः ।ते तु चित्तं ददुर्नैव पूजादौ परमात्मनः ॥६६॥राज्ञा निरीक्षकेनैषां वृत्तयः संहृतास्ततः ।दण्डिताः केचन दुष्टा निष्कासिताश्च केचन ।६७॥उत्थापिता भग्नबिम्बा अपहृताश्च जीविकाः ।जीर्णदेवालयास्तेन नीता वै शून्यतां तदा ॥६८।एवं कृतवता साङ्गा वृत्तिहर्तृत्वपातकम् ।पूजकानां कुटुम्बानां निःश्वासाः शपथानि च६९॥उत्पादितानि भागेन भागेन पुण्यमर्जितम् ।शापस्तु सहसा हन्ति पुण्यं चिरेण रक्षति ॥७०॥जीविकाहरणे पापं जायते सर्वनाशकम् ।जीर्णस्य जीविका नैव हर्तव्या वै कदाचन ॥७१॥जीर्णोद्धारः प्रकर्तव्यः कर्तव्या रिक्तता न तु ।शून्यतायाः फलं शून्यं कर्तुस्तत्र प्रजायते ॥७२॥बद्रिके तस्य भूपस्य जीविकाहरणस्य वै ।पापं शापस्य चायातं तूर्णं दुःखप्रदं तदा ॥७३॥राजा रोगेण संव्याप्तो जलोदरेण सर्वथा ।अजीर्णेन च रोगेण ह्यतिसारेण वै रुजा ॥७४॥अभिभूतोऽभवन्मन्दाग्निना जाठरवर्तिना ।भोजनं नाऽस्य पचति वमनं वै प्रजायते ॥७५॥जलोदरं वर्धते च रक्तं जले विवर्त्तते ।शुष्कायन्तेऽस्य मांसानि रक्तोत्सर्गो भवत्यपि ॥७६॥उदरं गर्भिणीतुल्यं गलितौ पादहस्तकौ ।पिंगताऽस्याऽभवद्देहे शक्तिहासोऽभवत्तथा ॥७७॥अपाचनं महारोगो बद्रिके मरणान्तकः ।शालमित्रो भूपतिस्तु श्रेष्ठौषधान्यकारयत् ॥७८॥तथापि दैवरोषेण शापेनाऽऽप्ता हि रुग्णता ।मनागपि न नष्टा सा वृद्धिं गता दिने दिने ॥७९॥जीविकाहरणं सर्वपापाधिकं हि पातकम् ।अत्रैव भुज्यते बद्रि हर्तव्या नैव जीविका ॥८०॥राज्ञः पत्नी जयालक्ष्मीर्नाम्ना सापि तथा रुजा ।रक्तस्राववती नित्यं जाता च दुर्बला सती ॥८१॥राजा शोकं समापन्नश्चौषधं न गुणायते ।शुश्राव संहितावार्ताचमत्कारं तदा क्षणे ॥८२॥जना ये तीर्थयात्रार्थं यान्ति वै शर्करापुरम् ।संहितायाश्चमत्कारं वर्णयन्ति तु ते कथाम् ॥८३॥पापिनां मोक्षणं चापि साक्षाच्च दर्शनं हरेः ।शुश्राव वर्णितं सर्वं जनैर्माहात्म्यमुत्तमम् ॥८४॥तूर्णं सज्जोऽभवद् गन्तुं संहिताश्रवणाय सः ।परिमेयाऽनुगो राज्ञ्या समं श्रोतुं कथां ययौ ॥८५॥बहुभिर्दक्षिणाभिश्चोपदाभिर्वाचकं मुनिम् ।पूजयामास नृपतिर्गत्वा कथास्थलं द्रुतम् ॥८६॥आशीर्वादान् समगृह्य राज्ञ्या समं च लोमशम् ।पुपूज भावतो राजा लोमशो वीक्ष्य दुर्बलम् ॥८७॥नीरुग्णो भव नृपते नीरुग्णा पत्निका तव ।पापशून्यावुभौ भूत्वा यातं कार्ष्णं परं पदम् ॥८८॥असारः खलु संसारः सारस्तस्मात्तु मोक्षणम् ।जीवनं सर्वथा पापं पुण्यं संसारमोक्षणम् ॥८९॥एवमाशीर्वचनैस्तौ द्रुतं दुरितवर्जितौ ।सञ्जातौ तद्वर्ष्मणोश्च रोगौ तत्रैव निर्गतौ ॥९०॥मूर्तिमन्तौ जगदतुर्जीविकाहरणोत्थितौ ।आवां रोगौ चातिसारौ प्राणहरौ द्वयोरपि ॥९१॥स्वस्ततोऽद्य युवयोरायुष्यं शेषं न विद्यते ।लोमशस्य संहिताया वाचकस्य हरेर्बलात् ॥९२॥निर्गतौ युवयोर्देहाभ्यां तथापि मृतिध्रुवा ।ततो दानानि सर्वाणि दत्वा लब्ध्वा मनुं हरेः ॥९३॥भक्तिं कृत्वा यातमेवाऽक्षरं पदं प्रभोर्हरेः ।इत्युक्त्वा ययतू रोगौ राजा राज्ञी द्रुतं तदा ॥९४॥राज्यार्पणं कुमारे च कृत्वा पत्रेण वै तदा ।दत्वा दानानि सर्वाणि प्रदत्वा जीविका पुनः ॥९५॥नैर्ऋण्यं सर्वथा कृत्वा प्राप्य मन्त्रं तु लोमशात् ।भक्तिं कृत्वा मासमात्रमुषित्वा तौ कथान्तिके ॥९६॥शोधयित्वा निजात्मानौ साधून् संसेव्य भावतः ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥९७॥ 'प्रभोनारायण श्रीशवेदीनारायण प्रभो ।अनादिश्रीकृष्णनारायण श्रीकान्त सद्विभो ॥९८॥एवं मन्त्रं च भजनं चक्रतुर्भृत्यसंघिनौ ।एकाग्रमानसौ भूत्वा क्षपयित्वा तु वासनाः ॥९९॥हरेः प्रासादिकं जग्ध्वा पावयित्वा समस्तकम् ।सज्जौ बभूवतुर्गन्तुं मोक्षे धामाऽक्षरं हरेः ॥१००॥फाल्गुनस्याऽसिते पक्षे त्वेकादश्यां कथोत्तरम् ।प्रगे दिव्यं विमानं वै सौवर्णं परमात्मनः ॥१०१॥व्योम्नश्चावातरत् तत्र सर्वेषां पश्यतां शुभम् ।बद्रिके श्रीकृष्णनारायणस्तस्माद्विनिर्ययौ ॥१०२॥पस्पर्श तौ पाणिना च विमुच्य देहतः पृथक् ।दिव्यमुक्तौ दिव्यदेहौ विधाय सहसा प्रभुः ॥१०३॥निधाय स्वविमाने तौ ययौ धामाऽक्षरं निजम् ।एवं तौ वृत्तिहर्तारौ तथापि पुण्यकारिणौ ॥१०४॥देवार्थं कृतसर्वस्वौ पावयित्वा प्रभुः पुनः ।श्रावयित्वा कथां नैजां निन्ये मोक्षदं निजम् ॥१०५॥बद्रिके जयकारोऽभूत्तदा सर्वत्र भूतले ।राजा राज्ञी गतौ मोक्षं संहितायाः कथाबलात् ॥१०६॥कथां श्रोतुं समायान्ति समन्ततोऽयुताऽयुतम् ।मनुष्याः कृष्णचित्तास्ते लभन्ते स्वेष्टमुत्तमम् ॥१०७॥पठनाच्छ्रवणादस्य स्मरणादपि बद्रिके ।भुक्तिर्मुक्तिश्चेष्टसिद्धिः स्वर्गं दीर्घं च लभ्यते ॥१०८॥वासनानां क्षयश्चापि शुद्धिर्निजात्मनस्तथा ।धाम्न्यक्षरे गतिः स्थानं शाश्वतं सुखमाप्यते ॥१०९॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शालमित्रनृपतेर्देवजीविकाऽपहरणेन तद्राज्ञ्याश्च महातिसाररुग्णताऽऽयुर्नाशश्चेति वेदनोत्तरं संहिताकथाश्रवणार्थं गतयोस्तत्र मुक्तिरित्यादिनिरूपणनामा त्रिपञ्चाशत्तमोऽध्यायः ॥५३॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP