संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १०७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १०७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १०७ Translation - भाषांतर श्रीबद्रीप्रियोवाच-नरनारायण विष्णो कृष्ण केशव माधव ।कलौ चार्धे गते धर्माः पाल्या लोकैस्तु कीदृशाः? ॥१॥द्रव्यह्रासे गुणह्रासे बलह्रासोऽपि जायते ।कालह्रासे धर्मह्रासः श्रद्धाह्रासोऽपि जायते ॥२॥प्रातिकूल्ये नेष्टसिद्धिस्ततो ह्रासाः समस्तकाः ।प्रवर्तन्ते प्रजावर्गे नास्तिक्यप्रेरिता मुहुः ॥३॥तदानीं शुद्धयः शौचं व्रतानि कीदृशानि वै ।पूजादिकं कीदृशं च मखा वा कीदृशास्तदा ॥४॥कलौ पालयितव्यान् मे सदाचारान् प्रकीर्तय ।प्रायः केचन तिष्येऽपि पालयन्ति समास्तिकाः ॥५॥श्रीनरनारायण उवाच-बद्रिके निम्नवेगे वै तिष्ये निम्ना वृषा मताः ।समासेन कथयामि शृणु सर्वान् तदास्थितान् ॥६॥शीतोदकेन वै स्नानं कलौ नास्त्येव सर्वथा ।उष्णोदकेन वै स्नानं क्वचित् क्वचित्तदा मतम् ॥७॥भस्मस्नानं कलौ त्यागिवर्गे प्रायः कलौ युगे ।करास्यक्षालनमात्रं प्रातःस्नानं कलौ युगे ॥८॥मुखशुद्धिर्गण्डुषैश्च भस्मना कर्दमेन वा ।क्वचित् काष्ठेन भवति धूम्रपानेन सर्वथा ॥९॥तैलक्षेपः शिरःशुद्धिश्चूर्णेन मुखशुद्धिका ।आचमनं कलौ मिष्टोदकपानात्मकं तदा ॥१०॥देवपूजा जलेनैव कलौ वा जायते न वा ।नैवेद्यं कल्पनामात्रं मानसं वै कलौ न वा ॥११॥आरार्त्रिकं चैकवर्त्तिवह्निनाऽद्भिश्च वा न वा ।नमस्कारो दण्डवत् स जयशब्दः स्तुतिर्न वा ॥१२॥मखस्तु चुल्लिकावह्नौ तैलबिन्दूपसर्पणम् ।नैवेद्यं श्रीफलं मासे मासे वा वत्सरेऽथवा ॥१३॥वेषदानं तथा मासे वत्सरे वा सुरादिषु ।सिन्दूरदानकं वर्षे वस्त्रदानादि वा नवा ॥१४॥स्नापनं वा तथैवेति मासे वा वत्सरेऽथवा ।एवं देवविधिस्तिष्ये ह्रासं गतो विजायते ॥१५॥आतिथ्यं जलमात्रेण कलौ वाचा च केवलम् ।वैश्वदेवो मुखे नैजे कवलस्य प्रदानकम् ॥१६॥सायंपूजा तरूद्याने भ्रमणं नाटकेऽथवा ।उत्सवः स्त्रीधनयोगः कलौ चास्ते गृहे गृहे ॥१७॥केशप्रसाधनं स्त्रीणां सौभाग्यं चूर्णलेपनम् ।रन्धितान्नं कणवद्वै न दुष्टं स वृषः कलौ ॥१८॥अस्पृश्यं रन्धितान्नं न नाऽभक्ष्यं कस्यचिद् वृषः ।सर्वविधं जलं पेयं पूतं जलं सदा वृषः ॥१९॥पात्रेऽपि भ्रष्टता नास्त्युच्छिष्टं पात्रं सु पावनम् ।उच्छिष्टजलधान्या वै क्षिप्तं धौतं सदा शुचि ॥२०॥वस्त्रेण मार्जितं पात्रं शुद्धं सर्वविधं तदा ।ऊर्णावच्छुचि कार्पासाम्बरं सर्वत्र वै कलौ ॥२१॥मलत्यागोत्तरं स्नानं कलौ नास्त्येव नास्ति हि ।करशुद्धिर्जलेनैव वस्त्रेण गुह्यशुद्धिकाः ॥२२॥पादप्रक्षालनं नास्ति कलौ भूशोधनं नहि ।प्रायश्चित्तं कलौ नास्ति राजदण्डो हि शोधनम् ॥२३॥वायुना शोधनं सूर्यकिरणैः शोधनं कलौ ।मार्जनेन च वा शुद्धिर्लेपनं न कलौ तदा ॥२४॥पशुपक्ष्यादिसंस्पर्शो भोज्येषु नास्ति दूषणम् ।उच्छिष्टदूषणं नैव पर्युषितस्य नैव च ॥२५॥पात्रौष्ठस्पर्शदोषो न कलौ तदा गृहे गृहे ।सांकर्यं सम्प्रदायानां सधर्मो वै कलौ गृहे ॥२६॥शवस्पर्शे सूतकं तु स्नानात् तिष्ये गतं भवेत् ।राहुस्पर्शः सूतकं न कलौ प्रायस्तु सर्वथा ॥२७॥मरणं सूतकं तावद् यावच्छोकस्मृतिः खलु ।कलौ चैकादशाहादिश्राद्धभोज्यं गृहे गृहे ॥२८॥एकाहादूर्ध्वमपि तद् भोजनं गृह्यते कलौ ।जन्मनः सूतकं यावन्मातुः स्वास्थ्यं न शोभनम् ॥२९॥मातुरेवापि तत्तत्र नान्येषां सूतकं कलौ ।राजस्वल्यं सूतकं न कलौ स्त्रीणां मतं तदा ॥३०॥रजोदर्शनमात्रं तु मूत्रवद् गण्यते कलौ ।मैथुनस्याऽप्यशुद्धिर्न कलौ कल्मषशालिनोः ॥३१॥मलत्यागे ह्मशुद्धिर्न गण्यते वमने यथा ।मलवाहाः श्वपचाश्च शुद्धाः कलौ पुरे पुरे ॥३२॥मृतमांसादनाश्चापि शुद्धा कलौ गृहे गृहे ।यवनाः श्वपचाश्चर्मकारा भृत्या गृहे गृहे ॥३३॥पाचकास्ते सूदकास्ते ब्रह्मक्षत्रालयादिषु ।सूकरगर्दभश्वोष्ट्रस्पर्शदोषो कलौ नहि ॥३४॥म्लेच्छानां मन्दिरे वासः पवित्रो वै कलौ तदा ।व्यसनानां सुसम्मानं व्रतानां त्याग एव च ॥३५॥सदान्नभोजनं धर्मः कलौ भवति शस्तिमान् ।एकभुक्तं व्रतं तिष्ये गण्यते चोपवासवत् ॥३६॥एकपत्नीव्रतस्तिष्ये गण्यते नैष्ठिकः स वै ।गृहस्थधर्मवाँस्तिष्ये त्यागी प्रगण्यते तदा ॥३७॥कामद्वेषभराचार्या गण्यन्ते मोक्षदाः कलौ ।द्वेषमार्गप्रणेतारो गुरवो मोक्षदाः कलौ ॥३८॥वैतण्डिकाः सुविद्वाँसः पूज्यन्ते चेशवत् कलौ ।आज्ञायां किंकरस्त्यागी गृहस्थस्य महागुरुः ॥३९॥गृहस्थदास्यकर्मा च त्यागी कलौ प्रपूज्यते ।गृहस्थः स्त्रीप्रदाता च त्यागिकृपापरः कलौ ॥४०॥स एव भक्तराट् तिष्ये यौनसम्बद्ध उत्तमः ।तिष्ये भिक्षान्नभोक्तारो गृहस्था धार्मिका इति ॥४१॥साधुभ्यो भृत्यतां नैजां कारयन्ति गृहस्थिताः ।निजसेवाकरः साधुः श्रेष्ठो गृहसुधर्मिणाम् ॥४२॥कलौ तु गुरुशिष्याणां दारैक्यं धर्म उत्तमः ।उदरार्थं तु नारीणां परभोग्यत्वमित्यपि ॥४३॥कलौ कलौ जायते तु गृहे गृहे जने जने ।मृत्तिकानां तु पात्राणां सदा शुद्धिः कलौ कलौ ॥४४॥चर्मस्पर्शो दूषणं न पत्त्राणस्पर्श इत्यपि ।मलस्पर्शो दूषणं न कलौ सर्वप्राजासु वै ॥४५॥श्मशानवसतिर्दोषो शवधूम्रोऽपि दूषणम् ।कलौ न गण्यते तिर्यक्शवस्पर्शोऽपि दूषणम् ॥४६॥मूत्रस्पर्शो दूषणं न गण्यते तिष्यगैर्जनैः ।नासिकामलसंस्पृष्टनक्तकश्च कलौ शुचिः ॥४७॥धोत्रं शुद्धं कटिवस्त्रं शुद्धं कलौ च घर्घरी ।कौपीनकं कलौ शुद्धं सुरवालः सदा शुचिः ॥४८॥वामहस्तः कलौ शुद्धो नासा शुद्धा मलान्विता ।कलौ कलावती नाली शुद्धा वारिप्रदा प्रपा ॥४९॥चर्मकोशः कलौ शुद्धः कूपपात्रं घटी तथा ।तैलकारस्य यन्त्रं वै शुद्धं शुद्धश्च तैलकृत् ॥५०॥मदिराकृत् कलौ शुद्धः शुद्धं च रुधिरं कलौ ।अस्थि शुद्धं कलौ सर्वं दन्तिदन्तनिभं तदा ॥५१॥मज्जा शुद्धा तु मत्स्यानां सूकराणां घृतं शुचि ।अण्डानि कुक्कुटादीनां शुद्धानि वै कलौ तदा ॥५२॥जलपक्वं पिष्टकादि शुद्धं कलौ गृहे गृहे ।नापितश्च क्षुरश्चापि शुद्धा वाटकिकाऽस्य च ॥५३॥म्लेच्छस्य दुग्धदध्यादिपात्रं शुद्धं कलौ सदा ।औषधं मांसमद्याढ्यं शुद्धं कलौ जने जने ॥५४॥भोज्यपात्रे रोमपातो भोजनेऽपि कलौ शुचिः ।समुद्रपारयात्रादि शुचि सौधे च तालकम् ॥५५॥पलाण्डुलशुनाद्यं च शुचि तिष्ये गृहे गृहे ।पत्रकः कर्गदश्चापि शुचिस्तिष्ये च कर्दमः ॥५६॥गृहकोणे तथा भित्तौ ष्ठीवनं द्वारि गोपुरे ।चुल्लीभस्मनि शय्यायाः पार्श्वे तत्पावनं कलौ ॥९७॥सूर्योदयनादूर्ध्वं जाग्रतिस्तु स कलौ वृषः ।रात्र्यर्धेऽपि व्यवसायो धर्मो भवति वै कलौ ॥५८॥दिवारात्रं तु यन्त्राणां गतिः कृतिश्च चालनम् ।आयोधनं मिथः क्षुद्रलाभार्थं स वृषः कलौ ॥५९॥गृहाश्रमोऽपि वृद्धानां शस्यते तु वृषः कलौ ।अन्यायविजयो धर्मः कलौ क्लेशकरो महान् ॥६०॥यो मृषाऽऽन्दोलनकरस्तिष्ये धर्मगुरुर्हि सः ।कलौ किञ्चित्प्रधीः प्राणी गुरुरेव स धर्मवित् ॥६१॥अशास्त्रज्ञाश्च लुञ्चादाः कलौ वै धर्ममूर्तयः ।ब्राह्मं मुहूर्तं निद्रायां केलिकर्मणि वा वृषः ॥६२॥अदेवस्मरणं सायं गायत्रीवर्जनं दिवा ।अजपश्चाप्यहोत्रश्च ग्राम्याध्ययनमित्यपि ॥६३॥अपितृतर्पणं धर्माः द्यूतं भवन्ति सर्वशः ।प्रतिमा पुत्तली स्पष्टा न भावस्तत्र वै कलौ ॥६४॥नखकेशोत्कर्तनेऽपि नाऽशुद्धिर्हि कलौ मता ।विष्टागृहोपशीलेऽपि नाऽशुद्धिस्तत्र गण्यते ॥६५॥श्वशुरस्पर्शनं वध्वा दूषणं न कलौ तदा ।परगोत्रस्वगोत्रादिसम्बन्धो भूषणं कलौ ॥६६॥निम्नकन्याग्रहणं च प्रशंसाधर्म उत्तमः ।यज्ञोपवीतकं कण्ठी दैवचिह्नं सचन्द्रकम् ॥६७॥तिलकं दूषणं भाले कलौ धर्मो विचन्द्रकः ।पितरि जीवति पुत्रश्मश्रुमुण्डनमित्यपि ॥६८॥धर्मः कलौ प्रशस्तो वै वह्निं विना विवाहनम् ।विप्रं विना च दातारं विना कन्यार्पणं वृषः ॥६९॥आपणे तु महीमानभोजनं चोत्तमो वृषः ।संस्काराऽकरणं धर्मो व्ययहीनो वृषः कलौ ॥७०॥हत्यागृहाणि तिष्ये तु पुण्यस्थानानि वै तदा ।धेनूनां तु कलौ तत्र शकट्यां योजनं वृषः ॥७१॥बहूनामेकपत्नी च कलौ धर्मो मतस्तदा ।प्रातस्तु वाचनं ग्राम्यपत्राणां च वृषस्तदा ॥७२॥विधवाग्रहणं तिष्ये परोपकार उत्तमः ।पापिनां स्वीकृतिस्तिष्ये धर्मः श्रेयस्करस्तदा ॥७३॥अगालितानां पानं च रसानां च कलौ वृषः ।अधवायाः पुत्रवत्त्वं सगर्भात्वं वृषः कलौ ॥७४॥कुमार्या अपि बालस्य जननीत्वं वृषः कलौ ।गणिकायाश्च पूज्यत्वं भाण्डस्यापि कलौ वृषः ॥७५॥मौनिश्लोकमयी चेष्टा व्यवहारः कलौ बहुः ।शाठ्यमैतिह्यमेवापि प्रथमं निर्णये कलौ ॥७६॥त्यागिनश्च कलौ सर्वे व्यापारिणो मठे मठे ।बहुस्त्रीमण्डलाध्यक्षाः सन्न्यासकल्पिनः कलौ ॥७७॥भृत्यद्वारा सुरपूजाक्षेपकास्त्यागिनः कलौ ।गृहस्थाः पूजया हीना अपत्यार्चापरायणाः ॥७८॥शासकानामुभयतोमुखवत्त्वं वृषं कलौ ।धर्मलक्ष्मीप्रभोक्तृत्वं कलौ धर्मो गृहस्थितेः ॥७९॥कलौ धर्मदासंस्थाया भक्षणं मानवो वृषः ।दानं स्वल्पं बहुलं चाऽऽदानं धर्मो हि देहिनाम् ॥८०॥उत्सवेषु कृपणता कन्याधनस्य भक्षणम् ।प्रजाशोषणं बहुलं कलौ धर्मोऽभितस्तदा ॥८१॥अन्याययुद्धकरणं सेवा च कर्मचारिता ।स्वल्पाऽऽशाबहुला लब्धेर्धर्मः कलौ तदाऽभितः ॥८२॥मर्यादानां विलोपश्च राजसी मानसी स्थितिः ।पदे पदेऽनृतता च कलौ वृषोऽभितस्तदा ॥८३॥सर्वजातीयलोकानां सर्वकार्यप्रकारिता ।सर्ववेषाद्यभिधृतिर्धर्मः कलौ समानता ॥८४॥औरसाः क्षेत्रजा दासीपुत्राः कलौ समाः सदा ।दायभागे समास्ते च पुत्र्यश्चापि समास्तथा ॥८५॥धिष्ण्याधिकारवान् यः स समुदायप्रतिष्ठितः ।शिष्यः पुत्रश्च मित्रं वा कलौ संघकृतो महान् ॥८६॥विप्रत्वं तनुमात्रं वै तिष्यान्ते तन्तुनाशनम् ।क्षत्त्रत्वं बलवत्त्वं वै तिष्यान्ते बलनाशनम् ॥८७॥वैश्यत्वं धनवत्त्वं वै तिष्यान्ते धननाशनम् ।शूद्रत्वं भृत्यता तिष्ये तिष्यान्ते भृत्यतालयः ॥८८॥एकाकारं समस्तं वै समधर्माः कलौ जनाः ।बद्रिके तत्र पापं न कलेर्बलाज्जनेषु वै ॥८९॥स्वल्पं दानं साधवेऽपि स्वर्गमोक्षप्रदं तदा ।हरेः कीर्तनमात्रं वै कलौ मोक्षस्य साधनम् ॥९०॥मालिकया जपः कृष्णनारायणेति मोक्षदः ।जपः पापौषधं तिष्ये नाशकं चाघहारकम् ॥९१॥कल्मषाणां क्षालनं सेवनं सतां गुरोर्हरेः ।आन्तरे स्मरणं विष्णोः शोधकं पावनं परम् ॥९२॥भावशुद्धिर्महाशुद्धिस्तिष्ये शुद्धिस्तु नेतरा ।बाह्यशुद्धिः कलौ काचित् सत्त्वशुद्धिस्तु वै क्वचित् ॥९३॥कर्मशुद्धिः कलौ नास्ति पुण्यशुद्धिर्न सर्वथा ।जपशुद्धिः कलौ तत्र शस्यते धार्मिकी हि सा ॥९४॥सर्वार्पणं हरौ कृष्णे गुरौ सनातने प्रभौ ।कलौ धर्मः प्रशस्तो वै मोक्षदस्तत्र चान्तिमः ॥९५॥औदासीन्यं परकृत्ये स्वकृत्ये शान्तवृत्तिता ।कृत्यार्पणं हरौ कृष्णे कलौ मोक्षस्य साधनम् ॥९६॥सर्वेषां देहिनां तिष्ये षट्कं वै मोक्षसाधनम् ।सेवनं चार्पणं भक्तिर्ध्यानं दानं च कीर्तनम् ॥९७॥कृष्णस्य सद्गुरोः सेवा महाशीर्वाददायिनी ।पावनी स्नेहकर्त्री च परधामप्रदायिनी ॥९८॥श्रीहरौ वा गुरौ सर्वार्पणं निष्कर्मरूपि तत् ।नैष्कर्म्यं भोगवर्ज्यं तच्छुद्धिदं मोक्षदं तदा ॥९९॥भक्तिः स्नेहेन दास्यं वै यथाज्ञावर्तनं सदा ।हरौ गुरौ हि कैंकर्यं स्नेहकृन्मोक्षदं तदा ॥१००॥ध्यानं मूर्तेर्धारणं श्रीहरेस्तु हृद्ये सदा ।गुरोर्ध्यानं च हृद्ये तन्मयत्वप्रदायकम् ॥१०१॥तदात्मकता मोक्षो वै नारायणस्वरूपवान् ।नारायणसमा या तु स्थितिः सा ध्यानसत्फला ॥१०२॥विशिष्यते ततो ध्यानं दिव्यवृषः कलौ सदा ।ध्यानं मोक्षप्रदं तस्मान्नारायणांगवासदम् ॥१०३॥दानं नारायणे साधौ दीने विप्रे गुरौ द्विजे ।सत्यां साध्व्यां च विद्यायां परोपकरणादिषु ॥१०४॥सर्वाऽन्तर्यामिरूपे वै कृष्णे दानं प्रमोक्षदम् ।अक्षय्यफलकं दानं स्वल्पं तच्छाश्वतं हरौ ॥१०५॥दानं सकामनादत्तं स्वर्गदं सम्पदाम्प्रदम् ।कृष्णबुद्ध्याऽर्पितं सर्वं निर्गुणं मोक्षदं कलौ ॥१०६॥कीर्तनं सततं विष्णोर्नाम्नां कृष्ण हरे प्रभो ।नारायण महाविष्णो पुरुषोत्तम सद्विभो ॥१०७॥स्वाम्यनादिकृष्णनारायणश्रीकृष्णमाधव ।प्रभोकृष्ण पाशवतीकृष्ण लक्ष्मीश वल्लभ ॥१०८॥भजनं मोक्षदं तिष्ये पापहं च प्रमोददम् ।बद्रिके तै स्मासाद्वै मयोक्तं तिष्यवर्तनम् ॥१०९॥न विस्तारो हि धर्माणां ह्रासशीले कलौ तदा ।कल्पिताश्चानुकूलाश्च धर्मास्तत्र कलौ कृताः ॥११०॥स्वल्पधर्मोऽपि तिष्ये वै त्रायते महतो भयात् ।पठनाच्छ्रवणादस्य तिष्यस्थो निर्भयो भवेत् ॥१११॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कलिधर्माणां संक्षेपतो वर्णनं सेवार्पणभक्तिध्यानदानकीर्तनेतिषट्काऽन्यतमं मोक्षसाधनमित्यादिनिरूपणनामा सप्ताधिकशततमोऽध्यायः ॥१०७॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP