संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४१ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये तत्र शर्कराख्ये सुपत्तने ।रायहरेर्मन्दिरे तु महोद्यानसुमण्डिते ॥१॥कथाशालास्थले पारायणं वत्सरवर्तनम् ।कोटिरायो नृपो रायहरेः श्रेयोऽभिलब्धये ॥२॥योजयामास वै स मासे त्वाषाढैकादशीदिने ।आदितश्चाह्वयामास दूतैः साधूँश्च भूसुरान् ॥३॥व्यासान् प्रपाठकाँश्चापि जापकाँश्च सहस्रशः ।आययुः सर्वतः सन्तो विप्राः साध्व्यश्च वैष्णवाः ॥४॥स्वप्रकाशो हि भगवान् मुख्यवक्ताऽभवत्तदा ।लोमशश्च मुनिस्तत्र गुरुः पूजाकरोऽभवत् ॥५॥अन्ये सौराष्ट्रदेशीया आजनाभाश्च पूर्वजाः ।प्राचीनब्रह्मभूमिस्था राशियानोद्भवास्तथा ॥६॥परीप्रदेशजाश्चापि तथाऽमरीप्रदेशजाः ।अब्रिक्तादिप्रदेशोत्थाः सन्तो विप्राः समाययुः ॥७॥उष्ट्रप्रदेशजाताश्चाप्यारार्त्रिकोत्थाश्च साधवः ।द्वीपोपद्वीपजाश्चाद्रिवनारण्यसमुद्रजाः ॥८॥संहितारसवेत्तारः सन्तस्तत्र समाययुः ।साध्व्यश्च सांख्ययोगिन्यो मुक्तानिकाः समाययुः ॥९॥ऋषयो मुनयो विप्रा विद्वांसस्तत्र चाययुः ।आमन्त्रिताः सर्वभुवां वैष्णवा लक्षकोटयः ॥१०॥चातुर्मास्ये व्रते पारायणे तथा विशेषतः ।वार्षिके वृषनिष्पाद्ये चाययुर्ब्रह्मवित्तमाः ॥११॥तेषां कृते समस्तानां राज्यप्रासादभूतयः ।अर्पिताः स्वागतसौख्यभोगवासार्थमुत्तमाः ॥१२॥यथा राजर्द्धयो राजभोग्यास्तथा तु भूसुरैः ।अविशेषेण भोग्या वै ह्यासन् बद्रीप्रिये तदा ॥१३॥घृतकुल्या दधिकुल्या रसकुल्या सशर्कराः ।मधुकुल्याः पयःकुल्याः पानकुल्याः सहस्रशः ॥१४॥सिन्धुसरित्तटे तत्र निर्मिता दीर्घवाहिकाः ।विशाला भोज्यशालाश्च दिवानिशं प्रवर्तिताः ॥१५९॥पानभोजनदायिन्यो दास्यो दासाश्च लक्षशः ।यावद्द्रव्याणि तु पणे न्यस्तानि विजितान्यपि ॥१६॥उभाभ्यां तु नृपाभ्यां वै तानि यज्ञार्थमेव ह ।अर्पितानि व्ययार्थं वै कोटिरायेण सर्वथा ॥१७॥महासौधे पूरितोऽस्ति रायहरिर्नृपस्तदा ।उन्मत्तो राक्षसो यद्वद् भाणवाणी तथाविधा ॥१८॥सर्वे पश्यन्ति राजानं शापदग्धं विचित्तकम् ।भाणवाणीं सर्वनाशकरीं दुरोदरोदराम् ॥१९॥शापदग्धां तथोन्मत्तां व्यपश्यन्ति जनास्तदा ।एतयोः श्रेयसे पारायणं प्रजायते त्विति ॥२०॥वदन्ति दर्शकास्तत्र शंसन्ति चन्द्रिकेश्वरीम् ।पतिव्रतां महासाध्वीं पश्यन्ति च नमन्ति ताम् ॥२१॥महाश्चर्यपरा लोकाः कोटिशो वैष्णवास्तदा ।खानपाननिवासस्वागताद्यैः परितोषिताः ॥२२॥आषाढैकादशीप्रातःकाले सभास्थले ययुः ।मण्डपं तु विशालं योजितं स्वर्णसुरूपिणम् ॥२३॥व्यपश्यन् चाऽपरं स्वर्गं सुधर्मां वा सभामिव ।विमानमिव तत्राऽऽसीद् व्यासासनं महत्तमम् ॥२४॥स्वर्णहीरकसन्नद्धं स्वर्णतोरणमण्डितम् ।वितानचन्द्रभास्वच्च बहुमौक्तिकसंभृतम् ॥२५॥पुष्पहारादिभिः शृंगारितं हंसादिराजितम् ।पताकिकाध्वजव्याप्तं हारतोरणकोज्ज्वलम् ॥२६॥मृदुगेन्दुकपार्श्वध्रपृष्ठध्रादिसमन्वितम् ।दर्पणाद्यैश्चित्तहरं स्वर्णवस्त्रादिभूषितम् ॥२७॥स्वर्णकदलीसंस्तम्भं संहितापट्टकान्वितम् ॥२८॥पूजासामग्रिकापात्रसर्वोपचारसंहितम् ।कृत्रचामरवेत्राद्यैरलंकृतजनैर्युतम् ॥२९॥विप्रैः सद्भिश्चाक्षताद्यैः पुष्पहारैः प्रवर्धितम् ।व्यासासने तत्र विप्रः स्वप्रकाशपरायणः ॥३०॥संहिताया मुख्यवक्ता निषसाद शुभे क्षणे ।तदा वाद्यान्यवाद्यन्त जयशब्दास्तथाऽभवन् ॥३१॥संहिता पट्टके न्यस्ता पूजिता पारमेश्वरी ।लोमशेन महामुक्तवर्येण बद्रिके तदा ॥३२।लक्ष्मीदेवी स्वयं साक्षात् संहितायां व्यदृश्यत ।दिव्या प्रसन्नवदना सर्वतेजोभिवर्धिता ॥३३॥सर्वालंकारशृंगारशोभाढ्या सुमनोहरा ।नारायणं हृद्ये स्वे दधाना ज्ञानसागरा ॥३४॥अथ नारायणकृष्णस्तदा तस्मिँस्तु वक्तरि ।व्यदृश्यत चतुर्बाहुः स्वप्रकाशपरायने ॥३५॥सर्वशोभाकरः कृष्णनारायणः प्रमेश्वरः ।माणिकीललिताराधारमाश्रीमाधवीप्रियाः ॥३६॥सर्वास्तदाऽभवन् पार्श्वे पूजापात्रादिधारिकाः ।मुक्ता मुक्तानिकाश्चासँस्तदा तत्सन्निधौ शुभाः ॥३७॥विप्राश्च मुनयः सन्तः साधवश्च महर्षयः ।सुरा देव्यश्च तीर्थानि तत्र त्वासन्नुपस्थिताः ॥३८॥पौरुषेण तु सूक्तेन श्रीसूक्तेन तथा तदा ।नारायणेन सूक्तेन देवीसूक्तेन वैदिकैः ॥३९॥मन्त्रैः पूजां संहितायास्तथा व्यासस्य लोमशः ।अकरोद् विधिना तत्राऽऽरार्त्रिकं कोटिराजकः ॥४०॥अकरोच्चन्दनपुष्पाक्षताम्बरसुवर्णकैः ।धनैस्तथोपचारैश्च गन्धिसारादिभिः फलैः ॥४१॥मङ्गलं वाचयामास महाशीर्वादपूर्वकम् ।संकल्पं कारयामास लोमशः श्रेयसे तयोः ॥४२॥कथाश्रवणमग्नाश्चोपतस्थिरे क्षणेऽत्र च ।सभा पूर्णाऽभवल्लक्षलक्षलक्षाधिमानवैः ॥४३॥स्वप्रकाशोऽपि भगवान् शिष्यः श्रीपरमात्मनः ।अनादिश्रीकृष्णनारायणस्य मङ्गलं व्यधात् ॥४४॥श्रीमद्ब्रह्मपुराधिपोऽक्षरपतिः सर्वावतारेश्वरो,मुक्तब्रह्मनिषेवितांऽघ्रियुगलो राधारमेशेश्वरः ।यश्चाऽसंख्यनरायणाधिवसतिः श्रीकृष्णकृष्णेश्वरः,सोऽयं कृष्णनरायणोऽस्तु सुखदः सौराष्ट्रधामेश्वरः ॥४५॥यः पृथ्व्यां विचरन् पुरा क्षितिभृतामोक्षप्रमोदावहो,दैत्यानां विलयंकरोऽर्बुदसतीसाध्वीभुजाधारकः ।जीवानां नरयोषितामघहरः श्रेयोविधाताऽऽत्मनां,सोऽयं कुंकुमवापिकाऽक्षररविः श्रीसंहितादैवतम् ॥४६॥नत्वा तं परमात्मानं लक्ष्मीनारायणात्मकम् ।तद्विज्ञानमयं शास्त्रं श्रावयिष्यामि मोक्षदम् ॥४७॥अनादिश्रीकृष्णनारायणोऽस्तु हृदये सदा ।कथासु जायमानासु मोक्षदो भक्तवल्लभः ॥४८॥परब्रह्म नमस्कृत्य कृष्णनारायणं हरिम् ।कंभराश्रीं च गोपालं नत्वा जयं समुच्चरेत् ॥४९॥स्मरामि परमात्मानं नमामि वल्लभम्प्रभुम् ।निर्दिशामि हरेर्भक्तिं शंसामि सेवनं सताम् ॥५०॥इत्येवं बद्रिके कृत्वा मंगलं बीजसंभृतम् ।लक्ष्मीनारायणसंहितायाः कथामवाचयत् ॥५१॥तदा देवा मानवाश्च परेऽपि देहिनः खलु ।अनादिश्रीकृष्णनारायणध्यानार्थिनोऽभवन् ॥५२॥कृष्णमूर्तौ कथामूतौ दत्तध्यानास्तदाऽभवन् ।कथासारं पपुस्तत्र संक्षेपाद् विस्तरादपि ॥५३॥प्रत्यहं तु कथान्ते ते कुर्वन्ति परमात्मनः ।'हरेकृष्ण बालकृष्ण हरिनारायण प्रभो ॥५४॥अनादिश्रीकृष्णनारायण मोक्षप्रदप्रभो ।नामसंकीर्तनं त्वेवं समस्ता वाद्यसंगताः ॥५५॥तालिकाभिर्नृत्यगीतैर्भजनं चक्रिरे मुदा ।कथान्ते जायते त्वारार्त्रिकं नैवेद्यमुत्तमम् ॥५६॥पूजा व्यासस्य तत्रैव जायते प्रत्यहं शुभा ।जापका भूसुराद्याश्च जयन्ति परमेश्वरम् ॥५७॥सायं होमः सदा तत्र प्रज्वायतेऽनलप्रभौ ।प्राघूणिकाननेष्वत्र मिष्टहोमा भवन्ति च ॥५८॥दुग्धापानानि देवानां हवनानि भवन्ति च ।भूसुराणां सतां भोज्यं दुग्धसारादि चामृतम् ॥५९॥सर्वेषां देहिनां तत्र भेदभावो न विद्यते ।यद्देवानां नृपाणां चर्षीणां तत् सर्वदेहिनाम् ॥६०॥प्रत्यहं भक्ष्यभोज्यादि खानपानादि सदृशम् ।कथा प्रजायते प्रातस्तथा सायं तु सर्वदा ॥६१॥आरार्त्रिकं समाप्तौ च प्रत्यहं पूजनादिकम् ।अनादिश्रीकृष्णनामधुन्यं प्रजायतेऽनिशम् ॥६२॥वितरणं प्रसादानां भोजनानां प्रदानकम् ।सुवर्णादिप्रदानानां चार्पणं प्रत्यहं तदा ॥६३॥एवं समुत्सवो जातो बद्रिके संहितात्मकः ।लक्षशो मानवा ज्ञानामृतं पीत्वा तु पावनाः ॥६४॥भूत्वा भूत्वा महाभागवता भवन्ति तत्र वै ।ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥६५॥इतिमन्त्रप्रदानं च करोति लोमशो मुनिः ।आश्चर्याणि कथायां तु विचित्राणि भवन्त्यपि ॥६६॥विमानानि सुराणां वै श्रवणार्थं तदाऽम्बरे ।समागत्याऽवतिष्ठन्ति पुष्पचन्दनवर्षणम् ॥६७॥कृत्वा प्रयान्ति सततं स्वर्गं स्वर्गागतानि वै ।अदृश्या दिव्यदेहाश्च तीर्थर्षियोगिनस्तदा ॥६८॥आगत्याऽऽकर्ण्य खे स्थित्वा नीत्वा यान्ति प्रसादकम् ।वाद्यानि देवलोकानां गन्धर्वाणां च गीतयः ॥६९॥अप्सरसां गीतिकाश्च नर्तनं वारयोषितम् ।साध्वीनां भजनं घोषा विप्रवेदोद्भवास्तदा ॥७०॥उत्सवान्ते प्रजायन्ते प्रत्यहं व्याससेवनम् ।गुरूणां सेवनं साधुवर्गाणां पूजनादिकम् ॥७१॥स्वागतं त्वागतानां विगतानां मानपूजनम् ।मधुपर्को नूतनानां प्राचीनानां तु दक्षिणाः ॥७२॥दीयन्ते प्रत्यहं तत्राऽनाथादीनां यथेष्टकम् ।प्रेता आगत्य शृण्वन्ति कथां परमपावनीम् ॥७३॥प्रसादं संप्रगृह्णन्ति यान्ति मोक्षपदं ततः ।विमानैस्ते प्रयान्त्येव कथयित्वा ह्युदन्तकम् ॥७४॥अहं भोग्यं सिन्धुजानां तदा श्रीबद्रिके परम् ।महाभागवताः सन्तो राजन्ते यत्र वैष्णवाः ॥७५॥लक्ष्मीनारायणसंहितायाः कथा भवन्ति च ।प्रवर्तन्ते हरेर्लीलाज्ञानधर्मयुताः कथाः ॥७६॥संहितातीर्थमत्रेदं ख्यातं तर्ह्यभवत्ततः ।भाणवाणी रायहरिः शृणुतः प्रत्यहं कथाः ॥७७॥भुंजाते च प्रसादौ तौ पिबतश्च जलामृतम् ।पापप्रक्षालनं प्रजायते शनैः कथामृतैः ॥७८॥कथाश्रवणयोगेन जायते त्वात्मशोधनम् ।सतामाशीर्वादलाभैर्जायते शापमोक्षणम् ॥७९॥एवं शुद्धिः शनैर्जाता चातुर्मास्ये विशेषतः ।व्रतदानफलानां चार्पणं कृतं कुटुम्बिभिः ॥८०॥तत्पुण्येन तयोः स्वास्थ्यं शनैः शनैरुदैच्छुभम् ।कथायां वर्तमानायामूर्जमासः समाययौ ॥८१॥कृष्णाष्टम्यां बालकृष्णजन्मजयन्तिकोत्सवम् ।चक्रुर्नृपाः प्रजाश्चापि महीमाना नराः स्त्रियः ॥८२॥महर्षयस्तथा देवा मानवाः साधवस्तथा ।साध्यो विप्रा वैदिकाश्च प्रचक्रुस्ते महोत्सवम् ॥८३॥षष्ठ्यां नृपः कोटिरायः परिमेयपुरःसरः ।प्राप्य पत्रं लोमशर्षेः श्रीकृष्णाऽऽनयनाय सः ॥८४॥अनादिश्रीकृष्णनारायणं श्रीपरमेश्वरम् ।कुंकुमवापिकातीर्थं सौराष्ट्रे व्योमवर्त्मना ॥८५॥विमानेनाऽऽययौ कृष्णनारायणालयान्तिकम् ।अवातरन्मन्दिराग्रे बालकृष्णं विलोकितुम् ॥८६॥पूजयितुं तथाऽऽमन्त्रयितुं कृष्णाऽग्रतोऽभवत् ।कृताञ्जलिः कृतपूजः स्वागतं प्राप्य दर्शनम् ॥८७॥मोदं प्राप्य श्रीहरये हृदयं प्रसमर्प्य च ।सर्वं निवेदयामास प्रार्थयामास कारणम् ॥८८॥जन्मजयन्ती भगवन्नेकविंशतिका शुभा ।आगत्य सिन्धुजान् देशान्. शर्करानगरान्तिके ॥८९॥संहितामण्डपे कार्या स्वयं भगवता प्रभो ।कृपया नेतुमायातः श्वो गतिस्तत्र रोचते ॥९०॥सप्तम्यां शर्कराभूमौ मध्यन्दिने समागमः ।कर्तव्यो भवता तत्र महास्वागतमुत्तमम् ॥९१॥भविता भगवँस्तस्मादागन्तव्यं कृपालुना ।हरिः प्राह शुभं भूयादागन्ता ओमिति द्रुतम् ॥९२॥राजा रात्रौ तु विश्रामं जग्राह तीर्थमाचरन् ।प्रातः सज्जो बभूवाऽपि कृष्णनारायणाज्ञया ॥९३॥माता पिता ऋषयश्च सन्तः सज्जास्ततोऽभवन् ।विधाय स्वं द्विधा रूपं विमानं चारुरोह वै ॥९४॥विमानस्थाः समस्तास्ते द्वेधा कृताः परात्मना ।विमानं प्रययौ तूर्णं चाम्बरेण तु बद्रिके ॥९५॥सिन्धुदेशं समप्रापच्छ्रीमत्कृष्णनरायणः ।द्वितीयेन स्वरूपेण कुंकुमवापिकास्थितः ॥९६॥जन्माऽहोत्सवलाभार्थं स्वगृहे श्रीहरिं स्वयम् ।आगतानां मनस्तुष्ट्यै कुंकुमवापिकास्थितः ॥९७॥सिन्धुजानां मनस्तुष्ट्यै सिन्धुदेशं गतोऽपि च ।एवं श्रीमद्बालकृष्णः सिन्धुतीरमवातरत् ॥९८॥सूर्यभास्वद्विमानं तत् पूजितं प्रथमं जनैः ।हरिर्नियेत् विमानाच्च जयशब्दैः प्रपूजितः ॥९९॥नेत्रार्पणैर्हर्षनादैरक्षतैः कुसुमैः शुभैः ।पूजितश्चन्दनाद्यैश्च पुष्पहारैः प्रपूजितः ॥१००॥लाजाभिर्वर्धितश्चापि कराञ्जलिभिरर्चितः ।हार्दैर्भावैरिङ्गितैश्च निजनाथौकृतो जनैः ॥१०१॥प्रतिकृतिसहस्रात्मा छायामूर्तिः कृतो हरिः ।नारीभिश्च नरैः कृष्णः प्रतिबिम्बित आत्मसु ॥१०२॥अथ कृष्णो ययौ कोटिरायदर्शितमन्दिरम् ।लोमशाद्याः प्रणेमुस्तं पुपूजुः स्वागतादिभिः ॥१०३॥जलपानं ददुश्चापि चन्द्रेश्वरी महासती ।चन्द्रकं कौंकुमं चाप्यक्षतैर्युक्तं चकार सा ॥१०४॥पुष्पमालां ददौ कण्ठे कृष्णस्य चन्द्रिकेश्वरी ।दिनेश्वरी हरेस्तत्र पादप्रक्षालनादिभिः ॥१०५॥सम्मानमाचरत् पूजां व्यधाद् भावभरा तदा ।अन्येऽपि श्रीहरेर्लोका देवाः प्रजाजना अपि ॥१०६॥महर्षयश्च ऋषयो व्यधुः पूजां हरेस्तदा ।ययुः सर्वे कुशलं वै पृष्टाः स्वस्वनिकेतनम् ॥१०७॥कृष्णनारायणस्तत्र विश्रान्तिमाप वै क्षणम् ।बद्रिके सर्वतस्तत्र परानन्दो व्यवर्तत ॥१०८॥इति श्रीलक्ष्मीनारायणौयसंहितायां चतुर्थे तिष्यसन्ताने शर्करानगरे संहिताकथारम्भे सर्वलोकवासिनां तथा जन्मजयन्त्यां श्रीकृष्णनारायणस्य चागमः स्वागतादिकं चेत्यादिनिरूपण-नामैकचत्वारिंशोऽध्यायः ॥४१॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP