संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०१ Translation - भाषांतर श्रीनरनारायण उवाच-ततः श्रीभगवान् बद्रि ज्ञात्वा भावान् स्वयोषिताम् ।रञ्जयँस्तास्तदा प्राह सर्वकामार्थकृद्वचः ॥१॥यथेष्टं वः प्रदास्यामि युगलं युगलानि वा ।पुत्रीसमूहमात्रं वा पुत्रसमूहमात्रकम् ॥२॥पुत्रपुत्र्युभयं चापि न्यूनपुत्र्यधिकात्मजम् ।न्यूनपुत्राऽधिकपुत्रीं बह्वपत्यानि वाऽर्पये ॥३॥यासां यस्या यथा यादृङमनो वा तृप्तिमर्जयेत् ।तथा तावदपत्यानि दास्ये सर्वाभ्य एव ह ॥४॥सृष्टिः संकल्पजा श्रेष्ठा धामेश्वरादिलोकगा ।सूष्टिर्दर्शनजा चान्या देवपित्रादिलोकगा ॥५॥सृष्टिः स्पार्शनजन्या तु तापसानां च योगिनाम् ।सृष्टिर्मैथुनजा लोके मनुष्यपशुपक्षिणाम् ॥६॥सत्ये सकल्पजा सृष्टिस्त्रेतायां दर्शनोद्भवा ।द्वापरे स्पर्शमात्रोत्था कलौ मिथुनकर्मजा ॥७॥गर्भे बीजप्रदानोत्था सूतकादिमयी हि सा ।सृष्टिस्तु मलिना सैषा नेदानीं वर्तते भुवि ॥८॥स्पर्शमात्रोद्भवा चापि गर्भाधानात्मिका हि सा ।सापि तद्वत्सु मलिना न श्रेष्ठा सूतकान्विता ॥९॥सृष्टिर्दर्शनजा चापि नारीगर्भोद्भवा हि सा ।पत्नी पत्युर्वीक्षणेन सगर्भा जायते यतः ॥१०॥सूतेऽपि च ततो गर्भजन्या सापि न चोत्तमा ।तस्मात् पत्न्यो भवत्यो वै यदि वाञ्छथ मानसीम् ॥११॥संकल्पजां प्रजां दिव्यां मालिन्यसूतकोज्झिताम् ।ददामि प्रत्येकपत्न्यै युगलानि शुभानि वै ॥१२॥कन्या मातृसमाकाराः पुत्रान् मद्रूपरूपिगः ।यथेष्टं प्रददाम्यत्र प्रब्रुवन्तु यदर्थितम् ॥१३॥अयोनिजानां बालानां संकल्पोत्थसुदेहिनाम् ।पितृसंकल्पवत्तेषामवस्था जायते क्षणात् ॥१४॥जातमात्रा युवानश्च किशोरा जरठाश्च वा ।यथेच्छन्ति पितरश्च तथा भवन्ति वै द्रुतम् ॥१५॥जातकर्मादिसंस्काराश्चोपवीतादयस्तथा ।वेदाध्ययनयत्नाश्च ब्रह्मचर्यव्रतादिकम् ॥१६॥सर्वे तेषां स्वपितॄणां संकल्पोत्थं क्षणार्जितम् ।जायते एव तत्राऽस्ति बलं पितृकृतं परम् ॥१७॥न गर्भसूतकं तेषां न संस्कारसमाऽऽगमः ।न कालाऽपेक्षणं तेषां प्राकट्यं दिव्यमेव यत् ॥१८॥संकल्पोत्थाः प्रजा ईशेश्वर्यो भवन्ति सर्वदा ।स्वभावसिद्धयः सर्वा जरामरणवर्जिताः ॥१९॥तत्त्वपराभवशून्याः शाश्वताऽऽनन्दसंभृताः ।विष्णुतुल्याः प्रजाः सर्वा जायन्ते मानसोद्भवाः ॥२०॥परब्रह्मस्वरूपेण मया कृष्णस्तु मानसः ।गोपीपतिः कृतो दिव्यो गोलोकाधिपतिः पुरा ॥२१॥परब्रह्मस्वरूपेण मया व्यूहेश्वरस्तथा ।वासुदेवो मानसश्च कृतोऽमृताऽधिपः प्रभुः ॥२२॥परब्रह्मस्वरूपेण मया नारायणः पुरा ।कृतो वैकुण्ठनाथश्च लक्ष्मीपतिर्हि मानसः ॥२३॥परब्रह्मस्वरूपेण महाविष्णुः पुरा मया ।कृतः श्रीधामनाथश्च महालक्ष्मीपतिर्हृदा ॥२४॥परब्रह्मस्वरूपेण मयाऽव्याकृतपालकः ।भूमा कृतो न्यायदाता मानसश्चेश्वराधिपः ॥२५॥परब्रह्मस्वरूपेण मया वै मानसाः सुताः ।अवतारा असंख्याता धृता हर्यादयः पुरा ॥२६॥परब्रह्मस्वरूपेण मया मन्मूर्तिशक्तयः ।राधारमाद्या वामांगरूपा धृता निजप्रियाः ॥२७॥मानस्यस्ताः समस्ता वै माणिकीकमलादिकाः ।ब्रह्मप्रिया यूयमत्र हरिप्रियाश्च मे स्त्रियः ॥२८॥असंख्यातास्तथा मुक्तानिका मन्मानसोद्भवाः ।महाकालो महामाया विद्या मन्मानसोद्भवाः ॥२९॥मुक्ता मे मानसोद्भूताकाराः सन्त्यपि धामनि ।एषा ये मानसी सृष्टिरगर्भोत्थोत्तमोत्तमा ॥३०॥योनिकोशोज्झिता पाकरहिता सा ह्ययोनिजा ।दिव्यसच्चित्सुखपूर्णा सर्वा मत्सदृशी मता ॥३१॥तादृशीं सुप्रजां पत्न्यो यदि वाञ्च्छथ तां ददे ।प्रब्रुवन्तु द्रुतं चात्र ददामि तत्र मा चिरम् ॥३२॥कृतं पयोव्रतं वर्षमदित्या वामनाप्तये ।नात्र पयोव्रतापेक्षा सर्वसिद्धिप्रदे मयि ॥३३॥इत्युक्ता बद्रिके पत्न्यो वव्रिरे मानसीः प्रजाः ।समानन्याययोगिन्यः प्रत्येकं युगलं शुभम् ॥३४॥एकां पुत्रीमेकपुत्रं युगपद् ऋणमुक्तये ।वन्ध्यात्वादिनिवारार्थं नाधिकं न्यूनमेव न ॥३५॥अनादिश्रीकृष्णनारायणः प्राह तथास्त्विति ।वनेष्वेवाऽभवन् पत्न्यस्तूर्णं युगलशोभिताः ॥३६॥पुत्रीपुत्रान्विताः सर्वा मातापितृपदास्पदाः ।प्रत्येकस्याः पुरस्तत्र प्रज्ञाकृष्णेच्छया द्रुतम् ॥३७॥अपत्यं युगलं जातं युवावस्थं विभूषितम् ।सूर्याऽयुतादिभाव्याप्तं हारमुकुटशोभितम् ॥३८॥मातापितृगुणरूपैश्वर्याकृत्यादिराजितम् ।कृतविद्यं कृतसर्वशृंगारं सहसंस्कृतम् ॥३९॥कोट्यर्बुदाब्जपत्नीनां युगपद् युगलानि वै ।कोट्यर्बुदाब्जपत्नीनां सरूपाणि शुभानि च ॥४०॥कोट्यर्बुदाब्जसंख्यानि प्राविरासन् वनान्तरे ।बद्रिके ध्यानयोगा ये सुरा गान्धर्वकोटयः ॥४१॥अप्सरसः किन्नराद्या ज्ञात्वा कृष्णचमत्कृतिम् ।दिव्यदृष्ट्या द्रुतं तत्राऽऽपेतुरम्बरमार्गतः ॥४२॥पुष्पवृष्टिं चान्दनीं च वृष्टिं व्यधुस्तथाऽऽक्षतीम् ।दध्यंकुरादिवृष्टिं च जयनादान् प्रचक्रिरे ॥४३॥दिव्यवाद्यानि चादायाऽऽगत्वा वादनयोगिनः ।वादयन्ति स्म वाद्यानि महोत्साहसमन्विताः ॥४४॥गान्धर्वा गायनं चक्रुर्नर्तक्यो नर्तनं व्यधुः ।मंगलानि व्यधुर्नार्यस्तुष्टुवुर्जगदीश्वराः ॥४५॥मुक्तानिकाः सामगीतीर्जगुः प्रमोदसंभृताः ।आशिषः प्रददुः सिद्धाः साधवश्च महर्षयः ॥४६॥वनदेव्यो मंगलानि जगुश्चानर्चुरादरात् ।इत्येवं बद्रिके तत्राऽपत्यजन्ममहोत्सवाः ॥४७॥अभवन् बहुधाऽरण्ये वने ग्रामे गृहे गृहे ।आययुः श्रीहरिणा ताः सापत्याः कृष्णयोषितः ॥४८॥स्वस्वापत्ययुतास्तूर्णं स्वस्वप्रासादकेषु वै ।अश्वपट्टसरोवारिजलैः कृष्णोऽभिषेचनम् ॥४९॥तन्निमित्तं महाहर्षभरं चकार तत्र ह ।जातसंस्कारमेवापि लोमशो वै समाचरत् ॥५०॥प्रियःकृष्णो ददौ तत्र दानानि कानकानि च ।मणिरत्नराजतानि धनाऽन्नाऽम्बरकाण्यपि ॥५१॥गृहगोऽश्वविभूषाश्च भूपात्रोपस्कराणि च ।विप्रेभ्यो यतिसाधुभ्यो दीनानाथेभ्य इत्यपि ॥५२॥योषिद्भ्यो बालबालाभ्यो ददौ दानानि वै तदा ।भोजनानि सुमृष्टानि भिक्षुकेभ्यो ददौ तदा ॥५३॥प्रजाः पुत्रादिवीक्षार्थं चाययुः कृष्णमन्दिरम् ।वीक्ष्य वीक्ष्य हरेः पुत्रान् पुत्रीर्युगलरूपिणः ॥५४॥प्रमोदं मोदमासाद्याशीर्वादान् प्रददुश्च ते ।जन्मोत्सवोत्तरं तूर्णं सद्यःसंस्कारयोग्यताम् ॥५५॥वीक्ष्य श्रीलोमशस्तेषां युगलानां तदैव हि ।कर्मप्रवाहसिद्ध्यर्थं संस्कारान् स व्यधात् परान् ॥५६॥हवनानि व्यधात्तत्तन्निमित्तानि च लोमशः ।श्राद्धकर्माणि सर्वाणि दानानि भोजनानि च ॥५७॥नामकरणसंस्कारं चकार लोमशो मुनिः ।दिव्यनामानि सर्वाणि पुराणानि व्यनिश्चयत् ॥५८॥ तत्राऽष्टकृष्णपत्नीनां मुख्यानां पुत्रपुत्रिकाः ।नामभिस्ते कथयामि बद्रिके शृणु चादितः ॥५९॥ सर्वज्येष्ठा शिवस्वामिसुता या काशिकोद्भवा ।सर्वाग्र्या सुखदालक्ष्मीस्तस्याः पुत्रस्तु नामतः ॥६०॥ मुकुन्दविक्रमो ज्येष्ठो मुक्तिबाला तु पुत्रिका ।तयोर्युगलं नित्यं वै मोदते हरिमन्दिरे ॥६१॥अथेतरा अष्टपत्न्यो लक्ष्मीः क्षीरोदपुत्रिका ।कल्पद्रुमसुता श्रीश्च सूर्यपुत्री प्रभाऽऽत्मिका ॥६२॥दिशां पुत्री पाशवती ललिता ब्रह्मणः सुता ।जया सदाशिवपुत्री माणिकी दिव्यभूतिजा ॥६३॥ वैराजनाभिजा पुत्री कमला तत्प्रजाः शृणु ।लक्ष्म्याः पुत्रो वासुदेवः पुत्री तु दिव्यवासवी ॥६४॥श्रियाः पुत्रो रासकृष्णः पुत्री रासेश्वरीति च ।प्रभायाश्च प्रभुः पुत्रो ब्रह्मकान्तिः सुता तथा ॥६५॥पाशवत्यात्मजोऽनन्तः पुत्री च बृहतीश्वरी ।ललितायाः सुतो लालः सुता लीलेश्वरी तथा ॥६६॥जयाया विजयः पुत्रो विजयेशी तु पुत्रिका ।माणिक्याः कौस्तुभमणिः सुतः सुता मणीश्वरी ॥६७॥कमलायाः पद्मनाभः सुतः सुता नभोवती ।इत्येवमष्टपत्नीनां युगलाऽपत्यकाभिधाः ॥६८॥अथाऽपराः शतं पत्न्यस्तासां नामानि वै शृणु ।तिस्रस्तथाऽधिकाश्चापि त्र्यधिकं शतमेव ताः ॥६९॥तिस्रो मुख्या रमा राधा नारायणीति नामभिः ।रमायास्तु सुतो रामः पुत्री रामायणी तथा ॥७०॥राधायास्तु सुतो रायः सुता ऋद्धिरया मता ।नारायण्या नरः पुत्रः पुत्री नरोत्तमी तथा ॥७१॥शतपत्न्यभिधानानि शृणु बद्रीप्रियेऽधुना ।ब्राह्मी भागवती धामा भार्गवी च सरस्वती ॥७२॥मंगला मानसा रेवा भक्तिर्गंगा रतिः कृतिः ।मुक्तिरेकादशी पुण्या कामदुघा च तूलसी ॥७३॥सती मूर्तिर्गोमती च स्वर्णरेखा च नन्दिनी ।सावित्री विरजा दुर्गा दोला पुष्पा कलावती ॥७४॥बदरी माधवी पम्पा षष्ठी प्रीतिः ऋतध्वजी ।कुशला काशिका चान्द्री मणिर्ज्योत्स्ना प्रभावती ॥७५॥आर्षी सुरसा नन्दा च काञ्चनी हरिणी हनूः ।विश्वा वितस्तिः रसिका सुपर्णा च हिरण्मयी ॥७६॥प्रभूतिः करिणी पद्मा पिंगला च सरोजिनी ।पूर्णिमा वल्लभा कार्ष्णी जोष्ट्री ज्योत्स्ना च पद्मिनी ॥७७॥सुदुघा योगिनी विद्योतिनी शान्तिश्च मालती ।रक्ता चोरुक्रमा वैश्वी देवता कुमुदा शिवा ॥७८॥तरला रेणुमिश्रा च कानकी नलिनी परी ।सुनन्दा कलिका साध्वी सुधाऽम्बा प्रकृतिः शमी ॥७९॥श्यामा बाला मञ्जुला च पल्लवा वल्लवीश्वरी ।वेदी मोघवती श्वेता वैष्णवी मालिनी स्तवा ॥८०॥अमरी चारणी शीला दुग्धेति शतपत्निकाः ।तासां युगलापत्यानां नामानि बद्रिके शृणु ॥८१॥क्रमशस्तत्र वै ब्राह्म्या ब्रह्मरातः सुतः खलु ।सुता बृंहणिकानाम्नी मातृरूपगुणान्विता ॥८२॥भागवत्याः सुतो भर्गो पुत्री भाग्येश्वरी शुभा ।सुधामायाः सुतश्चोर्जबलः सुता च धामिनी ॥८३॥भार्गव्या बह्वृचः पुत्रः पुत्री ब्रह्मरुचिस्तथा ।सरस्वत्याः सुताः शार्ङ्गधरः सुता तु कौमुदी ॥८४॥मंगलायाः सुतः प्रभासकः सुता तु भास्वरा ।मानसायाः सुतः सम्मानेशः सुता सुधोदरी ॥८५॥रेवाया वारिजाक्षश्च सुतः सुता तु वारुणी ।भक्तेः सुतस्तु सर्वज्ञः सुता शेमुषिका शुभा ॥८६॥गंगायास्तारकः पुत्रः पुत्री चातुरदीक्षिका ।रत्याः पुत्रो महानन्दः पुत्री सन्तर्पिणी सती ॥८७॥कृतेः सुतस्तु सूद्योगः सुता तु नयराजती ।मुक्तेः सुतः सुनिर्वाणः सुता द्युशाश्वती शुभा ॥८८॥एकादश्याः सुतः पुण्यव्रतः सुता पतिव्रता ।पुण्याया वृषविद्यश्च सुतः सुता सतीश्वरी ॥८९॥सुतः कामदुघायास्तु विष्णुः सुता सुरार्हणा ।तुलस्याः कृष्णमालस्तु सुतः सुताऽर्कमञ्जरी ॥९०॥सत्याः सुतः ऋतवार्द्धिः सुता ऋतम्भरा शुभा ।मूर्तेः सुतश्चानिरुद्धः सुताः सुदर्शनेश्वरी ॥९१॥गोमत्याः पावनः पुत्रः पुत्री पीयूषवर्षिणी ।सुतः सुवर्णरेखायाः श्रीवत्सः प्रोज्ज्वला सुता ॥९२॥नन्दिन्याश्चाषुतोषश्च सुतः सुता विरामिणी ।सावित्र्या ब्रह्मद्युम्नश्च सुतः सुता गिरीश्वरी ॥९३॥विरजायाः सुतः संकर्षणः सुता त्वजेश्वरी ।दुर्गाया देवगणपः पुत्रः पुत्री कृषीश्वरी ॥९४॥दोलायाः स्वर्णलतिका पुत्री पुत्रश्च तोरण ।पुष्पायास्तु परागो वै पुत्रः सरघा पुत्रिका ॥९५॥कलावत्याः कारुनाथः सुतः सुता चमत्कृतिः ।बदर्या बदरः पुत्रः पुत्री पत्रावली शुभा ॥९६॥माधव्या मधुकृत् पुत्रो मधुकी पुत्रिका शुभा ।पम्पायाः सारसी पुत्री वीर्यसेतुस्तु पुत्रकः ॥९७॥षष्ठीदेव्याः सुता रक्षावती पुत्रस्तु रक्षणः ।प्रीत्याः सुतः सुमेलार्यः सुता प्रोन्मीलनी शुभा ॥९८॥ऋतध्वज्याः सुता शान्ता सुतः सत्यव्रतः शुभः ।कुशलायाः सुतो योगीश्वरः सुता सुयोगिनी ॥९९॥काशिकायाः सुतः प्राज्ञः सुता तु तैजसी शुभा ।चान्द्र्याः सुतस्तु धवलः सुता पायसभासुरी ॥१००॥मणेः विश्वप्रभा पुत्री परिधिश्च सुतः शुभः ।ज्योत्स्नायास्तु सुता विश्वज्योतिर्भूमा सुतः शुभः ॥१०१॥प्रभावत्याः सुता दृश्यादेवी सुतस्तु गोचरः ।आर्ष्याः सुता तु गायत्री सुतः प्रणवसत्तमः ॥१०२॥सुरसायाः सुता स्वादवती पुत्रः प्रमापतिः ।नन्दाया नन्दनः पुत्रः पुत्री तु नान्दिनीसती ॥१०३॥काञ्चन्यास्तु सुतश्चामीकरः सुता सुवर्णिनी ।हरिण्यास्तु सुता सम्पद्वती सुतोऽर्थवेदनः ॥१०४॥हन्वाः सुता तु हसिनी सुतश्चिबुककेसरः ।विश्वायास्तु सुतश्चाश्ववाहनश्च सुता श्रुतिः ॥१०५॥वितस्त्यास्तु सुतो हस्तीश्वरः सुता प्रमेश्वरी ।रसिकायाः सुतः प्रेमानन्दः सुता महोत्सवी ॥१०६॥सुपर्णायाः सुता शुक्लवर्णा सुतः सुलोकनः ।हिरण्मय्याः सुता पिङ्गाक्षिणी पुत्रस्तु मौक्तिकः ॥१०७॥प्रभूतेस्तु सुता विपञ्चिका पुत्रः प्रणादनः ।करिण्यास्तु सुता स्वर्णदन्ता सुतो गजाननः ॥१०८॥पद्मायास्तु सुतो नालः सुता रजतपत्रिणी ।पिंगलायाः सुतः पिताम्बरः सुताऽऽत्मबोधिनी ॥१०९॥सरोजिन्या रक्तगर्भः सुतः सुता सुकौशिकी ।पूर्णिमायाः सुतः सुधाकरश्चन्द्रकला सुता ॥११०॥वल्लभायाः सुतः कार्ष्णवाल्लभिः शलभा सुता ।कार्ष्ण्याः कृशोदरः पुत्रः पुत्री मिष्टस्वरा शुभा ॥१११॥जोष्ट्र्याः पुत्रः स्वप्रकाशकः सुपुत्री विवेकिनी ।ज्योत्स्नायास्तु सुताऽनङ्गलतिका सुकविः सुतः ॥११२॥पद्मिन्याः सलिला पुत्री पुत्रस्तु मूलकर्दमः ।सुदुघायाः सुता साध्वीव्रता पुत्रः पयोनिधिः ॥११३॥योगिन्यास्तु सुतो ब्रह्मसमाधिर्मुक्तराट् सुतः ।विद्योतिन्याः सुतः स्वर्गपतंगः कृतिनी सुता ॥११४॥शान्तेः सुतो विरामर्षिः सुता निर्मोहिनी शुभा ।मालत्यास्तन्तुधृक् पुत्रः सुता सन्तानिका शुभा ॥११५॥रक्ताया रञ्जनः पुत्रः पुत्री स्मितानना शुभा ।उरुक्रमायाः पुत्री तु संक्रमा वामनः सुतः ॥११६॥वैश्व्या विश्वावसुः पुत्रः पुत्री तु वैश्वदेविका ।देवतायाः सुतो देवेश्वरः सुता दिवस्पदा ॥११७॥कुमुदायाः सुता प्रमोदिनी सुतः प्रमोदकृत् ।शिवायाश्चात्मजो जाम्बूवर्णः सुता सुखंकरी ॥११८॥तरलायाः सुता क्षिप्रधीषणा धीश्वरः सुतः ।राजराजः सुतो रेणुमिश्रायाः रायणी सुता ॥११९॥कानक्या भूषणः पुत्रः पुत्री चूडामणिसती ।नलिन्या भ्रामरी पुत्री पुत्रः षडंगवैद्युतः ॥१२०॥पर्याः पुत्रः परमेशः पुत्री पारविलासिनी ।सुनन्दायाः सुतो नन्दः सुता नारनिवासिनी ॥१२१॥कलिकाया विकासास्यः सुतः सुता प्रफुल्लिका ।साध्व्याः सुतः सन्तजनः सुता सुवासिनी शुभा ॥१२२॥सुधायाः शंकरः पुत्रः पुत्री तथाऽम्बिका सती ।अम्बाया आम्बलिः पुत्रो बालिकेशी तु पुत्रिका ॥१२३॥प्रकृतेः कृतिमान् पुत्रः पुत्री यत्नेश्वरी शुभा ।शम्याः पुत्रो दिव्यगर्भः पुत्री विश्वर्द्धिसत्तमा ॥१२४॥श्यामाया नीलराजश्च सुतः सुता निलायनी ।बालाया बहुलार्काख्यः सुतः सुता प्रवालिका ॥१२५॥मञ्जूलायाः सुता मातंगिनी सुतो महेश्वरः ।पल्लवायाः सुता पत्रानना सुतो दलेश्वरः ॥१२६॥वल्लवायाः सुतो भारवाटो वाघेश्वरी सुता ।वेद्याः सुतो मखधर्मा सुता तु स्वर्णकेशिनी ॥१२७॥मोघवत्याः सुतः शार्ङ्गधरः सुता तलायना ।श्वेतायाः पाण्डुरकेशी सुता पुत्रो हिमध्रुवः ॥१२८॥वैष्णव्याः काण्डिका पुत्री पुत्रः सर्वक्रमाभिधः ।मालिन्या जिष्णुदेवश्च सुतः सुता तु रोहिणी ॥१२९॥स्तवायास्तापहा पुत्री पुत्रस्तपनकः शुभः ।अमर्या अमृतः पुत्रः पुत्री तु ध्रुवशेमुषी ॥१३०॥चारण्या ग्रन्थवित् पुत्रः पुत्री ब्रह्मरुतानना ।शिलायास्तु सुतो वित्तिः सुतो रहस्यवेदनः ॥१३१॥दुग्धाया धारिणी पुत्री धाता पुत्रः शुभक्रियः ।इत्येतासां प्रजाः प्रोक्तास्तथाऽन्यासां तु योषिताम् ॥१३२॥चत्वारिंशत्तथा तासां शतं संख्यातमेव तु ।तासां प्रजा युगलात्मरूपा जाताः शुभक्रियाः ॥१३३॥अन्यासां चापि कोट्यर्बुदाब्जसंख्याधियोषिताम् ।युगलात्मप्रजाः प्राविष्कृताः संख्या न विद्यते ॥१३४॥मुख्यानां द्वादशानां च शतसंख्याजुषामिह ।योषितां चार्वपत्यानां नामान्युक्तानि चात्र वै ॥१३५॥श्रवणादर्थभानाच्च दिव्यतां मोक्षमाप्नुयात् ।भुक्तिं मुक्तिं लभेच्चापि परमेशे च भक्तिमान् ॥१३६॥प्रातरुत्थाय नामानि य इमानि समुच्चरेत् ।विध्ननाशः कार्यसिद्धिस्तस्य वै स्यात् पदे पदे ॥१३७॥किम्वत्र बहुनोक्तेन हरेर्वंशो हरिर्हि सः ।हृत्वा पापानि चात्मानं हरत्यक्षरमच्युतः ॥१३८॥इति श्रीलक्ष्मीनाराणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणभगवतो द्वादशोत्तरशतमुख्यपत्नीनां चैत्रशुक्लतृतीयायां युगलात्माऽपत्योद्भवाभिधानानि, तथा तदधिकाऽष्टाविंशतीपत्नीनां तथा कोट्यर्बुदाब्जादिपत्नीनां युगलात्मकप्रजावत्त्वोद्देशनिरूपणनामैकाऽधिकशततमोऽध्यायः ॥१०१॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP