संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४९ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४९ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४९ Translation - भाषांतर श्रीनरनारायण उवाचशृणु बद्रीप्रिये देवि चक्रिण्याः शोभनां कथाम् ।आसीत् कालान्तके राष्ट्रे गण्डवाताभिधा सती ॥१॥भार्या सा यास्कवादस्य चक्रिणो यन्त्रकारिणः ।पुत्रपुत्रीयुता चापि कुटुम्बिनी सुविश्रुता ॥२॥यस्या गृहे लोहयन्त्राण्युत्पद्यन्ते सहस्रशः ।इक्षुपेषणयन्त्राणि तिलपेषणकानि च ॥३॥बीजपेषणयन्त्राणि रसोत्पादनकान्यपि ।एवंविधानि लौहानि धातुजानि भवन्ति च ॥४॥कलाभिर्धातुरसजान्यपि प्रढालकानि च ।यंत्राणां विक्रयं सा तु करोति नित्यमेव ह ॥५॥क्रयं करोति बीजानां तैलार्थं सर्वतस्तथा ।निजगृहेऽपि यन्त्राणि चलन्ति विंशतिस्तदा ॥६॥भ्रमन्ति तैलपेषाणि चेक्षुपेषाणि विंशतिः ।चक्राणां विक्रयं नित्यं भग्नानां योजनं पुनः ॥७॥सन्धानं खण्डितानां च कारयत्यपि सा सती ।यस्या वशे कर्मचाराः सहस्रशो भवन्ति वै ॥८॥सहस्रशः कर्मचारिण्योऽपि कुर्वन्ति तत्क्रियाः ।प्रवर्तन्ते तु यन्त्राणि महिषोष्ट्रखरादिभिः ॥९॥नाणकानि प्रलभ्यन्ते सहस्राणि दशाऽन्वहम् ।एवंविधा महाराज्ञी यथा तथा तु सा सती ॥१०॥द्रव्याढ्या मानवाढ्या च सत्ताढ्या पशुपालिनी ।चक्रिणी सा दीर्घराष्ट्रे प्रसिद्धाऽऽसीत् कलावती ॥११॥बद्रिके सा प्रशुश्राव माहात्म्यं जनवर्णितम् ।संहितायाः कथाजन्यं प्रतापं मोक्षदं परम् ॥१२।सा जानाति महाचक्रपेषणैः पापसञ्चयम् ।बीजादौ जीवजन्तूनां पेषणादिसमुद्भवम् ॥१३॥सूनानां च फलं याम्यपुर्यां कष्टप्रभोगिताम् ।नारकीं च गतिं निम्नां जानात्येवातिकष्टदाम् ॥१४॥तत्पापानां प्रशान्त्यर्थं जिज्ञासाप्रेरिता तु सा ।कथाश्रवणे श्रद्धाढ्या कृतबुद्धिर्व्यजायत ॥१५॥प्राह स्वस्वामिनं साध्वी पारायणं प्रजायते ।शर्करानगरे स्वामिन् सर्वपापप्रणाशनम् ॥१६॥चमत्काराश्च बहवः श्रूयन्ते पापनाशकाः ।मोक्षदो भगवाँस्तत्र दृश्यते कृपयाऽधुना ॥१७॥वयं तु पापिनो नित्यं चक्रिणः चक्रपेषणाः ।पापिनां न गतिः श्रेष्ठा नारकी गतिरीरिता ॥१८॥राज्यं राष्ट्रं समस्तं वा यद्गृहे वर्तते ह्यपि ।देहान्ते निरये वासश्चेत् सर्वं तन्निरर्थकम् ॥१९॥धनं चाक्षयकोशात्म दासा दास्योऽयुतान्यपि ।देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ॥२०॥वाटीक्षेत्राणि चारामा उद्यानानि गृहाण्यपि ।देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ॥२१॥प्रासादाः स्वर्णकलशा ध्वजारोपसुशोभनाः ।सम्पदः क्षयहीनाश्चाऽसंख्याता अपि सर्वथा ॥२२॥देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ।महिषीगोगजवाजिक्रमेलककरेणुकाः ॥२३॥हंसगरुडमेनाद्याः शुकसारसचातकाः ।देहान्ते नरके वासश्चेत्तत्सर्वं निरर्थकम् ॥२४॥पत्न्यो बह्व्यस्तथा पुत्राः पुत्र्यो वंशे च पौत्रकाः ।स्वसारो भ्रातरो वृद्धा बान्धवा मातरः स्त्रियः ॥२५॥पतयो दासवर्गाश्च दास्यश्चापि सहस्रशः ।अप्यन्ते नरके वासस्तदा सर्वं निरर्थकम् ॥२६॥व्यापारा बहवँश्चापि शकटीनां सहस्रकम् ।यन्त्राणामयुतं चापि वाहनानां सहस्रकम् ॥२७॥आनन्त्यं चापि भोगानां कीर्तीनामुत्सवास्तथा ।विद्यन्तेऽपि च देहान्ते नारकी चेन्निरर्थकाः ॥२८॥तस्मात् स्वामिन्नात्मकल्याणार्थं विचिन्तयाम्यहम् ।पापानां नाशनं दानैः सतां सेवादिभिस्तथा ॥२९॥कथानां श्रवणैः स्याच्च पुण्योदयो भवेदपि ।नैषा स्मृद्धिः पुण्यदाऽस्ति हिंसात्मिका तु चक्रिणी ॥३०॥सा स्मृद्धिः पुण्यकार्यार्थं योजनीयेति मे मतिः ।लक्षाधिकं नाणकं वै लब्ध्वा यामः कथास्थलीम् ॥३१॥श्रोष्यामः सत्कथां नित्यं दास्यामो नाणकादिकम् ।करिष्यामश्चात्मशुद्धिं लप्स्यामश्चात्मनो हितम् ॥३२॥द्रक्ष्यामः श्रीपतिं कृष्णं प्राप्स्यामः परमं पदम् ।प्रधानस्याऽग्र्यभृत्यस्य कृत्वाऽऽत्मसात् समस्तकम् ॥३३॥असंख्यं वा धनं नीत्वा गच्छामो वै कथास्थलीम् ।जीवने निश्चयो नास्ति नेदं सहाऽऽगमिष्यति ॥३४॥धर्मकर्म महादानं सतां प्रसन्नता व्रतम् ।कृष्णभक्तिः कथापुण्यं परलोके सहायदाः ॥३५॥तत्कृत्वाऽक्षयपुण्यात्मधनं समर्ज्य सर्वथा ।मोक्षमार्गे गमिष्यामो मा वृथाक्लेशमावह ॥३६॥इत्युक्तः स्वपतिर्नार्या मुमुक्षुश्चात्मवानपि ।सम्मतिं प्रददौ तस्यै यात्रार्थं मुक्तिहेतवे ॥३७॥प्रसन्ना गण्डवाता सा सज्जाऽभवत्ततो द्रुतम् ।शतपुत्रसुतायुक्ता शतदासीसमन्विता ॥३८॥शतदासैर्युता पौत्रैद्विशताम्यां समन्विता ।स्नुषाभिः सहिता बालैर्बालिकाभिर्युता तथा ॥३९॥वृद्धाभिः सहिता रक्षाकृद्भिश्च सद्भटैर्युता ।द्वेशते शकटानां च वाजिनां द्वेशते तथा ॥४०॥उष्ट्राणां विंशतिं चापि वृषभाणां शतं तथा ।भारवाहार्थमेवैषा पयोदानां गवां शतम् ॥४१॥भोजनानामपारं च वस्त्राणां चाप्यनन्तकम् ।पात्राणामप्यसंख्यत्वं नीत्वा सज्जाऽभवत्तदा ॥४२॥यास्कवादोऽपि मुदितो यात्रार्थं मोक्षहेतवे ।सज्जो बभूव नृपवत् कोटिस्वर्णसमन्वितः ॥४३॥सर्वोपस्करणैर्युक्तः श्रेष्ठविमानमास्थितः ।पत्न्या साकं विमानेन नत्वा गणेशमीश्वरम् ॥४४॥व्योम्ना तु शर्कराभूमिं ययौ कुटुम्बिभिः सह ।सार्थवाहाश्च भृत्याश्च गोधनं सम्पदोऽपि च ॥४५॥भूमार्गेण समायातं सायं तु शर्करापुरम् ।तत्रोद्याने सिन्धुतटे नैजे व्यापारयोगिनि ॥४६॥उवास सर्वसम्पन्नो यास्कवादः कुटुम्बिभिः ।व्यवस्थाप्य समस्तं स्वं सैन्यं स्नात्वा ततश्च सः ॥४७॥पत्न्या युतो ययौ श्रीमल्लोमशं द्रष्टुमुत्सुकः ।गत्वा नेमे पुपूजापि हार्दं न्यवेदयत्तथा ॥४८॥लोमशोऽपि शुभाशीर्भिः प्रोत्साहं प्रददौ तदा ।ददौ कृष्णामृतवारि प्रसादं प्रददौ तथा ॥४९॥संहितायाः स्थलं नीत्वा कारयामास दर्शनम् ।चक्री व्यासासनं व्यासं पूजयामास सद्धनैः ॥५०॥बहुभिश्चोपचारैश्च व्रतं जग्राह तत्र च ।सभार्यो नित्यमेवाऽन्नं ग्रहीष्याम्येकभक्तकम् ॥५१॥साधुसेवां करिष्यामि कथाश्रवणमन्वहम् ।नित्यं सतां भोजनानि दास्ये यथेष्टकान्यपि ॥५२॥नित्यं सुवर्णदानानि वस्त्रदानानि नित्यशः ।नित्यं प्रसादवार्यादिपानं च नेतरद्ग्रहम् ॥५३॥स्वतःप्रकाशव्यासस्य पयःपानादि सर्वथा ।मत्सकाशाद्भवेच्चेति जग्राह नियमान् स तु ॥५४॥नित्यं मालाशतावर्त्तप्रदक्षिणशतादिकम् ।दण्डवन्मन्त्रजपनं सहस्रवारमुत्तमम् ॥५५॥एवंविधाँस्तु नियमान् तेभ्यो ददौ हि लोमशः ।ददौ मन्त्रं च मालाश्च नाम जपार्थमार्पयत् ॥५६॥'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'कृष्णनारायणस्वामिप्रभोनारायणेश्वर ॥५७॥अनादिश्रीकृष्णनारायणश्रीमाधवीश्वर ।एवं दत्वा नियमाँश्च लोमशः स्वाश्रमं ययौ ॥५८॥यास्कवादादयः सर्वे निवासं स्वं ययुस्ततः ।यथानियममेवैते वर्तन्ते स्म सुखस्थिताः ॥५९॥कथायाः श्रवणं नित्यं प्रकुर्वन्ति समुत्सुकाः ।साधूनां सेवनं सर्वे प्रकुर्वन्ति कृतादराः ॥६० ।निःसंशया देहसेवां साक्षात् कुर्वन्ति वै सताम् ।एवंविधानां सहसा ध्वस्तान्यघानि चक्रिणाम् ॥६१।नरा नार्यः समस्तास्ते निष्पापा ह्यभवन् द्रुतम् ।अन्तःकपाटं निर्भिन्नं ज्ञानवन्तोऽभवन् द्रुतम् ॥६२।यास्कवादो भोजनानि साधुभ्यश्चान्वहं ददौ ।वस्त्रदानानि बहूनि फलदानानि सन्ददौ ॥६३॥इष्टदानानि सर्वाणि गोदानानि ददौ तथा ।दुग्धदधिघृतदानं हव्यदानानि सन्ददौ ॥६४॥कम्बलानां प्रदानानि पत्रदानानि वै ददौ ।शृंगारवस्तुदानानि पूजायां मूर्तये ददौ ॥६५॥यानवाहनदानि छत्रचामरदानकम् ।उपानदुष्णीषवर्मदानं भूषार्पणं व्यधात् ॥६६॥शय्यादानं चान्नदानं धान्यदानं ददौ तथा ।स्वर्णरूप्यकमुद्रादिदानं रत्नार्पणं व्यधात् ॥६७॥वाचकाय ददौ वेषाम्बराणि कानकं घटम् ।विभूषणानि सर्वाणि स्वर्णाम्बराणि वै तथा ॥६८॥अथ भार्या गण्डवाता प्रसन्नमानसा तदा ।विप्राणीभ्यो ददौ स्वर्णं रूप्यकं भूषणानि च ॥६९॥मौक्तिकानि सुरत्नानि हीरकान् शाटिका ददौ ।कुर्चध्रीं च कुचध्रीं च कचलों चोलिकां ददौ ॥७०॥सुरवालीं घर्घरीं च कुचलीं कम्बलीं ददौ ।रशनां वालपाशीं च ललाटिकां च कर्णिकाम् ॥७१॥ऊर्मिकांऽगुलीयकानि कंकणवलयान् ददौ ।कण्ठिकां चांगदे स्वर्णमालाश्च मुद्गमालिकाः ॥७२॥नरो बिन्द्वीं कुण्डले च सौवर्णीः शृंखला ददौ ।वातगण्डा ददौवेव मिष्टान्नापि जलान्यपि ॥७३॥कुंकुमाऽक्षतपुष्पाणि शृंगाराणि ददौ तथा ।तस्याः पुत्राश्च पुत्र्यश्च गोदानानि प्रचक्रिरे ॥७४॥वाजिदानोष्ट्रदानानि वृषदानानि वै तदा ।चक्रुस्तत्र सुपात्रेषु महादानानि वै तदा ॥७५॥अनसामपि दानानि सौधदानानि भावतः ।तुलसीवृक्षदानानि हव्यदानानि सन्दधुः ॥७६॥संहितापुस्तकदानं सर्वदानानि सन्दधुः ।सर्वास्तत्र सह नीताः सम्पदो जडचेतनाः ॥७७॥ददुर्दाने हरेर्भक्त्या विदित्वाऽवसरं शुभम् ।यानवाहनदानानि दासीदासप्रदानकम् ॥७८॥प्रचक्रिरे यथायोग्यं मोक्षार्थं कृष्णमानसाः ।गते पक्षे समये तु कथाज्ञानपरिप्लुताः ॥७९॥दिव्यभावा व्यजायन्त सर्वे ते चक्रिणस्तदा ।दासा दास्यो भृत्यवर्गा बान्धवाश्च कुटुम्बिनः ॥८०॥आबालवृद्धाः श्रीकृष्णनारायणस्य दर्शनम् ।आतुराः कर्तुमेवाऽऽसन् मोक्षमार्गपरायणाः ॥८१॥माघैकादशिकासायं कृष्णपक्षेऽर्हणोत्तरम् ।आरार्त्रिकं विनिष्पाद्य यावत् कीर्तनकोविदाः ॥८२॥कुर्वन्ति कीर्तनं तावत् कृष्णनारायणप्रभुः ।भासयँस्तेजसा व्योम दिशाश्चावातरद् भुवि ॥८३॥कानकेन विमानेन प्रियालक्ष्मीयुतो हरिः ।विमानाद् बहिरागत्य दर्शनं स्वं ददौ तदा ॥८४॥आश्चर्यं परमं प्राप्ताः श्रोतारो लक्षशो जनाः ।नरा नार्यः क्षणं स्तब्धास्तेभ्योऽभिभवदृष्टयः ॥८५॥अभवँश्च ततः कृष्णं संहृतातिप्रभं शुभम् ।अपश्यँस्ते मुहुः रम्यं सुन्दरं गोपिकापतिम् ॥८६॥गण्डवाताऽभवन्मुग्धा श्रीकृष्णे माधवीपतौ ।तत्पुत्र्यश्चाभवन् मुग्धाश्चातीव परमात्मनि ॥८७॥त्यक्तभाना अभवँस्ताः कृष्णाकृष्टात्मवृत्तयः ।श्रीकृष्णाय निजदानं तदैव समचिन्तयन् ॥८८॥दास्यश्च कन्यकाश्चापि या युवत्योऽभवँस्तदा ।सर्वा मुग्धा निजदानं तदा नारायणे व्यधुः ॥८९॥एवं नराश्च ये भृत्याः पुत्रा दासाश्च कर्मिणः ।कृष्णाऽऽकृष्टात्मदेहास्ते मोक्षणं वव्रिरे हरेः ॥९०॥ज्ञात्वा तेषामभिप्रायं श्रीकृष्णपरमेश्वरः ।तूर्णं विधाय दिव्याँस्तान् समस्तान् दिव्यविग्रहान् ॥९१॥धृत्वा नैजे विमाने तु कृत्वा मुक्तान् सुरूपिणः ।विवृत्तदेहान् पुरुषान् नारीर्मुक्तानिकास्तथा ॥९२॥कृत्वा शेषानवस्थाप्य बालवर्गान् कुटुम्बिनः ।पोषकान् रक्षकाँश्चापि युगलान् वरयोषितः ॥९३॥अवस्थाप्य क्षितौ तत्र तेभ्यो दत्वा शुभाशिषः ।नेतुं योग्यान्नरान्नारीर्निन्ये धामाऽक्षरं निजम् ॥९४॥सहस्रशो नरानार्यस्तदा तद्देहधारिणः ।दिव्यदेहाः प्रभूत्वैव ययुर्धामाऽक्षरं हरेः ॥९५॥अहो वै चक्रिणां भाग्यं बद्रिके नरयोषिताम् ।सर्वस्वार्पणकर्तॄणां येषां नेता नरायणः ॥९६॥अहो कालस्य कवला अपि देहा हि भौतिकाः ।कृष्णेच्छया विना पातं दिव्या भूत्वा ययुः सह ॥९७॥अन्यथाकर्तृसामर्थ्यं त्वेतद्वै परमात्मनः ।जडं तु चेतनं कृत्वा क्रीडत्येव च तैः सह ॥१८॥शेषाः सहस्रशश्चापि नरा नार्यस्तदा तु ये ।कथां श्रुत्वा विनिष्पाद्या दर्शनादभवँस्तथा ॥९९॥गण्डवाताकुटुम्बं तद् यास्कवादस्य वंशिन ।वैष्णवास्ते तु मासान्ते ययुर्नैजं गृहं ततः ॥१००॥स्वदेशे तन्महाश्चर्यं जगदुः सर्वतः शुभम् ।मुक्तिं प्राप्ताश्चक्रधारा वृद्धा मध्याश्च भावुकाः ॥१०१॥अन्ये तथैव भजनं बद्रिके स्वालये व्यधुः ।एवं महाँश्चमत्कारस्तदा ख्यातोऽभवद् भुवि ॥१०२॥पठनाच्छ्रवणादस्य स्मरणात्पापनाशनम् ।भुक्तिर्मुक्तिर्भवेच्चापि सर्वेच्छापूरणं भवेत् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कथाश्रवणेन चक्रिणो यास्कवादस्य तत्पत्न्या गण्डवा- तायाश्च कथाश्रवणेन सहस्राधिनरनारीभिःसहितायाः श्रीकृष्णनारायणेन मोक्षणं कृतमित्यादिनिरूपणनामा नवाधिक चत्वारिंशोऽध्यायः ॥४९॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP