तिष्यसन्तानः - अध्यायः ११२
लक्ष्मीनारायणसंहिता
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि मुकुन्दविक्रमो नृपः ।
क्षीरोदपुत्र्या लक्ष्म्यास्तु सुताय मन्त्रिणे तदा ॥१॥
वासुदेवाय राज्यस्य धुरं निर्वहितुं सदा ।
आज्ञाप्य निर्ययौ पृथ्वीं वीक्षितुं परितस्तदा ॥२॥
विमानेन ययौ प्राक् तु तुहीनाऽद्रीन् तथोत्तरान् ।
कुरून् किम्पुरुषं चापि केतुमालमिलावृतम् ॥३॥
पूर्वदेशान् दक्षिणाँश्च पश्चिमान् भूप्रदेशकान् ।
सर्वत्र भूपवर्या ये तिष्ठन्ति ते तु भावतः ॥४॥
चक्रुः सम्मानमर्घ्यं च पूजां सम्राट् सुसन्निभाम् ।
करान् ददुश्च ते सर्वे यथायोग्यान् स्वभूभृते ॥५॥
एकचक्रं महाराज्यं दशसाहस्रयोजनम् ।
वीक्ष्याऽऽगत्य यमीं स्नात्वा दिलावर्यां स्थिरोऽभवत् ॥६॥
कोटिपरार्धरत्नानि राजदत्तानि चाऽनयत् ।
तानि सर्वाणि च वासुदेवसात्कृत्य वै ततः ॥७॥
स्वयं व्रतं प्रजग्राह सदैवात्मनिवेदनम् ।
सर्वदा भगवद्भक्तिमयं पत्नीयुतो नृपः ॥८॥
यमुनायास्तटे रम्ये कारयित्वा सुगह्वरम् ।
प्ररक्ष्य पितृभगवत्प्रतिमां तत्र कानकीम् ॥९॥
अनादिश्रीकृष्णनारायणाख्यां शोभनां शुभाम् ।
सर्वदा सर्वथा तस्याः सेवापरोऽभवन्नृपः ॥१०॥
जटाधृक् सुवल्कलाढ्यः करमालाधरस्तथा ।
सुसाधुवेषोऽन्तर्वृत्तिमूर्तिध्यानादिमानसः ॥११॥
बभूव सर्वदा बद्रि! योगिराडिव मुक्तिगः ।
सर्वः कर्मकलापश्च कृतस्तेन हरेः कृते ॥१२॥
पृथ्वीतत्त्वं देहगं च कृतं हर्यर्थमेव तत् ।
जलतत्त्वं च देहस्थं कृतं हर्यर्थमित्यपि ॥१३॥
वह्नितत्त्वं शरीरस्थं कृतं हर्यर्थमन्वहम् ।
वायुतत्त्वं देहगं च कृतं हर्यर्थमुत्तमम् ॥१४॥
व्योमतत्त्वं च देहस्थं कृतं हर्यर्थमम्बरम् ।
शब्दः स्पर्शो रसो रूपं गन्धो हर्यर्थमित्यमी ॥१५॥
पादौ प्रदक्षिणं कर्तुं योजितौ श्रीहरेस्तथा ।
हस्तौ कृष्णस्य सेवायां सर्वथा योजितौ सदा ॥१६॥
वाणी कृष्णस्य कीर्तौ च व्यापारिता स्तवादिषु ।
पायूपस्थेन्द्रिये तेन कृते शीले च संयमे ॥१७॥
नेत्रे तु योजितेऽनादिकृष्णरूपादिदर्शने ।
श्रोत्रे कृते हरेः शब्दग्रहणे नियमान्विते ॥१८॥
त्वङ्नित्यं स्थापिता कृष्णसम्बन्धिवस्तुयोगिनी ।
रसना कृष्णनैवेद्यरसमात्राभिवर्तिनी ॥१९॥
घ्राणं कृष्णस्य सुरभेर्ग्रहे सदा विनिर्मितम् ।
प्राणान् सर्वान् जपगर्भान् चक्रे कृष्णार्थजीवनः ॥२०॥
मस्तकं नमने चक्रे योजितं श्रीहरेः सदा ।
कण्ठं चकार भगवत्स्वरालापगुणोदये ॥२१॥
हास्यं हरेः समीपे भ्रूकुटिं चक्रे हरेः कृते ।
निमेषं भगवन्मिषं क्षुवनं नामसंगतम् ॥२२॥
ओष्ठयोर्मेलन कृष्णप्रसादान्नादिलेहने ।
जिह्वाया भ्रमणं चास्ये कृष्णप्रसादमार्गणे ॥२३॥
वर्णस्थानानि सर्वाणि चक्रे कृष्णाभिधाकृते ।
ग्रीवां चक्रे हरेः स्रग्भिर्भूषितां चन्दनादिभिः ॥२४॥
जाग्रतिः स्पष्टमूर्त्यर्थं निद्रा मानसमूर्तये ।
सुषुप्तिस्तुर्यरूपे च कृष्णार्थं तेन योजिता ॥२५॥
खर्जनं मोडनं देहत्रोडनं शयनं तथा ।
आसनं गुण्ठनं संकोचनं चक्रे हरेः कृते ॥२६॥
उत्तानं भूप्रतानं च पार्श्वतानमधःस्थितिम् ।
स्वस्तिकाद्यासनभेदान् चक्रे कृष्णे प्रयोजितान् ॥२७॥
दण्डवत् करणे नेत्रे करौ पादौ मनः शिरः ।
वक्षश्चेत्यष्टकं चक्रेऽञ्जलिं कृष्णस्य सन्निधौ ॥२८॥
मालिकाऽऽवर्तने सर्वाङ्गुलीश्चक्रे सुयोजिताः ।
हस्ततलेऽङ्गुष्ठयुक्ते चक्रेऽर्हणे हरेः स वै ॥२९॥
प्रकोष्ठयोः क्रियाः कफोणिकयोश्च क्रियास्तथा ।
स्कन्धयोश्च क्रियाश्चक्रे कृष्णकार्यविधापने ॥३०॥
नितम्बयोश्च पृष्ठस्योदरस्य नलयोः क्रियाः ।
नाडीनां वायुसञ्चाराँश्चक्रे कृष्णक्रियायुताः ॥३१॥
हृदयस्य धमनीत्वं चक्रे कृष्णक्रियान्वितम् ।
रोम्णां वलीनामस्तित्वं सर्वं कृष्णार्थमस्य वै ॥३२॥
सक्थ्नोश्च जंघयोः पुष्टिर्धातूनां क्लृप्तिरित्यपि ।
भोजनं पानमास्वादश्चास्य कृष्णकृतेऽभवन् ॥३३॥
देहसंशोधनं भूषावेषशृंगारमार्जनम् ।
द्रवद्द्रव्यप्रदानं च सर्वं कृष्णार्थमस्य वै ॥३४॥
रोम्णां स्नेहोद्गमश्चापि तथेन्द्रियप्रमोदनम् ।
कृष्णप्रमोदप्रीत्यर्थं राज्ञस्तस्याऽभवत् सदा ॥३५॥
आदानं गमनं तृप्तिस्तपः संयम उत्थितिः ।
आलस्यं सरणं रोधः सर्वमस्य हरेः कृते ॥३६॥
मुष्टिः प्रसूतिरस्याप्यञ्जलिर्व्यङ्गुलिविस्तरः ।
फणाप्रसार एवापि सर्वमस्य हरेः कृते ॥३७॥
नखनिकृन्तनं रोमनिकृन्तनं च कम्पनम् ।
नर्तनं गायनं भावा धावनं च हरेः कृते ॥३८॥
चाञ्चल्यं च मुनित्वं च बहिरान्तरवर्तनम् ।
उद्गारश्चापि हिक्का च व्याप्तत्वं च हरेः कृते ॥३९॥
अक्रियत्वं सक्रियत्वं व्यापारा वर्ष्मणस्तथा ।
स्नानं सन्ध्या जपो होमः सर्वं तस्य हरेः कृते ॥४०॥
लेखनं वाचनं पुष्पपत्राद्याधारणं तथा ।
पूजोपकरणाऽवाप्तिः सर्वमस्य हरेः कृते ॥४१॥
यानवाहनयोगाश्च नरनार्यभिमेलनम् ।
प्रजाप्रदर्शनं चापि सर्वमस्य हरेः कृते ॥४२॥
मन्त्रणाऽनुमतिः कार्ये क्वचित्कार्याऽवलोकनम् ।
निर्वृत्तिः सम्मतिर्वापि सर्वमस्य हरेः कृते ॥४३॥
देशावलोकनं श्रेष्ठोत्सवाभिगमनं शुभम् ।
शोभा प्रवृत्तिरेवापि सर्वमस्य हरेः कृते ॥४४॥
राजोत्सवाः सैन्यशोभोत्सवा देवोत्सवास्तथा ।
व्रतोत्सवाश्च दानानि सर्वमस्य हरेः कृते ॥४५॥
यज्ञाः परोपकाराश्च न्याया दण्डाः प्रशिक्षणम् ।
स्मृद्धयः सम्पदश्चापि सर्वमस्य हरेः कृते ॥४६॥
उदयास्तमयौ तस्य मध्याह्नं संगवस्तथा ।
सन्ध्या वेला ब्राह्मकालो निशा चास्य हरेः कृते ॥४७॥
ऋतवश्चौष्ण्यशैत्यादि वृष्टयश्चातपास्तथा ।
वानं घर्माऽग्निसंज्वालाप्राकट्यं च हरेः कृते ॥४८॥
सत्कारः स्वागतं चार्घ्यं मधुपर्कः सुगन्धनम् ।
सम्मानं च महीमानागमश्चाऽस्य हरेः कृते ॥४९॥
आयव्ययौ च कृष्णार्थौ कोशाः कृष्णार्थकास्तथा ।
दासा दास्यो भृत्यवर्गाः सर्वं कृष्णकृतेऽस्य वै ॥५०॥
संकल्पो मननं बोधश्चिन्तनं तृप्तिरित्यपि ।
ध्यानं च भजनं प्रत्यभिज्ञानं स्मरणं धृतिः ॥५१॥
भक्तिः प्रीतिः स्थितिर्मानं सर्वमस्य हरेः कृते ।
आत्मसंवेदनं चात्मभोगः साक्षात्स्ववृत्तिता ॥५२॥
निजानन्दश्च सन्तोषः सर्वमस्य हरेः कृते ।
एकान्तसेवनं चापि श्वसनं जीवनं रतिः ॥५३॥
आहारश्चोपवासश्च सर्वमस्य हरेः कृते ।
आत्मनो देहवासश्च तथा वस्त्रादिधारणम् ॥५४॥
गह्वरे च गृहे वासो वक्षेऽस्यापि हरेः कृते ।
निभालयति राजाऽसौ चात्मन्यात्मानमच्युतम् ॥५५॥
सर्ववस्तुषु सर्वत्र निभालयति माधवम् ।
ऋषयो मुनयो देवास्तीर्थानि मूर्तिमन्ति च ॥५६॥
तदाश्रयं समागत्य दृष्ट्वा प्रयान्ति नित्यशः ।
सत्यश्च साधवः साध्व्यो योगिन्यो योगिनस्तथा ॥५७॥
विरक्ता व्रह्मसंसक्ता ज्ञानिनो ध्यानिनस्तथा ।
परितस्तस्य तिष्ठन्ति दिव्याश्रमस्य सीमसु ॥५८॥
कृष्णकथाः प्रवर्तन्तेऽनुवेलं चाध्वरा जपाः ।
वेदघोषाः कीर्तनानि प्रवर्तन्तेऽस्य चाश्रमे ॥५९॥
अभिषेका देवपूजा बलयो भोजनानि च ।
चरवो देवकार्याणि नीराजनानि चाभितः ॥६०॥
सुघण्टाझल्लरीनादाः प्रवर्तन्तेऽभितोऽस्य च ।
शंखनादा जयनादाः कृष्णकृष्णेतिघोषणाः ॥६१॥
अपि सिंहा मृगाः सत्त्वाः पक्षिणः पशवस्तथा ।
कीटाश्चेताः पतंगाश्च वदन्ति ब्रह्मगायनम् ॥६२॥
यादांसि भूमिगर्तस्था वृक्षकोटरवासिनः ।
त्वावासाः पत्रवासाश्च वदन्ति ब्रह्मशाश्वतम् ॥६३॥
वृक्षाश्च वल्लिकाश्चापि स्मरन्ति ब्रह्म शाश्वतम् ।
प्रतिशब्दैश्च गर्जन्ति पर्वता गर्तिका जडाः ॥६४॥
एवमस्याऽभवद्भक्तिः कृष्णनारायणे सदा ।
बद्रिके नृपतेर्योगात् प्रजाः सर्वा नराः स्त्रियः ॥६५॥
वैष्णव्यः सर्वथा दिव्या ह्यजायन्त भुवस्तले ।
प्रसादं पितरश्चापि लभन्ते देवता ग्रहाः ॥६६॥
पूजां लभन्ते द्युसदो हरिः सर्वत्र पूज्यते ।
मानवे मानवे कण्ठी जपमालाऽस्य वर्तते ॥६७॥
मानवे मानवे मूर्तिर्नारायणस्य वर्तते ।
ग्रामे ग्रामे मखश्चाऽपि बैश्वदेवः प्रतिद्विजम् ॥६८॥
गोपुरे गोपुरे कृष्णमूर्तिगोग्रासशोभना ।
नार्या नार्या विभूषासु कृष्णाभिधानमस्त्यपि ॥६९॥
शस्त्रे शस्त्रे हरेर्नाम सर्वेषूपस्करेष्वपि ।
आपणे ह्यापणे मूर्तिर्नारायणस्य वर्तते ॥७०॥
ग्रामे ग्रामे मय?भूमौ कृष्णनारायणस्य वै ।
मन्दिरं वर्तते श्रेष्ठं पत्तने पत्तनेऽपि च ॥७१॥
प्रातः सायं हरेर्लक्ष्मीस्वामिनश्च प्रपूजनम् ।
नीराजनानि जायन्ते घण्टादिनादनान्यपि ॥७२॥
स्तुतयः सम्प्रवर्तन्ते गीतयः कीर्तनान्यपि ।
नैवेद्यानि प्रदीयन्ते ताम्बूलानि जलानि च ॥७३॥
प्रसादाश्च प्रभुज्यन्ते पीयतेऽमृतवारि च ।
बद्रिके प्रत्यहं ग्रामे ग्रामे सायं कथाः शुभाः ॥७४॥
लक्ष्मीनारायणसंहिताया भवन्ति भूतले ।
एवं वै वैष्णवी भूमिर्जाता मुकुन्दतन्मयी ॥७५॥
मुकुन्दविक्रमो राजा तापसो नित्यमेव च ।
प्रातरुत्थाय कृष्णस्य करोति ध्यानमन्वहम् ॥७६॥
स्नात्वा पितृगणेभ्यश्च तर्पणं प्रकरोति च ।
सूर्याराधनमेवाऽपि सन्ध्यावन्दनमित्यपि ॥७७॥
हरेः पूजां प्रतिमायां करोति लग्नमानसः ।
आवाहनं स्वर्णसिंहासने कृत्वा ततः परम् ॥७८॥
पाद्यमर्घ्यं समर्प्याऽऽचमनीयकं ददात्यपि ।
दन्तधावनमेवापि शौचजलं ददात्यपि ॥७९॥
हस्तपादादिशुद्ध्यर्थं मृद चूर्णं ददात्यपि ।
गण्डूषाय जलं पात्रमञ्जनं प्रकरोत्यपि ॥८०॥
कृष्णमूर्तौ सुगन्धिभृत्तैलसारं ददात्यपि ।
अर्कसारं रससारं ददाति मर्दनं ह्यपि ॥८१॥
चन्दनं च सुगन्धं च ददाति पञ्चगव्यकम् ।
दुग्धं दधिं घृतं क्षौद्रं शर्करां तीर्थवार्यपि ॥८२॥
अभिषेकं कारयित्वा मार्जनं प्रकरोत्यपि ।
वस्त्रदानं विभूषाणामर्पणं च करोत्यपि ॥८३॥
शृङ्गारं विविधं सर्वं करोति कृष्णवर्ष्मणि ।
केशप्रसाधनं तैलप्रदानं पुष्पयोजनम् ॥८४॥
नेत्रयोः कज्जलं भाले तिलकं चन्द्रकं शुभम् ।
कस्तूरिकां चन्दनं च मालिकां रत्नमालिकाम् ॥८५॥
हारान् तुलसीपत्राणि तथा यज्ञोपवीतकम् ।
अक्षतान् कुंकुमं चापि गुलालं प्रददात्यपि ॥८६॥
अबीलं चोत्तरगन्धं गुच्छं रंगादिरञ्जनम् ।
धूपं दीपं च नैवेद्यं फलं ताम्बूलकं जलम् ॥८७॥
करोद्वर्तनकं चापि ददाति नक्तकं ततः ।
शय्यां सुशोभनां सर्वोपस्कारसहितां तथा ॥८८॥
प्रेंखां ददाति भावेन व्यजनं पवनप्रदम् ।
छत्रं सुचामरे यष्टिं पत्त्राणे मुकुटादिकम् ॥८९॥
यानं च वाहनं चापि भ्रमणं गृहखेलनम् ।
मध्याह्ने भोजनं चापि ददाति श्रीविलासिने ॥९०॥
पादसंवाहनं चापि विश्रामं शयने शुभे ।
उत्थानं भ्रमणं सायं महोद्याने ददात्यपि ॥९१॥
खेलनं चापि सन्ध्यायामारार्त्रिकं करोति च ।
स्तवनं पूजनं चापि भोजनं पायसार्पणम् ॥९२॥
जलार्पणं मुखवासं शयनं च ददात्यपि ।
अंगानां मर्दनं चापि करोति सुखकृद्धरेः ॥९३॥
प्रदक्षिणं दण्डवच्च सेवनं विविधं तथा ।
कथाया श्रवणं कृष्णकीर्तनं स्मरणं हरेः ॥९४॥
दास्यं चात्मार्पणं चापि करोति कृष्णतोषणम् ।
एवं कर्मकलापं श्रीशार्थं मुकुन्दविक्रमः ॥९५॥
करोति सर्वदा बद्रि नारायणपरायणः ।
तद्भार्या च सती मुक्तिबालेश्वरी विरागिणी ॥९६॥
वैष्णवी पतिवत् सर्वाः क्रियाः कृष्णार्थसंभृताः ।
करोति पतिसेवाढ्या श्रीकृष्णार्पितमानसा ॥९७॥
देहनिर्वाहयोग्यं यत् सर्वं कृष्णार्थमेव तत् ।
पतिसेवोपयोग्यं यत् सर्वं कृष्णार्थमेव तत् ॥९८॥
इत्येवं बद्रिके तेन मुकुन्दविक्रमेण वै ।
अर्पितं श्रीहरौ दिव्यादिव्याचरणमात्मनः ॥९९॥
वैकुण्ठमपरं भूमौ गोलोकश्चापरः क्षितौ ।
कृतस्तेन हरेर्भक्त्याऽवतारित इवोत्तमः ॥१००॥
गृहे गृहे चमत्काराः प्रजायन्ते नवा नवाः ।
साक्षात् कृष्णहरिर्भक्त्या भक्तदृष्टौ प्रयाति च ॥१०१॥
अनेके ब्रह्मवेत्तारो जीवा नार्यो नरास्तदा ।
प्रयान्ति परमं धाम श्रीहरेः परमात्मनः ॥१०२॥
एवं सत्ययुगस्तत्र मुकुन्दविक्रमे नृपे ।
अवर्तताब्धिपर्यन्तं देवमानवसदृशः ॥१०३॥
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने मुकुन्दविक्रमस्य राज्ञो भगवत्परायणतादिवर्णननामा द्वादशाऽधिकशततमोऽध्यायः ॥११२॥
N/A
References : N/A
Last Updated : May 08, 2021
TOP