संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९८ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९८ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९८ Translation - भाषांतर श्रीनरनारायण उवाच-ततः बद्रीप्रिये देवि भगवान् श्रीप्रमापतिः ।जम्बूद्वीपेश्वरसौधं विमानेन ययौ द्रुतम् ॥१॥आग्नीध्रः पूरयामास मानयामास माधवम् ।राजाधिराजशोभाभिः सिषेवे माधवीपतिम् ॥२॥राज्ञ्यः सर्वा महालक्ष्मीराधादियोषिदर्हणम् ।चक्रुर्महोपदादानैः सिषेविरेऽतिभावतः ॥३॥आग्नीध्रस्य नव पुत्रा निन्युर्नारायणं ततः ।नाभिर्हिमाह्वये राज्ये निनाय परमेश्वरम् ॥४॥पुपूज परया प्रीत्या महोपदा ददौ तथा ।किंपुरुषो भूपतिश्च हेमकूटाह्वये निजे ॥५॥महाखण्डे महाराज्ये निन्ये पुपूज भावतः ।हरिर्भूपो नैषधाख्ये वर्षे निनाय माधवम् ॥६॥पुपूज भावभक्त्या तं ददावुत्तमसन्मणीन् ।इलावृतो नृपो निन्ये खण्डे चेलावृते निजे ॥७॥गोपीपतिं पुपूजाऽप्युपदाश्च प्रददौ मणीन् ।रम्यो राजा हरिं नीत्वा नीलाचलाख्यखण्डके ॥८॥पुपूजाऽपि सिषेवेऽपि भोजयामास चादरात् ।हिरण्वान्नृपतिर्निन्ये श्वेतवर्षे निजे हरिम् ॥९॥पुपूज परया प्रीत्योपदा ददुस्तथोत्तमाः ।कुरुराजो हरिं निन्ये निजोत्तरकुरून् प्रति ॥१०॥पुपूज रामरामेशं स्वर्णद्रव्यादिभिस्तदा ।भद्राश्वो नाम राजाऽपि पूर्ववर्षे निनाय तम् ॥११॥पुपूज परया प्रीत्योपदा ददौ शुभोत्तमाः ।केतुमालस्ततो राजा निनाय स्वालये हरिम् ॥१२॥पुपूज परया भक्त्या भोजयामास सत्पतिम् ।विदायं संगृह्य कृष्णनारायणो द्रुतं ततः ॥१३॥अन्यद्वीपान् प्रगन्तुं वै स्वं विमानं तदैरयत् ।प्रियव्रतस्य वै पुत्राः प्रजापतिसमा दश ॥१४॥आग्नीध्रश्चाग्निबाहुश्च वपुष्मान् द्युतिमाँस्तथा ।मेधा मेधातिथिर्हव्यः सवनः पुत्रकस्तथा ॥१५॥ज्योतिष्मान् दशकश्चेति सर्वे वै वैष्णवाः शुभाः ।मेधाऽग्निबाहुपुत्राश्च त्रयस्ते साधवोऽभवन् ॥१६॥सप्ताऽन्ये त्वभवन् भूपास्तद्द्वीपान् प्रययौ प्रभुः ।प्लक्षद्वीपेश्वरं मेधातिथिं प्रति ययौ हरिः ॥१७॥मार्गशीर्षे मासि कृष्णं मेधातिथिरपूजयत् ।मेधातिथेस्तथा पुत्राः स्वराज्येष्वानयन् प्रभुम् ॥१८॥शान्तभयश्च शिशिर आनन्दश्च सुखोदयः ।शिवश्च क्षेमकश्चापि ध्रुवश्च सप्त भूभृतः ॥१९॥महाराजाधिराजस्य सम्मानं चक्रुरुत्सुकाः ।विविधा उपदा रम्या ददुः पुपूजुरादरात् ॥२०॥आरार्त्रिकं प्रचक्रुश्च पपुः पादजलं हरेः ।भोजयामासुरीशेशं प्रसादं जगृहुश्च ते ॥२१॥मनुं कृष्णस्य जगृहुः सेवयामासुरच्युतम् ।विदायं प्रददुश्चापि प्रजापूजोत्तरं ततः ॥२२॥भ्रमित्वा श्रीहरिर्द्वीपं विमानेन द्रुतं ततः ।पौषमासे ययौ कृष्णः शाल्मलिद्वीपमुत्तमम् ॥२३॥तस्य सम्राड् वपुष्माँश्च राजा कृष्णमपूपुजत् ।स्वप्रासादे हरिं नित्यं ररक्ष भावपूरितः ॥२४॥असेवत सदा भक्त्याऽभोजयद् बहुधा प्रभुम् ।रत्नहारादिकान् रम्यानमूल्यान् हरये ददौ ॥२५॥तत्पुत्राः सप्त राजानः श्वेतश्च हरितस्तथा ।जीमूतो रोहितश्चापि वैद्युतो मानसः प्रभः ॥२६॥सप्तैते परमात्मानं निजराज्येषु चानयन् ।बहुमानेन सौधेषु नीत्वा नीत्वा समार्चयन् ॥२७॥उपदाभिश्चन्दनाद्यैर्हीरकाद्यैश्च कानकैः ।भूषणैर्मणिरत्नाद्यैः कम्बलैः स्वर्णपात्रकैः ॥२८॥तद्राज्ञ्यश्च प्रजाश्चापि पुपूजुः परमेश्वरम् ।तेभ्यो दत्वा मनुं कृष्णो विदायं प्राप्य सत्वरम् ॥२९॥माघे विमानमारुह्य कुशद्वीपमुपाययौ ।ज्योतिष्मान्नामकः सम्राट् ससैन्यो मानमाचरत् ॥३०॥निजसौधे नगर्यां च भ्रामयामास केशवम् ।पुष्पाक्षताद्यैः सम्पूज्य मणिरत्नानि सन्ददौ ॥३१॥भोजनानि ददौ राज्ञ्यः सिषेविरे तमच्युतम् ।तस्य पुत्राश्च राजानः सप्त निन्युर्हरिं निजान् ॥३२॥प्रासादानालयाँश्चापि राष्ट्रेष्वपि समन्ततः ।उद्भेदो वेणुमाँश्चापि धृतिरश्वरथस्तथा ॥३३॥लम्बनः कपिलः प्रभाकरस्ते वेणुवादिनम् ।आनर्चुर्बहुभावेन सिषेविरे तमच्युतम् ॥३४॥उपदाः प्रददुश्चापि गुरुमन्त्रं च जगृहुः ।प्रजाः सीतापतिं कृष्णं पुपूजुः परमादरात् ॥३५॥जगृहुः कृष्णमन्त्राँश्च विदायं प्रददुस्ततः ।फाल्गुने स्वविमानेन क्रौंचद्वीपं ययौ हरिः ॥३६॥सम्राड् राजा द्युतिमाँश्च सैन्यैः सम्मानमाचरत् ।निजप्रासादवर्ये तं कृष्णं न्यवासयन्मुदा ॥३७॥भोजयामास देवेशं सेवयामास केशवम् ।सर्वसार्थयुतं कृष्णं पूजयामास नाणकैः ॥३८॥मणिरत्नादिभिश्चापि कुंकुमाक्षतचन्दनैः ।अथ पुत्रास्तस्य सप्त निन्युर्नारायणं ततः ॥३९॥मनोहरश्च कुशल उष्णश्च पीवरो मुनिः ।दुन्दुभिरन्धकारश्च नृपा आनर्चुरच्युतम् ॥४०॥सेवां चक्रुर्हि बहुधा प्रजाश्चानर्चुरीश्वरम् ।विदायं प्रददुश्चापि ततो मन्त्रं च जगृहुः ॥४१॥अथ चैत्रे हरिः शाकद्वीपं जगाम सत्वरम् ।सम्राट् तत्र हव्यनामा ससैन्यो मानमाचरत् ॥४२॥निजसौधे निवासं चाकारयत्परमात्मनः ।पुपूज परया भक्त्या सिषेवे बहुभावया ॥४३॥भोजयामास गोविन्दं विदायमुपदा ददौ ।तत्सुताः सप्त राजानो निन्युः कृष्णं निजालयान् ॥४४॥जलदश्च कुमारश्च सुकुमारो मणीचकः ।कुशोत्तरश्च मोदाकिर्महाद्रुमश्च ते ततः ॥४५॥आनन्दं रुक्मिणीकान्तं ददुर्दिव्योपदाः शुभाः ।सिषेविरेऽतिसम्पद्भिर्ददुर्विदायमुत्तमम् ॥४६॥तत्प्रजाद्या हरिं नीत्वा स्वालयेष्वभ्यपूजयन् ।हरिर्मन्त्रं प्रदायैव विमानेन हि सत्वरम् ॥४७॥वैशाखे पुष्करं द्वीपं ययौ ससार्थशोभनः ।पुष्कराधिपतिर्भूपः सवनः सैन्यशोभितः ॥४८॥सम्मानं श्रीहरेश्चक्रे भ्रामयामास पत्तने ।सौधे नैजे ततो नीत्वा पूजयामास वस्तुभिः ॥४९॥वासयामास नित्यं च सेवयामास भक्तितः ।भोजयामास नित्यं स विदायं प्रददौ बहु ॥५०॥तस्य पुत्रौ नृपौ द्वौ च निन्यतुः परमेश्वरम् ।निजराष्ट्राणि भावेन स्वस्वसौधेष्ववासयन् ॥५१॥महीवीतो धातकिश्च सेवयामासतुर्हरिम् ।तद्राज्ञ्यश्च प्रजाश्चापि पुपूजुः माधवीप्रभुम् ॥५२॥भोजयामासुरीशेशं मन्त्रं च जगृहुर्हरेः ।विदायं प्रददुश्चापि हरिः सज्जोऽभवत्ततः ॥५३॥लोकालोकाचलं कृष्णो ज्येष्ठमासे ययौ मुदा ।विहर्तुं वीक्षितुं स्त्रीभ्यो दर्शयितुं प्रदेशकान् ॥५४॥पर्वतान् ग्रहमार्गाश्च वनान्युपवनानि च ।प्रादक्षिण्येन वेगेन विमानगमनेन च ॥५५॥लोकालोकं प्रवीक्ष्याऽथ काञ्चनीं भूमिमीक्ष्य च ।आषाढे श्रीहरिं प्रत्याययौ कुंकुमवापिकाम् ॥५६॥इत्येवं बद्रिके कृष्णनारायणो महाप्रभुः ।पावयित्वा भूमिलोकान् कृपया तत्प्रजा अपि ॥५७॥एको भूत्वा निजसौधे चातुर्मास्यं चकार ह ।कुंकुमवापिकाक्षेत्रे निजजन्मजयन्तिका ॥५८॥पञ्चविंशाऽष्टमी कृष्णा कार्तिकस्याऽस्य चागता ।तत्र स्वर्णोत्सवं चक्रे पिता गोपालकृष्णकः ॥५९॥सौवर्णं मण्डपं चक्रे ह्यपूर्वं बहुशोभनम् ।सर्वशो मणिरत्नाद्यैर्नद्धं धामाऽक्षरं यथा ॥६०॥दिव्ये गजासने कृष्णः कृतस्नानो विभूषितः ।आगत्य निषसादाऽथ लोमशस्तमपूजयन् ॥६१॥प्रातर्वाद्यान्यवाद्यन्त गीतिका मङ्गलानि च ।मुक्तावतारदेवानामीश्वराणां च देहिनाम् ॥६२॥अभवन् सर्वतो बद्रि सर्वलोकनिवासिनाम् ।वेदघोषाश्च परितो मुनीनामभवँस्तदा ॥६३॥प्रातर्होमा महर्षीणां ह्यजायन्ताऽक्षरस्थले ।अथ पूजा हरेस्तत्र प्रावर्तत क्रमादनु ॥६४॥अवताराश्च मुक्ताश्चेश्वराश्चाथ महर्षयः ।पितरश्च सुरा दैत्या दानवा राक्षसास्तथा ॥६५॥मानवा नागसर्पाश्च यक्षा सिद्धाश्च चारणाः ।सूताश्च मागधाः किंपुमांसश्च किन्नरास्ततः ॥६६॥बन्दिनो वेदविप्राश्च राजानो वैश्यदेहिनः ।दासाश्च दासिकाश्चापि तीर्थानि देवतास्तथा ॥६७॥अप्सरसो गणाश्चापि पार्षदा गणिकास्तथा ।पुपूजुः परमात्मानं ददुस्ते चोपदाः शुभाः ॥६८॥तिलकं कुंकुमेनापि तथाऽक्षतैश्च चन्दनैः ।चक्रुश्चिरं जीव चेत्याशीर्वादं प्रददुस्ततः ॥६९॥आरार्त्रिकं प्रचक्रुश्च ददुर्दानानि वै तदा ।योषितः सर्वसृष्टीनां तदा चक्रुः प्रपूजनम् ॥७०॥पिता तदानीं रत्नानां मणीनां च प्रदानकम् ।धेनुदानानि धातूनां दानानि कानकान्यपि ॥७१॥पात्रभूषाम्बरादीनां कोट्यर्बुदादिसंख्यया ।प्रददौ लोमशश्चापि ददावाशिष उत्तमाः ॥७२॥पूजान्ते भोजयामासुर्लक्ष्म्यो ब्रह्मप्रियादिकाः ।महीमानान् समस्ताँश्च विदायं च ततो ददुः ॥७३॥यद्यत् समागतं प्राप्तं सर्वलोकेषु सर्वथा ।भ्रमणे ह्युपदारूपं स्वर्णरूप्यादिकं बहु ॥७४॥हीरकाश्च मणयश्च रत्नानि विविधान्यपि ।मौक्तिकानि विचित्राणि पात्राणि चाम्बराणि च ॥७५॥पिता दाने ददौ सर्वं विप्रेभ्यो दीनवत्सलः ।दीनेभ्यो भिक्षुकेभ्यश्च साध्वीभ्यः सद्भ्य इत्यपि ॥७६॥योषिद्भ्यो मानवेभ्यश्चाऽनाथेभ्यः सर्वथा तदा ।अथ सर्वेभ्य एवाऽन्नं मिष्टान्नं प्रददौ ततः ॥७७॥विदायं प्रददौ चापि परिहारोऽभवत्ततः ।ययुः सर्वे समापृच्छ्य कृष्णं निजालयान् सुराः ॥७८॥ब्रह्माण्डदेहिनः सर्वे ययुर्नैजान् प्रलोककान् ।ईश्वराश्च विराडाद्याः प्रार्थयामासुरच्युतम् ॥७९॥निजलोकान् समागन्तुं हरिः प्राह तथाऽस्त्विति ।एकादश्यामूर्जकृष्णे हरिः सज्जो बभूव ह ॥८०॥सर्वसार्थसुयुक्तस्तैरीश्वरैः सह केशवः ।बद्रिके दिव्यमहता विमानेन द्विरूपधृक् ॥८१॥पूर्ववद् भगवान् भूत्वा प्रतस्थे चाम्बरे द्रुतम् ।जयनादैः सुखशब्दैः प्रतस्थे परमेश्वरः ॥८२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने जम्बुप्लक्षादिसप्तद्वीपेश्वराणां राज्येषु भगवतो भ्रमणं कुंकुमवाप्यां च पञ्चविंशतितमस्वजन्मजयन्त्युत्सवकरणं चेत्यादिनिरूपणनामाऽष्टनवतितमोध्यायः ॥९८॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP