संस्कृत सूची|संस्कृत स्तोत्र साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८० Translation - भाषांतर श्रीबद्रीप्रियोवाच-सर्वकल्याणकर्तः श्रीकान्त कृष्णनरायणः ।किं चकार ततः सर्वं चरित्रं वक्तुमर्हसि ॥१॥श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि स्वामिकृष्णनरायणः ।नागविक्रमभूपेन यज्ञे त्वाकारितो ययौ ॥२॥पारवत्या निजपत्न्या प्रभया निजकान्तया ।युतः सन्तुष्टया स्वस्रा दासदासीगणैर्युतः ॥३॥ययावस्मै कृष्णनारायणाय शर्करापुरे ।प्रतिज्ञातं तु यज्ञार्थं युद्धपुराऽधिपेन यत् ॥४॥नागविक्रमसंज्ञेन समारब्धो मखस्तु सः ।तत्राऽनादिकृष्णनारायणो ययौ निमन्त्रितः ॥५॥सर्वमेधं महायज्ञं कारयामास माधवः ।अनादिश्रीकृष्णनारायणश्रीश्वरवल्लभः ॥६॥नागविक्रमराजेशो महाभागवतोत्तमः ।चातुर्मास्यव्रतं कुर्वन् सर्वमेधं चकार ह ॥७॥युद्धपुरे लुनीनद्यास्तटे विशालभूतले ।पञ्चयोजनविस्तारे मण्डपं स त्वकारयत् ॥८॥श्रावणशुक्लैकादश्यां कृतसंभारसञ्चयः ।यज्ञमारभत क्ष्मेशो विप्रयाज्ञिकनोदितः ॥९॥आययुस्तत्र भूदेवाः साधवो वैष्णवा अपि ।नरा नार्यो लक्षशो वै धर्मकार्यपरायणाः ॥१०॥ब्रह्माऽभवत् कृष्णनारायणः श्रीभगवान् स्वयम् ।यजमानो नागविक्रमाख्यो भूपो हि वैष्णवः ॥११॥ऋत्विजो गालवाद्याश्च महर्षयोऽभवन्मखे ।फालायनोऽभवत्तत्रोद्गाता सामपरायणः ॥१२॥सारायणोऽभवत्प्रत्युद्गाता वेदार्थवित्तथा ।अजायनोऽभवत्तत्राऽऽहर्ता वैदिकसत्क्रियः ॥१३॥दण्डायनोऽभवत्प्रतिहर्ता सर्वक्रियापरः ।भालायनस्तु ऋषिराट् प्रस्तोता चाभवन्मखे ॥१४॥रसायनोऽभवत् प्रतिप्रस्तोता यज्ञकर्मणि ।होता धारायणश्चैव प्रतिहोताऽलवायनः ॥१५॥जापकाश्चार्बुदा विप्राः पौष्करा हवनार्थिनः ।यामुनेया द्विजाश्चासन् दिक्पाला वैष्णवोत्तमाः ॥१६॥सौराष्ट्रीयाः पूजकाश्च द्विजाश्चासँस्तदा मखे ।गौर्जराः पाचकाश्चासन् मरुजाः परिवेषकाः ॥१७॥गांगेया वेदमन्त्रादिव्याख्यातारोऽभवन्मखे ।सिन्धुजाः पाठकाश्चासन् सभासदास्तु पूर्वजाः ॥१८॥दक्षिणात्या हवनार्था आसँस्तत्र च जापकाः ।महर्षयो वशिष्ठाद्या गुरवस्तु निरीक्षकाः ॥१९॥द्रष्टारस्तत्र सर्वेषां कर्मणां वै तदाऽभवन् ।मध्यस्था वैदिका विप्रा आसन् प्रख्यातनामिनः ॥२०॥लोमशाद्यास्तथा मार्कण्डेयाद्या दिव्यदृष्टयः ।हैमाचलाः कृष्णनाम्नां कीर्तनेष्वभवन् स्थिराः ॥२१॥एवं वै बद्रिके यज्ञेऽभवन् विप्रा व्यवस्थिताः ।साधवो लक्षशश्चाप्यभवन् भजनकारिणः ॥२२॥प्रजाश्च खण्डराजन्या आमन्त्रिताः समाययुः ।लक्षातिलक्षमनुजाः सर्वमेधेऽभवँस्तदा ॥२३॥घृतकुल्या दधिकुल्याः सुधाकुल्यास्तदाऽभवन् ।पयःकुल्या मधुकुल्या शर्करापर्वतास्तथा ॥२४॥मिष्टान्नानां पर्वताश्च पानानां प्रसरांसि च ।भक्ष्याणां सेतवश्चासन् सर्वमेधेऽत्र बद्रिके ॥२५॥फलानां लेह्यचोश्यानां महाद्रयोऽभवन् मखे ।दानार्हहोमयोग्यानां मेरवस्तत्र चाऽभवन् ॥२६॥समिधां पायसान्नानां क्षीराणां सञ्चयोत्तमाः ।कणानां चापि शिम्बीनां राशयोऽप्यभवन्मखे ॥२७॥वस्त्राणां कम्बलानां च भूषाणामद्रयोऽभवन् ।पात्राणां दाररत्नानां धेनूनां मण्डलान्यपि ॥२८॥देहोपकरणानां च गृहोपकरणार्थिनाम् ।आसन् प्रराशयस्तत्र सम्पदां दिव्यसम्पदाम् ॥२९॥सुवर्णानां रजतानां सञ्चयाश्चाऽभवन्मखेआसनानां स्रुक्स्रुवाणां हविष्याणां प्रपूर्णताः ॥३०॥दश सूत्यास्तथा बद्रि दीक्षाश्च द्वादशापि वै ।उपसदो द्वादशश्च यथायोग्यं व्यवर्तयन् ॥३१॥भाद्रपूर्णावधिर्यागश्चतुस्त्रिंशद्दिनात्मकः ।सर्वांगपूर्णो ह्यभवद् बद्रिके कृष्णसन्निधौ ॥३२॥बृहस्पतिसवाद्याश्च आप्तोर्यामान्तकाः शुभाः ।सांगोपांगा ह्यभवँश्च नारायणसमाहिताः ॥३३॥बृहस्पतिसवे त्रयस्त्रिंशद्गोदानमाभवत् ।वैश्यसवे विप्रसवे सोमसवे तथाऽभवत् ॥३४॥पृथिसवे गोसवे ओदनसवे तथाऽभवत् ।मरुत्स्तोमेऽग्निस्तुतौ च महेन्द्रस्तवने तथा ॥३५॥आप्तोर्यामे निधने(निघने) च सवे गोदानकानि च ।अभिषेकाः पृथक् चापि तत्तद्देवाऽभ्यपूजनम् ॥३६॥पुरोडाशार्पणं चापि यथाकर्माऽभवन् खलु ।सवोऽभिषेक उक्तो वै यजमानस्य चैव ह ॥३७॥जलेनाऽऽज्येन दध्ना च घृतेन पयसा तथा ।अभिषेको यथायोग्यमभवत्तत्र चाध्वरे ॥३८॥पुरोडाशाश्चरवश्च हवींषि द्रव्यमुत्तमम् ।ओदनानि सक्तवश्च मन्थास्तत्राऽभवन् शुभाः ॥३९॥रथन्तरादिसोमाश्च संस्थाश्च हवनान्यपि ।यथायोग्यानि जातानि निर्वर्तितानि शार्ङ्गिणा ॥४०॥अवतारा ईश्वराश्च शक्तयो देवताः सुराः ।प्रत्यक्षा आगमन् बद्रि कृष्णाऽऽहूतास्तदध्वरे ॥४१॥सृष्टित्रये च ये देवा यज्ञाधिकारयोगिनः ।सर्वे ते बलिभोगार्थमाययुर्गोचराः सुराः ॥४२॥घृतधाराभिरेतेपि हविष्यान्नैरनुत्तमैः ।रसैर्मिष्टान्नकैः क्षीरैः फलैः समिद्भिरित्यपि ॥४३॥कणैः सुधाभिः पयसा तर्पिताः शाककन्दकैः ।नित्यं तत्र प्रदीयन्ते स्वर्णगोदानकानि वै ॥४४॥भोजनाऽम्बरदानानि धर्मदानानि यान्यपि ।पितृतृप्तिप्रदानानि दीयन्ते वै नृपेण ह ॥४५॥पूज्यन्ते साधवः सन्तः साध्व्यो विप्राश्च वैष्णवाः ।आगन्तुकाऽनाथदीना नरा नार्यः प्रदानकैः ॥४६॥लक्षशो मानवाद्याश्च भुञ्जते गृष्टमिष्टकम् ।पिबन्ति सद्रसान् गृष्टिपुष्टिदान् तृप्तिकारकान् ॥४७॥अग्नयो गोचरास्तत्र भुंजते स्वकरैर्मुखे ।प्रसन्ना देवताः सौम्या भुञ्जते हव्यमुत्तमम् ॥४८॥पितरो भुञ्जते बद्रि तथाऽन्यदेवतादिकाः ।समस्ताः श्रीकृष्णहस्तार्पितप्रसादमुत्तमम् ॥४९॥तृप्तास्तृप्ता वयं तृप्ता इत्यूचुश्चानलाननाः ।ततो यज्ञस्य भाद्रस्य पूर्णायां पूर्णाताऽभवत् ॥५०॥पूर्णाहुतौ हविष्याणि त्रैलोक्यसंभवानि वै ।यान्यानीतानि तानि श्रीकृष्णो ददौ महानले ॥५१॥उद्गारास्तृप्तिदास्तेषां सुराणां संभवन्ति च ।मा मेति सुरवाचश्चाऽभवन् पूर्णाहुतौ मुदा ॥५२॥सृष्टित्रयं तर्पितं श्रीकृष्णेन परमात्मना ।नागविक्रमभूपस्य संकल्पः सफलीकृतः ॥५३॥बद्रिके श्रीहरिर्यत्र विश्वात्मा सकलंभरः ।दाता ग्रहीता भोक्ताऽत्ता नित्यतृप्तो जगन्मयः ॥५४॥तत्राऽतृप्तिर्न विद्येत परिपूर्णो यतः स्वयम् ।नागविक्रमभूपोऽपि कृत्वा यज्ञं सदक्षिणम् ॥५५॥कृतकृत्योऽभवद् बद्रि महाभागवतोत्तमः ।स्वर्णरूप्यमयीः सर्वा दक्षिणाः प्रददौ मखे ॥५६॥गोधनानि विभूषाश्च कन्यादानानि वै ददौ ।क्षितिदानानि रत्नानां दानानि विभवार्पणम् ॥५७॥विद्यादानानि बहूनि धर्मदानानि सन्ददौ ।गृहदानान्युत्तमानि वृत्तिदानानि सन्ददौ ॥५८॥अवभृथं ततौ राजा चकार याज्ञिकैः सह ।जलमातृपूजनादि जलदेवप्रपूजनम् ॥५९॥तीर्थस्थाने लूणिकाया जले चकार भूपतिः ।सर्वं विधिं सदानं च कृत्वा स्नानं समाचरत् ॥६०॥लक्षाधिमानवाः साकं स्नानदानानि चाचरन् ।नागविक्रमभूपस्य राज्ञी नाम्नाऽर्कमालिनी ॥६१॥अवभृथान्ते दानानि योषिद्भ्यः प्रददौ मुदा ।हीररत्नादिहाराँश्च स्वर्णभूषाम्बराणि च ॥६२॥श़ृंगारवेषान् सुभगान् स्वर्णपात्राणि यानि च ।देहोपकरणान्येव ददौ भूरीणि वै मुदा ॥६३॥विप्रपत्न्यः कन्यकाश्च साध्व्यः सत्यः सखीजनः ।प्रसन्नमानसा जातास्तृप्ता दानाप्तिसत्फलाः ॥६४॥एवमवभृथे तत्र बद्रिके विस्मयावहः ।चमत्कारोऽभवत्तूर्णं तं वदामि निबोध मे ॥६५॥आगतं मण्डलं त्वेकं पिशाचानां महत्तदा ।आकाशाज्जलमध्ये तत् पतितं निम्नवारिषु ॥६६॥सहसा ते सहस्रं वै पपुर्वारि मुदान्विताः ।पिशाचाः स्नातमात्राश्च दिव्यदेवास्तदाऽभवन् ॥६७॥स्वर्णकुण्डलहाराद्यैर्भूषिताः सूर्यवर्चसः ।सुरा देव्योऽभवन् सर्वे षोडशादिप्रवत्सराः ॥६८॥कृताञ्जलयः श्रीकृष्णमस्तुवन् भावगर्भितम् ।अहो वयं पुरा कृष्ण व्यापारार्थं वणिग्जनाः ॥६९॥युद्धपुरात् थररणे निर्गताः शर्करापुरम् ।स्त्रीबालसहिताः कृष्ण उष्ट्रमहोष्ट्रवाहनाः ॥७०॥रणमध्ये गता यावज्झंझावातोऽतिदुःसहः ।प्रोत्पन्नो वालुकावृष्टिवहो मध्याह्ननाशनः ॥७१॥उष्ट्रा महोष्ट्रा बालाश्च नार्यः क्षितौ हि वायुभिः ।वालुकासु मुहूर्तेन गर्भस्था अभवन्मृताः ॥७२॥वयं ये बलिनश्चापि वालुकावृष्टिताडिताः ।उपविष्टा वालुकाधस्तत्र छन्ना हि वालुभिः ॥७३॥वालुकानामुच्छ्रया वै जाता वयं तदन्तरे ।मृता गर्भगता सर्वे पिशाचता रणे गताः ॥७४॥युद्धपुराभ्याशसीमप्रदेशेषु निरन्तरम् ।सहस्रसंख्यकाः कृष्ण अभवाम रणालयाः ॥७५॥अद्य ज्ञात्वा सर्वमेधयज्ञस्याऽवभृथोत्सवम् ।अनादिश्रीकृष्णनारायणपादजलामृतम् ॥७६॥पातुमुपागताश्चात्र पीत्वा स्नात्वा पदामृतम् ।पावनाः स्म च सञ्जाताः पिशाचत्वविवर्जिताः ॥७७॥स्नानेन पुण्यलाभेन देवानां योग्यतान्विताः ।अद्य जाता वयं कृष्ण तथापि सुरभावनाम् ॥७८॥नेच्छामहे यतः कृष्ण पुनरावर्तनात्मिकाम् ।अपुनरावृत्तिभावं कांक्षामहे तु सर्वथा ॥७९॥परमेशो भवानत्र साक्षाद् दृष्टोऽधुना प्रभुः ।पीतं पादजलं तेऽत्र स्नातं प्रसादवारिभिः ॥८०॥तद्वयं परमं मोक्षं कांक्षामहे तवाऽऽश्रिताः ।शाश्वतं ब्रह्मनिर्वाणं प्रापयाऽस्मान् कृपां कुरु ॥८१॥श्रुत्वैवं भगवान् बद्रि करे धृत्वा जलं पुनः ।निजमन्त्रं चार्पणात्मात्मकमुच्चार्य तत्र च ॥८२॥संकल्पं संप्रयोज्यैवाऽक्षिपद् वारि सुरोपरि ।सर्वे सुरा द्रुतं मुक्ता अभवन् दिव्यविग्रहाः ॥८३॥वैकुण्ठपार्षदाः सर्वे ततोऽक्षरस्य पार्षदाः ।दिव्या भूत्वा हरिं नत्वा जयमुच्चार्य चाऽसकृत् ॥८४॥आगतेन विमानेन ययुर्धामाऽक्षरं हरेः ।पश्यतां लुनिकानद्यास्तटे वै लक्षदेहिनाम् ॥॥८५॥ययुर्धामाऽक्षरं सर्वे पिशाचा मुक्ततान्विताः ।अथाऽऽश्चर्यपरा लोकाः क्षणं स्तब्धा इवाऽभवन् ॥८६॥ज्ञातवन्तः प्रतापं श्रीहरेर्मानवदेहिनः ।कृत्वैवं मोक्षणं स्नात्वाऽवभृथान्ते नृपादयः ॥८७॥साकं श्रीहरिणा नैजालयान् ययुर्मुदान्विताः ।चक्रुस्ते वैष्णवाः सर्वे देवा देव्यश्च साधवः ॥८८॥भोजनानि महीमानाः प्रजा आगन्तुका जनाः ।प्राप्य प्रसादं कृतिनोऽभवन् पुण्यातिशालिनः ॥८९॥रात्रौ विश्रान्तिमापुश्च राजा राज्ञी हरिं मुदा ।सेषेवाते बालकृष्णं वल्लभाऽऽर्यं सुसत्पतिम् ॥९०॥पादसंवाहनाद्यैश्चाथ प्रगे प्रतिपद्दिने ।जजागर हरिः स्नातः कृतपूजन ईशिता ॥९१॥व्यराजताऽऽसने दिव्ये सौवर्णे नृपदर्शिते ।पूजां कर्तुं हरेस्तत्राऽऽययुर्युद्धपुराश्रिताः ॥९२॥उपदाः श्रीहरेरग्रे न्यस्य चन्दनकुंकुमैः ।अक्षतैः कुसुमैर्माल्यैहरिभूषाम्बरादिभिः ॥९३॥अनाद्यैरार्चयन् कृष्णनारायणपतिं पतिम् ।आशीर्वादान् जगृहुस्ते पूजका वैष्णवा जनाः ॥९४॥राजा विदायं प्रददौ महीमानान् समन्ततः ।आययुस्ते निजदेशान् वै कृतार्थना मुदान्विताः ॥९५॥मध्वरं प्रशंसन्तो ययुरानन्दसंभृताः ।युद्धपुरप्रजाः कृष्णं सिषेविरे गृहे गृहे ॥९६॥ओत्वा स्वस्वालयान्नार्यो नरा आनन्दमाप्नुवन् ।मन्त्रं जगृहुर्बहवो भक्ताः कृष्णस्य वैष्णवाः ॥९७॥अभवन् युद्धपुरीयप्रजाजना विशेषतः ।रिर्दिनत्रयं तत्रोवास राज्ञ्याग्रहेण तु ॥९८॥चतुर्थ्यां श्रीहरिर्गन्तुं सज्जोऽभवन्निजालयम् ।तावत् युद्धपुरे बद्रि सैन्यं शत्रोरुपागतम् ॥९९॥नामतो नन्दिभिल्लस्य यमुनातटभूपतेः ।दूतं सा प्रैषयत्तूर्णं रणार्थं नन्दिभिल्लकः ॥१००॥युद्धं देहि च वा राज्यं देहि वा करदो भव ।इत्युवाच हि दूतोऽपि नत्वा तु नागविक्रमम् ॥१०१॥दूतं सत्कृत्य राजाऽपि कृष्णं न्यवेदयत्तु तत् ।कृष्णो ज्ञात्वा मदं नन्दिभिल्लस्याऽऽज्ञापयद् रणम् ॥१०२॥बद्रिके युद्धनगरे युद्धवार्ता स्थले स्थले ।प्रासरद् भयदा सर्वदेहिनां तिष्ठति प्रभौ ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने युद्धपत्तनस्य नागविक्रमस्य नृपस्य सर्वमेधयज्ञं श्रीकृष्णनारायणः सम्पादयामासेत्यादिनिरूपण नामाऽशीतितमोऽध्यायः ॥८०॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP