संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ८७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ८७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ८७ Translation - भाषांतर श्रीपद्मावतीप्रज्ञे प्रोचतुः-कृष्णनारायणस्वामिन् यद्याज्ञा मोक्षदा मता ।को विशेषो भोगिनो वै त्यागिनो वद नौ स्फुटम् ॥१॥श्रेष्ठो वेदे तथा लोके त्यागाश्रमो गृहाश्रमात् ।किमत्राऽऽज्ञांकिते त्यागाश्रमे श्रैष्ठ्ये तु कारणम् ॥२॥गृहाश्रमस्य वै श्रैष्ठ्यं विद्यते वा न सर्वथा ।त्यागाश्रमस्य हीनत्वं विद्यते वा न वा क्वचित् ॥३॥गृहाश्रमे च के दोषास्त्यागाश्रमे च के गुणाः ।त्यागाश्रमे च के दोषा गृहाश्रमे च के गुणाः ॥४॥केषां संसारमग्नत्वं स्वाश्रमस्थायिनामपि ।आज्ञया वर्तमानानामपि नैम्न्यं न वा क्वचित् ॥५॥कथं दारा बन्धनं वै कथं पुमान्न बन्धनम् ।पुमान् वा बन्धनं दारा न स्यात्तु बन्धनं कथम् ॥६॥मोक्षफलं कदा कस्य नरस्य वा स्त्रिया द्रुतम् ।गृहस्थस्य त्यागिनो वा मोक्षः कस्य मतो द्रुतम् ॥७॥गृहस्थस्य त्यागिनो वा सादृश्यं विद्यते न वा ।विधर्मित्वं सधर्मित्वं कियत् तद्वद नौ प्रभो ॥८॥द्वयोर्वा गृहधर्मित्वं विद्यते वा न विद्यते ।द्वयोर्वा त्यागधर्मित्वं विद्यते वा न विद्यते ॥९॥भोग्यं किं कश्च भोक्ताऽस्ति कोऽस्त्यभोक्ता पृथग्जनः ।किमभोग्यं तथा कृष्ण वद नौ हितकृदृतम् ॥१०॥श्रीकृष्णनारायण उवाच-शृणुतं हितकृत् सर्वेषां प्रिये सहचारिके ।पृष्टं तत्त्वं समस्तं वै यज्ज्ञात्वा मोक्षभाग् भवेत् ॥११॥विस्तरेण प्रवक्ष्यामि यथार्थं शृणुतं प्रिये ।वक्तो बद्रीकण्टकश्चैकोऽपरः सरलोऽस्ति वै ॥१२॥वक्रो गृहाश्रमो बोध्यस्त्यागस्तु सरलो मतः ।वक्रे बन्धनमाप्नोति सरले बन्धनं नहि ॥१३॥वक्रः पाशस्वरूपोऽस्ति सरलः पाशवर्जितः ।समभूस्थितयोश्चापि वैधर्म्यं बहुधा मतम् ॥१४॥सरलोऽगाधतामेति वक्रो नोपैत्यगाधताम् ।वक्रो वक्ति पुनर्जन्म सरलस्त्वपुनर्भवम् ॥१५॥वक्रः स्वर्गात् पतनं च सरलः शाश्वतीं गतिम् ।वक्रो नारीस्वरूपोऽस्ति लज्जयाऽऽज्ञाप्रपालकः ॥१६॥सरलोऽस्ति नररूपः शासकश्च सहायदः ।पत्तलादौ सरलः प्राक् पश्चाद् विशति वक्रकः ॥१७॥भज्यते वा बहिर्वक्रः सरलः पारगो भवेत् ।प्रज्ञे पद्मावति दाराश्रमस्त्यागाश्रमात् पृथक् ॥१८॥उक्तधर्मानुरुद्धश्च विशेषबन्धनप्रदः ।वक्रः प्रविष्टश्चरणे न निर्याति निमज्जति ॥१९॥सरलश्चाकृष्टियोगान्निर्यात्येव न मज्जति ।वक्रे भंगा हि बहवः सरले सन्ति नैव ते ॥२०॥सरलस्त्यागमार्गो वै वक्रो दारादिलम्बनः ।दारशून्यस्तु तरति दारमग्नो निमज्जति ॥२१॥दारास्तु किलकः स्थूलो बन्धनाय च शृङ्खला ।गदा गर्वविनाशाय दारा दरं भयस्य च ॥२२॥दारा मत्तमनःशास्त्री दाराः स्वातन्त्र्यरोधिका ।सत्ताया मार्दवकर्त्री दारा रुद्धगुहात्मिका ॥२३॥दारा वै कण्टकी वल्ली दारा गवाक्षिकाफलम् ।दारा मिष्टविषतुल्या दारा फुत्कारमूषिका ॥२४॥दारा दीर्घपथे यातुर्विघ्नकर्त्री चिरायतिः ।दाराश्चान्तर्गता लग्ना नैव निर्याति वै क्वचित् ॥२५॥बहिर्दारा नरं शीघ्रं चोन्मत्तयति भामिनी ।भ्रान्तिदा दिग्भ्रमकर्त्री तमस्येव युनक्ति तम् ॥२६॥संसारे मलिने क्षिप्त्वा करोति मलिनं नरम् ।वीक्षणं प्रेमयुक् कृत्वा हापयत्येव मोक्षणम् ॥२७॥ग्राह्ये धार्ये तथा भोग्ये योगे जाग्रति वा स्वपौ ।दारा मूर्तिः पुरःप्राप्या कृष्णमूर्तिविरोधिनी ॥२८॥आवरणस्वरूपा सा दारा नरस्य सर्वथा ।प्रज्ञे पद्मावति त्यक्त्वा वनं यान्ति विरागिणः ॥२९॥विरागिण्यो वनं यान्ति त्यक्त्वा त्यागिनरं ह्यतः ।दारा वा दारको वापि रागी बन्धनवान् मतः ॥३०॥दारा वा दारको वापि रागशून्यो विमुच्यते ।शृणुतं सहचारिण्यौ सन्त्याज्ञा गृहमेधिनाम् ॥३१॥बह्व्यस्ता नैव पात्यन्ते गृहस्थैः कर्मजालिभिः ।नाऽऽर्चयन्ति सुरान् दीनानतिथीन् साधुसाध्विकाः ॥३२॥न वृद्धान्न महीमानान् नर्षीन् न गा न जन्तुकान् ।यथाधर्मं नार्चयन्ति पतिं पत्नीं च बालकान् ॥३३॥न पूज्यान्नापि मान्याँश्च न गुरून् कुलदेवताः ।न पितॄन् नैव मातॄश्च नाऽध्यात्मिकान्न यज्ञजान् ॥३४॥नाऽऽगन्तुकान्नाऽभ्यागतान्न श्रेष्ठान्न कनिष्ठिकान् ।न मां न पार्षदान्मेऽपि न शक्तीर्न वृषं सतीम् ॥३५॥नाऽर्चयन्त्याश्रिताँश्चापि विप्रान् वा भिक्षुकानपि ।न पशून् पक्षिणश्चापि नार्चयन्ति यथार्थतः ॥३६॥स्वार्थमात्रपरा ये च परोपकृतिवर्जिताः ।गृहस्थाश्चाज्ञया हीना हीनास्ते सर्वथा सदा ॥३७॥यद्गेहे न सतां पादा यद्गेहे न सुरालयः ।यद्गृहे नापि नैवेद्यं हरये ते श्मशानिनः ॥३८॥यत्र ब्रह्मार्पणं नास्ति यत्र साध्वर्पणं न च ।यत्र भक्तिर्हरेर्नास्ति ते सर्वे वै श्मशानिनः ॥३९॥यत्र दारमयं राज्यं भोगा दारप्रसंगजाः ।दारध्यानं दारपूजा ते हे निरयवासिनः ॥४०॥एवमाज्ञाहीनदारप्रसक्तो निरयेऽस्ति सः ।दाराश्रमस्ततो हीनस्तस्मात् त्यागः सदोत्तमः ॥४१॥दाराश्रमे ऋणं दैवं पैत्र्यमार्षं प्रवर्तते ।पूजापुत्राऽध्ययनैश्च निवर्तन्ते हि नान्यथा ॥४२॥गृहाश्रमोऽनपत्यानामपत्यार्थं प्रशस्यते ।तस्मिन् कृतेऽनपत्यत्वं निरयाय प्रकल्प्यते ॥४३॥जीविकाभावनालक्ष्यं दारगृहं तु देहिनाम् ।समस्तानां तु वर्णानां गृहाश्रमो हि भोज्यदः ॥४४॥भोज्यदाने चाऽसमर्थो गृहाश्रमो वृथाश्रमः ।कण्डनी पेषणी चुल्ली जलकुंभी च मार्जनी ॥४५॥पञ्चसूनाः सदाराणां स्वर्गरोधाः प्रपातिनः ।कामो लोभो रसास्वादः पैशुन्यं स्वार्थगौरवम् ॥४६॥मानं कलिश्चावमानं दोषा वसन्ति हारिषु ।अहंकारः प्रमोहश्चाऽऽसक्तिश्च वासना रतिः ॥४७॥मृषाऽऽडम्बर उद्वेगो दोषा वसन्ति दारिषु ।अनौदार्थं संग्रहश्च ग्रहणं चाऽनिवर्तनम् ॥४८॥प्रवृत्तिश्चाऽप्यसन्तोषो दोषा वसन्ति दारिषु ।मालिन्यं सूतकं हानिर्भयं मुहुः प्रवासनम् ॥४९॥दास्यं पराश्रयत्वं च दोषा वसन्ति दारिषु ।मृषा प्रशंसनं निन्दा स्वायत्तीकरणश्रमाः ॥५०॥आशापाशा नवनवा दोषा वसन्ति दारिषु ।ग्रहपितृप्रेतपीडा कुमेलोत्थप्रपीडनम् ॥५१॥रोगक्षुधातृषाजन्यबलक्षयादिदुःखिता ।भोगयोग्योपकरणानामलाभो दरिद्रता ॥५२॥तिरस्कारो नृपादीनां करादानं प्रसह्य वै ।प्रसंगोत्सवमोदादावसामर्थ्यं च भिक्षुता ॥५३॥अतिशयो निकटानां संशयो दूरवासिनाम् ।वियोगो विप्रकृष्टानां दोषा वसन्ति दारिषु ॥५४॥अविश्वासः स्वजनानां परेषां धनहारिता ।समूहाऽऽवासवशता दोषा वसन्ति दारिषु ॥५५॥ततो गृहाश्रमो भार्ये पदे पदेऽघदुःखकृत् ।स्वर्गसंशायकश्चापि मोक्षसंशायकोऽपि च ॥५६॥दाराश्रमे ये दोषास्ते त्यागिनः प्रायशो गुणाः ।त्यागाश्रमस्ततः श्रेष्ठः सवर्णवर्जितः शुभः ॥५७॥दाराश्रमे प्रजायन्ते ऋणिनः पुत्रपुत्रिकाः ।ऋणं दत्वा चिरमार्गं प्रयान्ति नाऽभियन्ति ते ॥५८॥दाराश्रमेऽर्पणबुद्धिः संकोचं भजते सदा ।आत्मविवेकविज्ञानं स्थितिं लभते वा न वा ॥५९॥आत्मनि श्रीकृष्णनारायणोपास्तिर्भवेन्न वा ।मोक्षो वा वृष एवापि सन्दिग्धा वै गृहाश्रमे ॥६०॥ततः पद्मावति प्रज्ञे नारायणो नरान्वितः ।त्यागाश्रमं प्रभजामि सर्वबन्धनवर्जितम् ॥६१॥मायारसो गृहस्थानां त्यागिनां भगवद्रसः ।आद्यानां सान्त एवाऽस्ति त्यागिनां शाश्वतो रसः ॥६२।निश्चिन्तता त्यागिनां वै यात्रामात्रजुषां भुवि ।सातिशयादिहीनत्वं सर्वभयादिशून्यता ॥६३॥जीवने मरणे साम्या बुद्धिस्तु त्यागिनां यतः ।समलोष्टाश्मकनकस्नेहानां चात्मवर्तिनाम् ॥६४॥नित्यानन्दे चित्सदात्मन्यवतिष्ठन्ति ये सटा ।व्रह्मानन्दपरास्तृप्तास्त्यागिनश्चात्ममूर्तयः ॥६५॥अत्र देहादिमन्तोऽपि देहसेवाविवर्जिताः ।जीवन्तोऽपि हरौ मग्ना जीवन्मुक्ता विदेहिनः ॥६६॥दोषशून्या गुरवस्ते परमोक्षप्रदायिनः ।लीलाप्रवृत्तिमन्तस्ते मायात्यागातिशोभनाः ॥६७॥विशेषोऽयं त्यागिनां वै गृहस्थेभ्यो मम प्रिये ।गृहस्थानां तु या आज्ञास्ता यदि स्वल्पखण्डिताः ॥६८॥गृहाश्रमस्ततो न्यूनो यतः शक्तो न पालने ।त्यागाश्रमस्तु हर्यर्थो मोक्षार्थः परमार्थकः ॥६९॥गृहाश्रमस्तु भोगार्थश्चाज्ञाभंगपरायणः ।कामभोगे दुष्टपाने दुष्टाशने तु जन्तवः ॥७०॥नैसर्गात् सम्प्रवर्तन्ते विमर्यादा विशेषतः ।मानवादींस्तादृशान् वै निवर्तयन्ति चाज्ञया ॥७१॥वेदाद्या विधिरूपा वै ह्याज्ञाकरा निवर्तकाः ।आज्ञामुखा निषेधन्ति विधिवत् तन्निषेधकाः ॥७२॥मा कुर्वन्तु विषयाणां भोगानिति मुहुर्मुहुः ।उपदिशन्ति तान् लोका अवमत्य पतन्ति च ॥७३॥दारग्रहस्वभावोऽयं यत्राज्ञापि प्रहीयते ।तस्माद् गृहाश्रमाच्छ्रेष्ठस्त्यागश्चाज्ञापरायणः ॥७४॥शृणुतं सहचारिण्यौ श्रैष्ठ्यं गृहाश्रमस्य तु ।दम्पती वा नरो नारी त्वेकवारम् ऋतूत्तरम् ॥७५॥गर्भार्थं भोगमादत्ते बालजन्मोत्तरं पुनः ।ऋतुधर्मे समापन्ने गर्भार्थं गमनं पुनः ॥७६॥एकवारं गर्भदानं युगान्तरे समान्तरे ।एवं तौ वर्तमानौ वै साध्वीसाधू प्रकीर्तितौ ॥७७॥पुत्रपुत्रीयुतौ दाराश्रमौ श्रेष्ठौ सदा मतौ ।ब्रह्मचर्यव्रतस्थौ च ब्रह्मशीलनतत्परौ ॥७८॥अध्यात्मचिन्तकौ हिंसास्तेयादिदोषवर्जितौ ।यथाप्तिलाभसन्तुष्टौ यात्रामात्रपरायणौ ॥७९॥स्वल्पसर्वोपकरणावेतौ श्रेष्ठौ गृहाश्रमौ ।पत्रैः पुष्पैः फलैरन्नैब्रह्मयज्ञपरायणौ ॥८०॥देवयज्ञपितृयज्ञपरौ चातिथिपूजकौ ।साधुसाध्वीयतियोगिसेवासत्संगशीलिनौ ॥८१॥शौचव्रततपस्तुष्टिपरौ क्लेशविवर्जितौ ।ब्रह्माऽर्पितक्रियाकाण्डौ कर्तव्यवृत्तियोजितौ ॥८२॥आज्ञामात्रानुसन्धानौ भोगवृत्तिविवर्जितौ ।जपकीर्तनमग्नौ च नवधाभक्तिशोभितौ ॥८३॥आत्मज्ञानपरावात्मसंशीलनपरायणौ ।ध्यानमग्नौ कृष्णनारायणस्मरणजीवनौ ॥८४॥सर्वाऽचिच्चित्कृष्णबोधौ कृष्णदृष्टिप्रकाशनौ ।उपार्जनपरौ योग्ययत्नकौ सक्तिवर्जितौ ॥८५॥रागशून्यौ द्वेषशून्यौ त्र्यवस्थागुणवर्जितौ ।एतादृशौ नरो नारी श्रेष्ठौ दारगृहाश्रमौ ॥८६॥यद्गृहे बालका बालाः सत्यः साध्व्यश्च साधवः ।भिक्षुका यतयः सिद्धा भुञ्जते दीनकिंकराः ॥८७॥अनाथाश्च महीमाना आगन्तुकाश्च वैष्णवाः ।अभ्यागताश्चातिथयो यात्रालवो वनस्थिताः ॥८८॥राजानो राजवर्गाश्च प्रजावर्गा नराः स्त्रियः ।सूतमागधचाराश्च दासवर्गाश्चतुर्थकाः ॥८९॥पशवः पक्षिणश्चापि यादांसि जन्तवस्तथा ।भुञ्जते यत्प्रदत्तं वै सर्वाधारो गृहाश्रमः ॥९०॥दाराश्रमे महादानं श्रेष्ठं सुरार्पणादिकम् ।भूवस्त्रस्वर्णपात्रान्नकन्यागोगृहदानकम् ॥९१॥सर्ववस्तुप्रदानं च श्रेष्ठं दाराश्रमे सदा ।साधूनां देवतानां च ऋषीणां पितृयोगिनाम् ॥९२॥पूजनं भोजनं यत्र श्रेष्ठो दाराश्रमस्ततः ।वंशविस्तारसन्तानो दारगृहैः प्रवर्तते ॥९३॥वंशे सन्तो मोक्षगाश्च साध्व्यो भवन्ति भाविनि ।तद्योगेन गृहस्थानामुद्धारः श्रेष्ठता ततः ॥९४॥विनावंशं न वै सृष्टिस्थितिः सा स्त्रीसमुद्भवा ।तस्मान्नारी वंशदा वै गृहिणः श्रेष्ठता ततः ॥९५॥नारी चाज्ञामयी यस्य तस्य मोक्षः करे स्थितः ।श्रेष्ठो दाराश्रमो नित्यं यद्याज्ञासृपिणी प्रिया ॥९६॥कृष्णनारायणो यस्य दाराऽर्पणं धनार्पणम् ।देहगृहाद्यर्पणं च सर्वार्पणं नरायणे ॥९७॥सम्पदामर्पणं सर्वसाधनार्पणमित्यपि ।क्रियार्पणं तथेन्द्रियकृत्यर्पणं हरौ मयि ॥९८॥मनश्चित्तमतीनां चार्पणं निजात्मना मयि ।प्रत्यर्पणं हरौ यस्या आज्ञार्पणं तथा मयि ॥९२॥कामरत्यर्पणं कृष्णे पुत्रपुत्र्यर्पणं हरौ ।यस्याः सर्वार्पणं श्रीशे श्रेष्ठौ दाराश्रमौ हि तौ ॥१००॥एवं दाराश्रमः श्रेष्ठः सर्वेच्छापूरकोऽस्म्यहम् ।पूरयित्वा समस्तेच्छानिवर्तकश्च शान्तिदः ॥१०१॥कृष्णो नारायणः स्वामी भवाम्यैश्वर्यदस्तथा ।प्रज्ञे पद्मावति चाहं तत्र निर्गुणताप्रदः ॥१०२॥भुक्तिर्मुक्तिप्रदः श्रेष्ठो वैष्णवः स गृहाश्रमः ।कान्ते द्वे! तत्पथासक्ता यान्ति धामाऽक्षरं परम् ॥१०३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां गृहाश्रमस्य निकृष्टतोत्कृष्टते त्यागाश्रमस्योत्कृष्टता चेत्यादिनिरूपणनामा सप्ताशीतितमोऽध्यायः ॥८७॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP