संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथामन्यां सुपावनीम् ।शर्करानगरे तत्र त्वेकाऽऽसीत् कुट्टनी सखी ॥१॥वारांगनानां मैत्र्याढ्या व्यवायिनां नियोजिनी ।योषितां युवतीनां कन्यकानां शौलनाशिनी ॥२॥नाम्ना साऽनङ्गवल्लीति या सा निर्धना ह्यति ।व्यवाययोगलब्धेन निर्वाहं प्रकरोति सा ॥३॥पापिनी पापरूपा सा जानाति ह्यौषधान्यपि ।ज्वरनाशकरं चौष्ण्यनाशकृद् रोगनाशकृत् ॥४॥गुप्तेन्द्रियादिरोगाणां त्वौषधं वेत्ति सा सखी ।गर्भस्रावौषधं भ्रूणघातौषधं च वेत्यपि ॥५॥अत एव व्यवायादौ निर्भया योगदायिनी ।पापज्ञानविहीनाऽऽसीज्जडा कामातिकामिनी ॥६॥स्वयं दुष्टा परा दुष्टाः सम्पादयति कर्मणा ।एवं तया तु बह्वीनामधवानां समुद्भवाः ॥७॥गर्भा निपातिता बीजनाशाश्चापि कृता मुहुः ।पक्वबाला जन्मयोग्या औषधैर्मारिता ह्यपि ॥८॥एवं सा बालहत्याऽघा शुश्राव संहिताकथाम् ।तया ज्ञातवती पापं बालहत्यादिजं महत् ॥९॥दुःखं ज्ञानवती चापि याम्यजं दुःसहं सखी ।स्वस्या अपि प्रतिगर्भं पतनं दण्डमुल्बणम् ॥१०॥ज्ञात्वा शुशोच बहुधा पापान्न्यवर्तताऽपि सा ।प्रायश्चित्तस्य जिज्ञासां चकार सद्गुरोस्ततः ॥११॥एकदा श्रीलोमशाऽग्रे निवेदयितुं सा ययौ ।कथान्ते लोमशं गत्वा पूजयित्वा तु दीनवत् ॥१२॥कृत्वा तु दण्डवद्योग्यं जग्राह चरणौ मुनेः ।पादप्रक्षालनं कृत्वा लोमशस्य महात्मनः ॥१३॥पपौ पादामृतं सर्वं शिरो धृत्वा तु पादयोः ।जगाद कृत्य पापादि सर्वं कपटवर्जितम् ॥१४॥कृपालुलोमशः श्रुत्वा ब्रह्मकूर्चव्रतं ददौ ।पलाशपत्रप्रभृतिक्वाथं च पञ्चगव्यकम् ॥१५॥पातुमाज्ञां ददौ तस्यै सा चकार यथोदितम् ।मासान्ते सा शुद्धदेहा मन्त्रं जग्राह लोमशात् ॥१६॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'कृष्णनारायण कृष्णनारायण नरायण ॥१७॥बालकृष्णाऽनादिकृष्णनारायण रमायण' ।मन्त्रमेवं भजनं च जग्राह लोमशान्मुनेः ॥१८॥मालाशतं कृष्णनारायेणनाम्नाऽप्यवर्तयत् ।नित्यं स्नात्वा सिन्धुनद्या जले पाति पदामृतम् ॥१९॥नित्यं कृष्णप्रसादं च भक्षयत्येव भावतः ।साधूनां पात्रशेषं च भक्षयत्यपि पावनम् ॥२०॥साधुवासेषु नित्यं सा मार्जनं पात्रमञ्जनम् ।करोति सेवनं गत्वा गात्रसंवाहनं सताम् ॥२१॥धूलिभिर्मार्जिताभिश्चोद्धूलनं निजवर्ष्मणि ।करोति भावतोऽनङ्गवल्लिका पापनुत्तये ॥२२॥धुन्यं च कीर्तनं नित्यं करोति सदसि स्थिता ।ददाति फलपुष्पादि संहितावाचकाय च ॥२३॥श्रीकृष्णाय सतीसद्भ्यो लोमशाय महात्मने ।धनं तु ढब्बुकमात्रं नित्य ददाति चक्रिणे ॥२४॥अक्षतानां नित्यमुष्टिं वाचकाय ददाति सा ।एवं कृतवती नित्यं भक्त्या साऽनङ्गवल्लिका ॥२५॥कथां शुश्राव बहुधा सर्वपापविशोधिनीम् ।सर्वाऽज्ञानहरां दीर्घतमोघ्नीं ज्ञानदायिनीम् ॥२६॥मासश्चास्या व्यतीयाय कथासेवादिकर्मभिः ।सा ददर्श ततः स्वप्ने प्रभुं कृष्णं समागतम् ॥२७॥स्पृशन्तं स्वां हसन्तं स्वां हासयन्तं श्रियः पतिम् ।वदन्तं स्वां विशुद्धाऽसि नयन्तं स्वां निजं प्रति ॥२८॥क्षणमेवं प्रदर्श्यैव भगवान् माधवीपतिः ।अदृश्यतां ययौ साऽपि जजागार समुत्सुका ॥२९॥उत्थाय सहसा ब्राह्मे मुहूर्ते तु निजालये ।तूर्णं सा परितः कृष्णं मार्गयामास भामिनी ॥३०॥प्रेमविह्वलतां प्राप्ता यदा लब्धवती न तम् ।तदा मुग्धा द्रुतं स्नात्वा पूजां कृत्वा परात्मनः ॥३१॥ययौ तूर्णं संहितायाः पूजार्थं कुंकुमाऽक्षतैः ।ब्राह्मे मुहूर्ते नारीणां प्रवाहस्तुमुलः प्रगे ॥३२॥सततं संहितायास्तु पूजने वर्तते सदा ।तन्मध्ये सा गता शीघ्रं ध्यात्वा स्वाप्नं प्रियं प्रभुम् ॥३३॥पूजयित्वा ततस्तूर्णं समुत्सुका तु लोमशम् ।गत्वा जगाद सर्वं तत् प्रसन्नमानसा सखी ॥३४॥श्रुत्वा श्रीलोमशः प्राह शुद्धा त्वं भक्तियोगिनी ।कृष्णप्रसन्नतां प्राप्ता वर्तसेऽद्य रमा यथा ॥३५॥भव सज्जा धाम गन्तुं मोक्षो तेऽत्र भविष्यति ।सर्वं पापं गतं तेऽद्य कृष्णो यद्गोचरोऽभवत् ॥३६॥ततः सापि जगादैनं गुरुं श्रीबद्रिके द्रुतम् ।सज्जाऽस्मि किन्तु भगवन्नास्ते मे हृदि चिन्तनम् ॥३७॥मम योगेन या नार्यो युवत्यो धववर्जिताः ।गर्भपातादिदोषाढ्या भ्रूणूहत्यान्वितास्तथा ॥३८॥तासां कल्याणमिच्छामि पापनाशनपूर्वकम् ।कृपा तेऽस्ति तथा चाज्ञा कृपालोस्ते गुरोरिह ॥३९॥ताः सर्वास्त्वच्छरणं चानयामीह प्रमुक्तये ।विना नारायणं कृष्णं विना च सद्गुरुं क्वचित् ॥४०॥पापानां नैव निस्तारो योषितां स्यात् कदाचन ।विना वैष्णवभक्तानां शरणं नैव रक्षणम् ॥४१॥विना श्रीकृष्णभक्तानां सेवनं नाऽघमर्षणम् ।विना सतां प्रसादं न पापिनां वासनाक्षयः ॥४२॥विना चेतनतीर्थं न पापात्मनां विशोधनम् ।नारीणां दुर्लभा शुद्धिर्गुरो लोकेऽत्र मायिके ॥४३॥कामक्षेत्रे तु निष्कामिसतां सेवा हि शुद्धिदा ।या नारी वाञ्छति शुद्धिं मुक्तिं ब्राह्मीं परं पदम् ॥४४॥तया सेव्या हरेः सन्तो निष्कामाः कृष्णमूर्तयः ।सतां प्रसेवया कामक्रोधलोभादिनाशनम् ॥४५॥वासनानां विनाशश्च भवेन्मे वै यथाऽभवत् ।तस्माद् गुरो समिच्छामि मत्सखीनां विशोधनम् ॥४६॥प्राप्ते कृष्णे गुरौ दिव्ये त्वात्ममोक्षः पुरो मतः ।कृष्णगुर्वोः कृपया तु चात्मीयानां मतोऽपि सः ॥४७॥आत्मनस्तारणे पुण्यं ततोऽयुतं परस्य तु ।योषितां तारणे तत्र पुण्यं कोटिगुणं मतम् ॥४८॥अनाथानां तारणे तु ब्रह्माण्डोद्धारजं हि तत् ।अनाथा योषितो यास्ता मत्पाशे पतिता गुरो ॥४९॥यावत्तासां तु नोद्धारस्तावन्मे नरकं भवेत् ।पातितस्योदयं कृत्वा क्षन्त्वाऽपराधमस्य च ॥५०॥निर्ऋणं तु निजं कृत्वा ततो गम्यं दिवं सुखम् ।इत्येवं मे गुरो चास्ते मतिर्नारीप्रमोक्षिणा ॥५१॥ताः सर्वास्तमसि स्थाप्य कथं मे मोक्षणं भवेत् ।सखीत्वं तु तदेवाऽत्र समलाभो यदात्मनोः ॥५२॥स्वार्थमात्रस्तु लाभादिर्नरकं कपटान्वितम् ।तन्मया सर्वथा तासां कर्तव्यं मोक्षणं प्रभो ॥५३॥पुनः क्षणो दिव्यगतिर्नागमिष्यति सद्गुरो ।इत्युक्त्वा सा विरराम बद्रिकेऽनङ्गवल्लरी ॥५४॥लोमशोऽपि शुभं मत्वा कृपया तां जगाद ह ।योग्यं वदसि कल्याणि श्रेष्ठं विचार्यते त्वया ॥५५॥स्वार्थस्य साधकः प्राणी नारकी नात्र संशयः ।स एव काकः सर्पश्च सूकरः स्वार्थसाधकः ॥५६॥त्वं परार्थपरा साध्वी द्वयोः कल्याणकारिणी ।परकल्याणकर्त्र्यास्तु स्वं कल्याणं प्रजायते ॥५७॥अवश्यं परलोकाँस्त्वं जिताऽसि चोपकारिणी ।यथेष्टं वर्तमाना या चापि पापातिपापिनी ॥५८॥परोपकारधर्मा चेत् स्वर्गं विन्दति सा सती ।परोपकारः पुण्यार्थः परपीडा तु पापदा ॥५९॥परपीडानाशयित्री मुच्यते दुःखबन्धनात् ।परेषां सुखदो लोकः स्वर्गे लोके महीयते ॥६०॥अवश्यं चानङ्गवल्लि! समानय सखीजनान् ।ताभ्यो मन्त्रं प्रदास्येऽत्र दास्ये नामजपं तथा ॥६१॥व्रतं दास्ये ब्रह्मकूर्चं करिष्ये पापनाशनम् ।पावनास्ताः करिष्येऽहं मोक्षभागा विशुद्धिगाः ॥६२॥इत्येवं बद्रिके सोक्ता लोमशेन महर्षिणा ।शर्करानगरं तूर्णं गत्वा यत्र च यत्र च ॥६३॥युवत्यो धवहीनाश्च व्यवायव्यवसायिकाः ।गर्भपातभ्रूणहत्यादोषवत्योऽभवन् पुरे ॥६४॥अनङ्गवल्लीसंगिन्यस्तास्ताः साऽनङ्गवल्लरी ।बोधयामास पापानां नुत्तये श्रेयसे तथा ॥६५॥ताश्च विश्वासमापन्ना अनङ्गवल्लिकायुताः ।स्नात्वा पूजोपसामग्रीर्नीत्वा गुर्वग्रमागताः ॥६६॥युवत्यस्ताः शतं बद्रि विधवा गर्भपातिकाः ।कन्यकाश्च शतं गर्भहन्त्र्योऽपि यौवनान्विताः ॥६७॥आगताः श्रीलोमशाग्रे पापभयेन शोकिताः ।सलज्जा स्वसखीवाक्यविश्वस्ता आययुर्मुनिम् ॥६८॥पादजलं पपुः सर्वा लोमशस्य ततः कथाम् ।शुश्रुवुस्तास्ततो ब्रह्मकूर्चं व्रत च जगृहुः ॥६९॥पूजां ताः संहितायाश्च प्रचक्रुर्वाचकस्य वै ।प्रदक्षिणं स्तुतिं चक्रुः क्षमां ययाचिरे ततः ॥७०॥मन्त्रं जगृहुर्मुनितो नामधुन्यं प्रजगृहुः ।'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ॥७१॥ 'कृष्णनारायण कृष्णनारायण नरायण ।बालकृष्णाऽनादिकृष्णनारायण रमायण ॥७२॥एवं मन्त्रं च भजनं प्राप्य तथा समाचरन् ।स्नात्वा तीर्थे सदा ताश्च शुश्रुवुः संहिताकथाम् ॥७३॥एवं तासु समस्तासु वर्तमानासु बद्रिके ।पूतासु जायमानासु सतां सेवापरासु च ॥७४॥आज्ञापरासु सर्वासु लोमशस्य प्रसन्नता ।अभवल्लोमशस्ताभ्यो ददौ कृष्णप्रसादजम् ॥७५॥स्वभुक्तं फलमेवाऽपि मिष्टान्नं निजपात्रजम् ।साधुप्रसादमासाद्य बुभुजिरेऽतिभावतः ॥७६॥तावत्तासां शरीरेभ्यः कृष्णाः काका विनिर्ययुः ।सर्वे ते गर्भहत्याख्या भ्रणूहत्यास्तथाऽभवन् ॥७७॥उड्डीयोड्डीय चाकाशे निपेतुः सिन्धुसागरे ।विनाशं सहसा प्रापुः काकात्मकान्यघानि वै ॥७८॥स्त्रियस्ताः शुद्धतां प्राप्ता भजन्ति स्म नरायणम् ।पारायणं भावभिन्नाः शृण्वन्त्वेकाग्रमानसाः ॥७९॥तावदनगवल्लीं तु नेतुं कृष्णः समाययौ ।फाल्गुनस्य तु पूर्णायां तिथौ कृष्णनरायणः ॥८०॥विमानेनाऽऽस्थितो भूमावनंगवल्लिकापुरः ।प्राह तां तु समागन्तुं मोक्षार्थं तु विमानके ॥८१॥तावत् सा दयया प्राह कृष्णनारायणप्रभो ।द्वे शते मम संगिन्यश्चैताः स्त्रियोऽघभाजनाः ॥८२॥कथालोमशयोगेन निष्पापा यदि सन्ति चेत् ।नेतव्यास्तास्तव धामाऽक्षरं दिव्या विधाय ताः ॥८३॥नान्यथाऽहं कृष्णकान्त मोक्षमिच्छामि चैकला ।उद्धर ताः समस्ता वै ततश्चोद्धर मामपि ॥८४॥श्रुत्वा चातिप्रसन्नोऽभूद् बालकृष्णः प्रभेश्वरः ।कृपालुर्भगवानाहाऽनंगवल्लि शुभं तव ॥८५॥याः सर्वा विधवास्तास्तु नेष्ये मेऽक्षरमुत्तमम् ।त्वया साकं विमानेन करिष्ये कमलासमाः ॥८६॥यास्तु सन्ति कन्यका वै तासां मोक्षोऽधुना नहि ।ताः सर्वाः स्वजनकस्य गृहे वसन्तु निर्भयाः ॥८७॥पूता निष्पापदेहास्ताः कृपया भालिता मया ।विवाह्य ताश्च गार्हस्थ्यमनुभूय ततः परम् ॥८८॥आयुषोऽन्ते मम धाम चायास्यन्ति न संशयः ।इत्युक्त्वा श्रीकृष्णनारायणः पस्पर्श पाणिना ॥८९॥सर्वास्तास्तत्र तत्काले संहिताश्रवणाऽऽस्थिताः ।पावयित्वा समस्तास्ता विधवास्तु शतं तदा ॥९०॥दिव्यदेहा विधायैव विमाने स्वेऽध्यरोहयत् ।कन्यकास्तु समाज्ञाप्य स्थातुं पितृगृहे तदा ॥९१॥विमानेन ययौ कृष्णो धामाक्षरं निजं महत् ।सर्वेषां पश्यतां बद्रि साऽनंगवल्लिका ह्यपि ॥९२॥दिव्यदेहाऽभवत्तूर्णं दिव्या दिव्यविभूषिता ।विमानं समधिरुह्य ययौ धामाऽक्षरं हरेः ॥९३॥जयकारो महानासीत् पुष्पवृष्टिरभूत्तदा ।अधमोद्धारके कृष्णे माहात्म्यमतुलं ह्यभूत् ॥९४॥बद्रिके गर्भघातिन्यः कथाश्रवणमात्रतः ।पूततां ता गताः सर्वा गुरोर्बलात्प्रमोचिताः ॥९५॥अहो बलं गुरोः श्रेष्ठतमं श्रीभगवानपि ।यदग्रे निर्बलो भूत्वा करोति सद्गुरोर्वचः ॥९६॥वीक्ष्य श्रुत्वा तु माहात्म्यं व्यवायदोषनाशकम् ।अन्या अपि तदा नार्यः कृष्णाश्रयं व्यधुर्मुदा ॥९७॥स्वदोषान् क्षपयामासुरनन्यभक्तितत्पराः ।मन्त्रं ता रटयामासुर्नामकीर्तनमाव्यधुः ॥९८॥सतां सेवां प्रचक्रुश्च दानपुण्यं प्रचक्रिरे ।प्रपत्तिं जगृहुश्चापि पवित्रत्वं प्रपेदिरे ॥९९॥दिव्यभावाः शीलपरा धर्मदार्ढ्यास्ततोऽभवन ।अनादिश्रीकृष्णनारायणभक्तियुताः सदा ॥१००॥एवं श्रीबद्रिके देवि प्रभुःकृष्णो हरिः स्वयम् ।चकार मोक्षणं तासां प्राप्तकाले दयानिधिः ॥१०१॥पठनाच्छ्रवणादस्य स्मरणाच्चिन्तनादपि ।गुणग्राहाद् वर्तनाच्च स्वर्गो मोक्षो भवेद् ध्रुवः ॥१०२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापुरवासिन्याः व्यवायकारयित्र्या गर्भ्रभ्रूणबालघातिन्या अनंगवल्लर्याः तत्सखीशतद्वयस्यापि च संहिताश्रवणादिना मन्त्रव्रतसेवाभिश्च पापनिर्मुक्तिर्मोक्षणं चेत्यादिनिरूपणनामा षट्पञ्चाशत्तमोऽध्यायः ॥५६॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP