संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४ Translation - भाषांतर श्रीबद्रीश्वर्युवाच-नरनारायणविष्णो कृष्णनारायणप्रभो ।कृष्णकान्तहरे कृष्णश्रीमाणिकीरमाऽऽर्त्तिहन् ॥१॥कथं स बदरो राजा बदरीफलतां गतः ।नरश्च बीजतां प्राप्तस्तन्मे ब्रूहि नरायण ॥२॥श्रीनरनारायण उवाच-शृणु बद्रीरमे देवि तत्कथां पावनीं शुभाम् ।मोक्षकरीं हि भक्तानां पापिनां पापनाशिनीम् ॥३॥बदरो वै महाभक्तो राज्यं धनं गृहादिकम् ।सम्पदः स्त्रीजनं यानवाहनानि प्रजास्तथा ॥४॥कोशं रत्नानि भूमिश्च देहदैहिकमित्यपि ।सर्वं कृत्वा हि कृष्णार्थं व्यवर्तत स साधुवत् ॥५॥न्ययुङक्त दासदासीश्च साधुसेवासु सर्वदा ।सौधेषु साधवस्तस्य निवसन्ति हरेर्जनाः ॥६॥कीर्तनानि सदा तस्यालये भवन्ति बद्रिके ।सर्वस्वं श्रीकृष्णभक्तयोगार्थं त्वकरोद्धि सः ॥७॥आत्मनिवेदितां प्राप्तस्त्वेकदाऽचिन्तयन्नृपः ।निवेदितं मया सर्वं हरये परमात्मने ॥८॥मायिकं सर्वमेवाऽपि तथाऽऽत्माऽपि निवेदितः ।पार्थिवं च जलीयं च तैजसं प्राण इत्यपि ॥९॥सर्वं निवेदितं श्रीमन्नारायणाय चक्रिणे ।गेहं यानं भोजनादि वस्त्रालङ्कारभूषणम् ॥१०॥गन्धसुगन्धतैलादि कृष्णार्थं चौपयोगिकम् ।सर्वं प्रजायते योग्यं सेवार्हं जडवस्तुकम् ॥११॥किन्तु निकृष्टमत्यर्थं वर्ष्म दुर्गन्धिसंभृतम् ।समलं विकृतं क्लेद्यं नोपयोगाय चक्रिणः ॥१२॥भवत्येवाऽशुचि नित्यं मलमूत्रसमन्वितम् ।स्नाय्य्वस्थिमांससंव्याप्तं न्यक्कृतं कुणपं शवम् ॥१३॥सर्वथा नोपयोगार्थं स्वामिनो मे प्रजायते ।जीवच्छवं मृतं भस्म विष्टा मृद् वा प्रकीर्तितम् ॥१४॥कथं कृष्णकृते कार्ष्णसतां कृतेऽस्य योजनम् ।उपयोगि कथं स्याच्च कथं न स्यान्निरर्थकम् ॥१९॥यन्मया पोषितं लक्षवत्सरैः सेवितं शुभैः ।तस्य कथं सतामर्थे ह्युपयोगो भवेदिह ॥१६॥सार्थक्यं च भवेदस्य मानवस्य हि वर्ष्मणः ।करोमि तपसा दिव्यं सतां भोग्यं हरेस्तथा ॥१७॥भक्त्या वा चोपयोगस्थं कुर्वे सेवार्हमेव तत् ।नृपाय साधवः सेवां दिशन्ति न कदाचन ॥१८॥नृपदेहो दीनवच्च करोति सेवनं न च ।तस्मान्नृपस्य देहोऽयं निष्फलोऽद्य प्रवर्तते ॥१९॥सफलं तं करोम्येव तपसाऽऽराधनेन च ।यद्धिष्ण्यं न तु देवाय तद्धिष्ण्यं धिक्कृतं मतम् ॥२०॥यच्छिरो देवनमने नोपयुक्तं तु धिक्कृतम् ।ये नेत्रे न दर्शनार्थे देवानां तेऽपि धिक्कृते ॥२१॥ये श्रोत्रे न श्रवणार्थे देवानां तेऽपि धिक्कृते ।यल्ललाटं न देवार्हचन्दनादिप्रसादवत् ॥२२॥तन्निर्भाग्यं सदा बोध्यं भालं भल्लुकभालवत् ।या नासा श्रीहरेर्गन्धग्राहिणी नैव वर्तते ॥२३॥सा शुष्कतिलपुष्पाभा गह्वराढ्या न शोभना ।यन्मुखं श्रीहरेर्वाचं न गृणाति कदाचन ॥२४॥न कीर्तनं न मोदं च तन्मुखं मूर्खकर्कवत् ।या जिह्वा न रसं वेत्ति नारायणप्रसादजम् ॥२५॥सा तु दर्वीव बोध्या वा दर्दुरीव च निर्गुणा ।यन्मुखं सुन्दरं रम्यं हरेर्भोग्यं न चेद्यदि ॥२६॥राहुग्रस्तं सदा तत्तु बोध्यं सुयोषितामपि।नरस्य च मुखं तत्तु वानरास्यसमं मतम् ॥२७॥यन्मुखं न हरेर्नारायणाऽऽस्यरसवेदि तत् ।ताम्बूलरसशून्यं च तद्बिलं मूषकस्य वै ॥२८॥यः कण्ठो न हरेः कीर्तिगीतिमग्नोऽतिसुस्वरः ।स बोध्यः कीचकवद्धि वृथास्वननिनादवान् ॥२९॥यद्वक्षो न हरेर्योग्यं यन्नोरः श्रीहरेः श्रितम् ।यत्र नास्ति हरेर्वासस्तद्वक्षो वृक्षनीडकम् ॥३०॥यद्वक्षसि स्वयं कृष्णो न शेते हारवत्तु तत् ।शववक्षोऽशुचिबोध्यं वृथास्तनविलम्बितम् ॥३१॥यौ स्तनौ श्रीकृष्णकान्तकरपद्मतलाऽस्पृशौ ।तौ पिण्डौ चाऽमंगलौ वै रसालीग्रन्थिसदृशौ ॥३२॥यौ स्कन्धौ कृष्णहस्ताभ्यां नाऽऽश्लिष्टौ स्तम्बिनौ तु तौ ।यः पृष्ठः कृष्णशयने स्पृष्टो नैव स काष्ठवत् ॥३३॥उदर यद् रमाकान्तोदरलग्नं न तद् दरम् ।नाभिः कृष्णेन दृष्टा न सा गर्तः खनिरूपवत् ॥३४॥कटिर्जघनं गुप्तं च स्पृष्टं कृष्णेन नैव यत् ।तद् याम्यं चालयं बोध्यं पापाश्रयं समस्तकम् ॥३५॥नितम्बौ सक्थिनी जानू जंघे पादौ च पत्तले ।कृष्णस्पर्शमनापन्ने वृक्षस्तम्बनिभे तु ते ॥३६॥मनो यत् कृष्णविरहं रौरवं तत्तु वै मतम् ।बुद्धिर्या कृष्णशून्या सा कुंभिपाकात्मिका खनिः ॥३७॥चित्तं कृष्णविहीनं यत् तत्तु शृगालसदृशम् ।अहन्ता कृष्णशून्या या सा वृकीव विनाशिनी ॥३८॥गुणत्रयं कृष्णशून्यं तत्तु त्रिदोषरूपि यत् ।अवस्थात्रितयं कृष्णशून्यं त्वघत्रयं हि तत् ॥३९॥रूपं कृष्णानपेक्षं यत् तत् श्वित्रं सर्वदा मतम् ।रसः कृष्णविहीनो यः स वै वैतरणी नदी ॥४०॥गन्धः कृष्णविहीनस्तु मलपात्रनिभः स वै ।शब्दः कृष्णेन विधुरो घूकशब्दो हि सर्वथा ॥४१॥स्पर्शः कृष्णेन हीनस्तु विषानलसमः स हि ।रतिः प्रीतिः सुखं मोदः कृष्णहीनास्तथोत्सवाः ॥४२॥सर्वे ते नारका बोध्या आनन्दा निरयात्मकाः ।कृष्णयुक्तं समस्तं वै स्वल्पं महत्तु यद् भवेत् ॥४३॥तत्तु दिव्यं शाश्वतं च मोक्षप्रदं महामृतम् ।श्रीकृष्णस्य सतामर्थे यद् भवेदुपकारकम् ॥४४॥चेन्निकृष्टं भवेत् तत्तु चोत्कृष्टं सुरवन्दितम् ।अपि मज्जाऽस्थिचर्मादि कृष्णार्थं योजितं भवेत् ॥४५॥सर्वं दिव्यं मुक्तिदातृ सार्थकं नरवर्ष्म तत् ।वृक्षाः कृष्णकृते यानरूपा भवन्ति सार्थकाः ॥४६॥हस्तिदन्तास्तृणवल्ल्यो भवन्ति भूषणासनम् ।चमरीपुच्छवालानां चामरं जायते शुभम् ॥४७॥कस्तूरिका मृगस्याऽपि मता कृष्णोपयोगिनी ।मृगसिंहादिचर्माणि भवन्ति चासनान्यपि ॥४८॥शुक्त्यादीनि च रत्नानि भूषणानि भवन्त्यपि ।कन्दमूलफलानां च नैवेद्यं जायते हरेः ॥४९॥कणानां मिष्टभोज्यानि जायन्ते परमात्मनः ।दुग्धादीनि गवोत्थानि पेयानि संभवन्त्यपि ॥५०॥माक्षिकं च मधुरं च मधु भक्ष्यं प्रजायते ।कौशेयं कीटजं वस्त्रं कृष्णार्थं चौपयोगिकम् ॥५१॥धातवः खनिजाश्चापि हेतिरूपा भवन्त्यपि ।शंखः सामुद्रजन्तूत्थो वाद्यरूपो भवत्यपि ॥५२॥मणयोऽपि शरीरोत्था मौक्तिकानि च वै स्रजि ।धार्यन्ते कृष्णकान्तेन सर्वं तथौपयोगिकम् ॥५३॥अपि हंसस्य पृष्ठं च गरुडस्य गजस्य च ।अश्वस्यापि हरेः शुभासनयोग्यं भवत्यपि ॥५४॥किन्त्वयं नरदेहो वै नास्ति कृष्णौपयोगिकः ।सतां वा नोपयोगार्थस्ततो निरर्थकः सदा ॥५५॥एवं व्यचिन्तयद् राजा बहुधा निजवर्ष्मणः ।अपि वै कज्जलं कृष्णं कृष्णनेत्रासनं भवेत् ॥५६॥तत्तुल्योऽपि न वै देहो नरस्याऽतो निरर्थकः ।नारीदेहो हरेरर्थे दास्या इव कृतार्थकः ।५७॥तत्तुल्यो न नरदेहो यः कृष्णार्थो न वर्तते ।तस्मान्मया तु कृष्णार्थः साधुसाध्व्यर्थ इत्यपि ॥५८॥ऋषिमुन्यर्थ एवापि कर्तव्यस्तापसार्थकः ।भुक्तं राज्यं कृतं सर्वं कर्तव्यं नाऽवशिष्यते ॥५९॥विशालाख्यो युवा पुत्रो योग्योऽस्ति राज्यकोविदः ।तस्मै समर्प्य राज्यं मे कार्यं कृष्णार्पणं तनु ॥६०॥विचार्येत्थं स बदरः समाहूय प्रजाजनान् ।प्रकाशं हृदयं कृत्वा प्राप्य प्रजामतानि च ॥६१॥महोत्सवेन पुत्राय विशालाख्याय वै धुरम् ।ददौ राज्यस्य धर्म्यां च मनो मोक्षेऽकरोत्ततः ॥६२॥नरनारायणशालां समासाद्य हिमालये ।व्यचिन्तयन्निजं देहं सतां सेवौपयोगिकम् ॥६३॥नारायणस्य सेवायां तथा यथौपयोगिकम् ।तस्थौ समाधौ सहसाऽऽत्मन्यात्मानं निधाय सः ॥६४॥स्नेहातिशयमासाद्य नरनारायणप्रभौ ।तल्लीनः सम्बभूवैव विस्मृत्य देहमात्मनः ॥६५॥ब्रह्मानलेन सम्पूर्णो ज्ञानाऽग्निनाऽतिभासुरः ।स्नेहशिखिना द्रवितो विदेहः सहसाऽभवत् ॥६६॥सर्वेषां मुनिवर्याणां पश्यतां द्रवतां गतः ।रोमलोहितमांसानि स्नाय्वस्थिमज्जिकास्ततः ॥६७॥वीर्यं चैतानि सर्वाणि रसात्मकानि चाऽभवन् ।बदर्याः श्रीमाणिकीश्रीरूपायाः पादभूस्थले ॥६८॥रसः सर्वः खाद्यरूपो व्यलीयत तदा द्रुतम् ।महाश्चर्यमिदं जातं श्रीपादयोः समर्पितः ॥६९॥यादृशी भावना चान्ते तथा भवति देह्यपि ।तूर्णं बदरो राजाऽसौ रसभावमुपागतः ॥७०॥द्रवखाद्यस्वरूपो वै बद्रीमूलेष्वलीयत ।बद्रीस्तम्बे चाविवेश रसरूपोऽतिमिष्टकृत् ॥७१॥शाखासु सहसा व्याप्तः पुष्परूपोऽभवत्तथा ।फलरूपोऽभवच्चापि बदराणि ततोऽभवन् ॥७२॥महाश्चर्यमिदं जातं बदरेण निजं वपुः ।कृत्वा रसं द्रवितं तत् फलरूपं प्रपादितम् ॥७३॥बद्रीफलानि मिष्टानि तानि पक्वानि सर्वशः ।सुगन्धीनि सुरूपाणि महान्ति तृप्तिदानि च ॥७४॥माणिक्याश्रीगर्भजानि पावनानि तदाऽभवन् ।प्रसादजानि सर्वाणि बदराणि तदाऽभवन् ॥७५॥नरनारायणो देवो जग्राह कानिचित्तदा ।नैवेद्येऽभुङ्क्त भग्वान् मधुराणि फलानि वै ॥७६॥अथाऽन्ये ऋषयो देवा गन्धर्वा मानवाः सुराः ।ये ये त्वासन् हिमाद्रौ ते चखदुः सत्फलानि वै ॥७७॥एकं फलं वर्षकालतृप्तिदं तद् व्यजायत ।मधुगर्भं समस्तं वै तापसानां हि तृप्तिकृत् ॥७८॥चतुर्दशसु लोकेषु प्रशंसा संव्यजायत ।सुधाश्रेष्ठानि हिमवद्गिरौ बद्रीफलानि वै ॥७९॥नारायणप्रसादानि प्राप्यन्ते तृप्तिदानि वै ।परम्परया त्वाकर्ण्य पितरः सिद्धचारणाः ॥८०॥ऋषयो मानवा देवास्तथाऽन्ये देहिनो गिरौ ।आययुः फललाभार्थं नारायणोऽपि सन्ददौ ॥८१॥प्राप्य फलानि सर्वेऽपि सुधोर्ध्वस्वादवन्ति वै ।अत्त्वा तृप्तिं वार्षिकीं चावापुः सर्वे सुखप्रदाम् ॥८२॥ये येऽदन्ति फलान्यस्यास्ते ते प्रयान्ति दिव्यताम् ।बलं पुष्टिं च वीर्यं च सहस्रधाऽऽप्नुवन्ति ते ॥८३॥श्रुत्वा श्रुत्वा समायान्ति नीत्वा नीत्वा प्रयान्ति च ।दृष्ट्वा हिमालयं बद्रीं नरनारायणाश्रमम् ॥८४॥बदराणि विचित्राणि मोदन्ते त्वण्डवासिनः ।महोत्सवः समस्तानां जातो बदरभोजिनाम् ॥८५॥अब्धौ तु पर्वतं वीक्ष्य माणिक्यां बदरीं तथा ।कृष्णनारायणं वीक्ष्य नरनारायणात्मकम् ॥८६॥तापसं जटिनं चापि नवां सृष्टिं हि मेनिरे ।यात्रार्थं तीर्थवर्यं वै जातं बदारकाश्रमम् ॥८७॥सुवताराः पार्षदाश्च व्यूहा ईश्वरकोटयः ।ईश्वराण्यः सुरा देव्यश्चाययुः फलवाञ्च्छया ॥८८॥यथा यथा बदराणि नीयन्ते तु तथा तथा ।द्रागेव नूतनान्येव प्रोद्भवन्ति द्रुमेऽभितः ॥८९॥बदरोऽयं महाराजः स्नेहबदरसद्रसः ।फलरूपोऽतिभक्त्याऽभूत् सर्वभोग्यशरीरकः ॥९०॥अव्ययश्चाऽक्षयश्चाऽपि तथा संख्याविवर्जितः ।दिव्यरसो ब्रह्मरसात्मकः श्रीरस उत्तमः ॥९१॥व्यजायत कृपयाऽपि नरनारायणस्य वै ।लक्ष्म्याश्च कृपया चापि फलपुत्रात्मकः सदा ॥९२॥माणिक्याफलरूपः स सदा दिव्यफलोऽभवत् ।बद्रीदेवी सफलाऽभूद् वृक्षरूपाऽपि सर्वदा ॥९३॥नारायणोऽपि भगवान् फलपुत्राऽन्वितोऽभवत् ।ब्रह्मचर्यव्रतस्थोऽपि बदरस्य पिताऽभवत् ॥९४॥माणिक्याश्रीः सदा शीलव्रता च बालयोगिनी ।बदराख्यफलैर्वंशपुत्रवती सदाऽभवत् ॥९५॥तानौमानि बदराणि नारायणात्मकानि वै ।लक्ष्यात्मकानि दिव्यानि मुक्तभोज्यानि चाऽभवन् ॥९६॥तस्माद्बद्रीफलभोक्ता कृष्णमूर्तेर्महासुखम् ।भुंक्ते मूर्त्यानन्दभोक्ता स एव बदरीवने ॥९७॥अमायिकानि सर्वाणि बदराणि शुभानि वै ।चैकतत्त्वमयान्येव सन्ति तद्बदरीद्रुमे ॥९८॥एवं वै बदरीदेवि बदरः फलतां गतः ।अतिभक्त्या रसभावं द्रवं प्राप्य द्रुमे स्थितः ॥९९॥महाभागवतानां हि सर्वं कृष्णार्पणं मतम् ।दिव्यं सर्वं भवत्येव श्रीकृष्णानुग्रहात्तथा ॥१००॥मायाऽप्यमाया भवति देहोऽप्यदेह इत्यपि ।गुणाश्चाऽगुणतां यान्ति जडं दिव्यं सचेतनम् ॥१०१॥कृष्णार्पितं समस्तं वै कृष्णात्मकं प्रजायते ।एवं श्रीमाणिकीदेवि तव भक्तकथानकम् ॥१०२॥दिव्यं श्रीबदरीदेवि मोक्षकृत् कीर्तितं मया ।पठनाच्छ्रवणादस्य भुक्तिं मुक्तिं गतिं लभेत् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने वदराख्यनृपस्य स्वदेहस्यौपयोगिकतासिद्ध्यर्थं बदरीमूले तपसा भक्त्या रसात्मकता बदरात्मकफलरूपता चेत्यादिनिरूपणनामाचतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP