संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७१ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७१ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७१ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि कथां नकुलमोक्षदाम् ।प्रसादोच्छिष्टसम्पन्ने चोत्करे तु बुभुक्षितः ॥१॥नकुलः कश्चिदायातः कथामण्डपसन्निधौ ।भुक्तवान् स तदोच्छिष्टं सतां प्रसादमिश्रितम् ॥२॥तावत् स मूर्छितस्तत्र तत्याज निजविग्रहम् ।देवस्वरूपः सञ्जातो वैशाखपञ्चमीदिने ॥३॥शुक्लपक्षे तदा सर्वैर्दृष्टः सुरोत्तमः स तु ।पृष्टश्चोवाच वृत्तान्तं नैजं पूर्वभवस्य तु ॥४॥शृण्वन्तु वैष्णवा लोका अच्छोदरपुरे पुरा ।अहमासं ज्ञानिवर्यो वारुटः सागराभिधः ॥५॥लोकाः सागरदानेति विदुर्मां ज्ञानिनाम्बरम् ।इतिहासकथाभिज्ञं समाहूय निजालयान् ॥६॥कारयन्ति कथाख्यानं शृण्वन्ति मानवास्तदा ।पूजयन्ति प्रसन्नास्तेऽर्पयन्ति मे धनादिकम् ॥७॥अहं तृप्तो धनं लब्ध्वा प्रयामि स्म स्वमन्दिरम् ।कथासु दानवार्तां वै करोमि पूर्वभूभृताम् ॥८॥धर्मवार्तां गवां सेवां पितृसेवां वदामि च ।तीर्थसेवां व्रतरक्षां देवपूजां समुत्सवान् ॥९॥नियमाँश्च यमाँश्चापि जनानुपदिशामि च ।स्नानधर्मादिकं सर्वं चोपदिशामि सर्वथा ॥१०॥नाहं किंचिन्मनाग् वापि पालयामि तु तत्तथा ।मृषावादी मिष्टवादी स्वार्थसिद्धिपरायणः ॥११॥दुष्टात्माऽहं धनधूर्तो धनं हरामि वार्तया ।न धर्मं न नियमं यमं व्रतं करोम्यपि ॥१२॥आसीत् सर्वं वचने मे न क्रियायां तु किञ्चन ।आचारहीनः सततं तदाऽभवं प्रतारकः ॥१३॥गवां पित्रोः सुराणां च सेवया हीन इत्यपि ।अभवं सर्वथा आर्या असत्प्रलापगर्जनः ॥१४॥तेन पापेन मे विद्या कुविद्या समजायत ।व्याख्यानानि समस्तानि शाठ्यपापफलानि च ॥१५॥वाक्छलैर्ग्रथितान्येव पापदानि ममाऽभवन् ।एवं पापातिभारेण नष्टायुष्यो मृतोऽभवम् ॥१६॥याम्यपुरं गतस्तत्र याम्यैः संदंशकुण्डके ।क्षिप्तो जिह्वा कर्तिता मे बहिः कृष्टा चिपीटकैः ॥१७॥संदंशैस्तीक्ष्णधारैश्च निष्कासिता मुहुर्मुहुः ।भेदिता छेदिता चापि प्रज्वालिता च कूर्चिता ॥१८॥विदारिता कच्चरिता तनुर्मे कर्दमीकृता ।बहूनि तत्र कष्टानि भुक्त्वा नकुलतामिह ॥१९॥गतोऽस्मि क्षुधया त्वत्रोत्करोच्छिष्टं प्रजग्धिवान् ।तेन नष्टानि पापानि ममाऽवशेषकाण्यपि ॥२०॥पूतात्मा पूण्यवानस्मि सञ्जातोऽद्य दिवंगमः ।सुरोऽस्मि चाऽद्य सम्पन्नः प्रयामि स्वर्गमुत्तमम् ॥२१॥इत्युक्तवान् बद्रिके स नेमे सर्वान् सुवैष्णवान् ।अथ तत्र सुरं तं तु जगाद लोमशो मुनिः ॥२२॥शृणु त्वं सुरवर्याऽद्य देवत्वं गतवानपि ।मरणं ते पुनश्चाऽस्ति देवेऽमृतत्वमस्ति न ॥२३॥तस्मात् साधय पुण्यात्मन्नमृतत्वं तु शाश्वतम् ।अपुनर्भवसंज्ञं च ब्रह्मलोकमनामयम् ॥२४॥श्रुत्वेतथं लोमशं सोऽपि पप्रच्छ कुशलं ध्रुवम्।कथं मुनेऽमृतधामप्राप्तिः स्याद् वद मे द्रुतम् ॥२५॥लोमशः प्रत्युवाचैनं कथां शृणु स्थिरो भव ।प्रसादं श्रीहरेर्भुंक्ष्व नैवेद्यं हरयेऽर्पितम् ॥२६॥व्रतं रक्ष सतां सेवात्मकं भक्तिं कुरु प्रभौ ।कृष्णार्पणं समस्तं वै विधेहि परमेश्वरे ॥२७॥मन्त्रं धुन्यं गृहाणाऽपि वैष्णवो भव उत्तमः ।महाभागवतो भूत्वाऽक्षरं धाम प्रयास्यसि ॥२८॥इत्युक्तश्च तदा देवस्वरूपः स कथालये ।देवानां मण्डले दिव्यरूपस्तत्र तिरोऽभवत् ॥२९॥संहितायाः कथां श्रोतुं देवगणे स्थिरोऽभवत् ।व्रतं चक्रे प्रसादान्नभोजनं सप्तवासरान् ॥३०॥सतां सेवां मानवेन स्वरूपेण करोत्यपि ।पादसंवाहनं देहमर्दनं दर्शनादिकम् ॥३१॥वैशाखशुक्लैकादश्यां प्रातः कथाश्रवोत्तरम् ।लोमशः कृपया तस्मै मन्त्रं धुन्यं ददौ द्रुतम् ॥३२॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'प्रभोनारायण पद्मावतीनारायण प्रभो ॥३३॥जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो' ।सोऽपि देवो मनुं लब्ध्वा नामधुन्यं चकार ह ॥३४॥नैवेद्यभोजनं कृत्वा यावद् देवगणे स्थितः ।अकस्मादाययौ तावन्मध्याह्ने श्रीनरायणः ॥३५॥दिव्यश्वेतहयारूढः श्रीपतिः कमलापतिः ।अनादिश्रीकृष्णनारायणश्रीपतिवल्लभः ॥३६॥तं नेतुमाययौ पक्षितुरगे छत्रशोभिते ।आह्वयामास तं देवं भगवान् कम्भरात्मजः ॥३७॥सर्वेषां पश्यतां देवश्चाऽश्वाऽऽरूढो बभूव ह ।नीत्वा तं भगवान् कृष्णनारायणोऽक्षरं ययौ ॥३८॥कृपैषा श्रीहरेश्चाति लोमशस्याऽपि भूयसी ।सान्तममरभावं तं शाश्वताऽमरतामितः ॥३९॥नकुलः सकुलश्चापि भगवत्कुलवान् कृतः ।बद्रिके सा कथा चात्र प्रभूता कथिता परा ॥४०॥अथाऽन्यं ते प्रवदामि चमत्कारं हरेः प्रभोः ।भाटः कश्चित्कथां श्रोतुं समायातः कथास्थलम् ॥४१॥नारायणहरे कृष्णनारायणेति संजपन् ।श्लोकं कृत्वा स्तुतिं चक्रे संहितायाः सभास्थले ॥४२॥'कथा कल्याणदा चेयं श्रीकृष्णः करुणाप्रदः ।कीरताराभिधो भाटः श्रेयसेऽत उपागतः' ॥४३॥'नमो व्यासाय कृष्णाय संहितायै नमो मुहुः ।वैष्णवानां सभायै च लोमशाय नमो मुहुः ॥४४॥नमः सद्भ्यो महर्षिभ्यः साध्वीभ्यश्च नमो मुहुः ।पावनेभ्योऽत्र देवेभ्यः सर्वेभ्यश्च नमो मुहुः ॥४५॥श्रूयन्ते बहवः पापास्तारिताः कृपया खलाः ।कृष्णनारायणेनात्र कीरतारं समुद्धर ॥४६॥हृदये वर्तते यश्च व्यासे च पुस्तकेऽपि यः ।सदस्येषु च भाटे यः स मामुद्धरतु प्रभुः ॥४७॥बहूनां जन्मनामन्ते प्राप्तोऽस्मि परमेश्वरम् ।शरण्यः स हरिर्भाटं प्रपन्नं पातु पामरम् ॥४८॥प्राप्तमद्य मया स्वर्णं रत्नं पीयूषममृतम् ।पीत्वा पीत्वा दृढो भूत्वा प्रयास्यामि परं पदम् ॥४९॥उद्धर्ताऽनादिश्रीकृष्णनारायणः प्रभेश्वरः ।परं धाम प्रयास्यामि मन्त्रधुन्यादिलाभवान् ॥५०॥एवं तुष्टाव च नमश्चोवाच दण्डवत्तथा ।चक्रे स्वात्मार्पणं तत्र धूलिं देहेऽप्यघर्षयत् ॥५१॥अथ श्रीव्यासदेवश्च स्वतःप्रकाशकायनः ।ददावस्मै मनुं नामधुन्यं सलिलसाक्षिकम् ॥५२॥ 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।'प्रभोनारायण पद्मावतीनारायण प्रभो ॥५३॥जयाकृष्ण ललिताश्रीकृष्ण राधापते विभो' ।'बालकष्णाय विद्महेऽनादिकृष्णाय धीमहि ॥५४॥तन्नो हृत्स्थः प्रचोदयादिति मन्त्रं च जगृहे ।भाटः पवित्रतां प्राप्तोऽभवद् विगतकल्मषः ॥५५॥बद्रिके स प्रसादं च जग्ध्वा पीत्वा पदामृतम् ।दधार तौलसीं कण्ठीं चक्रे तिलकचन्द्रकौ ॥५६॥धुन्यं चक्रे मुदा नृत्यन् कथां शुश्राव लीनवत् ।ब्रह्मरसं पपौ नित्यं साधुसेवां चकार च ॥५७॥मासमात्रं स्थितस्त्वेवं भजन् श्रीकान्तवल्लभम् ।कथार्थांश्चिन्तयन् ध्यायन् हृदये परमेश्वरम् ॥५८॥गोपालनन्दनं दिव्यं धारयन् कम्भरात्मजम् ।वैशाखशुक्लैकादश्यां मुक्तसंसारबन्धनः ॥५९॥कीरतारः कथां श्रूत्वा समाधिं प्राप मण्डपे ।यावत्तत्र समायातं विमानं कृष्णशोभितम् ॥६०॥दिव्यं तेजांसि परितः प्रासृजत् स्वर्णकान्तिमत् ।कीरतारोऽभवन्मुक्तस्तदा वै दिव्यविग्रहः ॥६१॥चतुर्भुजः सुरूपश्च पार्षदः परमात्मनः ।स्वर्णकुण्डलमुकुटस्रगापीडादिभूषितः ॥६२॥आरुरोह विमानं तत् समाहूतो दयालुना ।पश्यतां तु सदस्यानां ययौ धामाऽक्षरं हरेः ॥६३॥शृणु बद्रीप्रिये चात्र कृपैव कारणं हरेः ।य इच्छति मोक्षं तं द्रुतं नयति माधवः ॥६४॥शाश्वतानन्दलब्धेस्तु साधनं शरणागतिः ।तवाऽस्मीति याचकाय स ददाति परं पदम् ॥६५॥देही दिव्यो भवत्येव प्रारब्धं परिवर्तते ।कृष्णमन्दिरवासार्हो जायते कृपया हरेः ॥६६॥नरो मुक्तः पार्षदः स्यान्नारी लक्ष्मीः प्रजायते ।कृष्णेन सह रमतेऽश्नुते कृष्णस्य सद्रसान् ॥६७॥न न्यूनं विद्यते तस्य तादात्म्यद्रवतां लभेत् ।स्वामिनाथात् सर्वकामान् भुंक्ते कृष्णासनासनः ॥६८॥स्पर्शानन्दान् समस्ताँश्च कृष्णमालिङ्ग्य सोऽश्नुते ।रूपानन्दान् रसानन्दान् जिह्वास्वादान् समस्तकान् ॥६९॥गन्धानन्दान् गिरानन्दान् समस्ताऽऽश्लेषमोदकान् ।शय्यानन्दान् समस्ताँश्च कृष्णकान्तात् समश्नुते ॥७०॥क्वचिद्धाम्नि निजं कृष्णं कान्तं रहः प्रसेवते ।क्वचिद् रम्याणि पुष्पाणि भूत्वा गन्धैः प्रसेवते ॥७१॥क्वचित् फलं स्वयं भूत्वा कृष्णं रसेन सेवते ।क्वचिद्भूत्वा कामधेनुः कृष्णं दुग्धेन सेवते ॥७२॥क्वचिद्भूत्वा रमा रामं वक्षस्याराममिच्छति ।क्वचिच्छ्रीमाणिकी भूत्वा वहते कान्तमुत्तमम् ॥७३॥क्वचिद् भ्रमरिका भूत्वा कृष्णगन्धं समश्नुते ।क्वचिद् राधा सखी भूत्वा ताम्बूलं प्रददात्यपि ॥७४॥भूत्वा लक्ष्मीर्हरेरोष्ठताम्बूलरसमेति च ।आन्धसिकी क्वचिद् भूत्वा पाचयत्यस्य भोजनम् ॥७५॥दासी भूत्वाऽऽप्लवनं सा कारयत्यच्युतस्य वै ।देहसंवाहनं दासो भूत्वा करोति सेवनम् ॥७६॥यष्टिः स्वर्णमयी भूत्वा करस्पर्शं सुविन्दति ।नक्तकश्च क्वचिद् भूत्वा मुखस्पर्शं प्रविन्दति ॥७७॥पादुकारूपमासाद्य पादचूम्बनमृच्छति ।आदर्शरूपमासाद्य कृष्णं स्वस्मिन् दधात्यपि ॥७८॥गेन्दुकतां समासाद्य कृष्णपृष्ठं दधात्यपि ।कुंकुमं चन्दनं भूत्वा भालसुखं प्रविन्दति ॥७९॥कज्जलं च क्वचिद् भूत्वा नेत्रस्पर्शं प्रविन्दति ।दुग्धं दुग्धामृतं भूत्वा जठरे संविशत्यपि ॥८०॥जलं भूत्वा तथा धौत्रं कटिस्पर्शं च विन्दति ।तैलं भूत्वा रोममूलस्पर्शसुखं च विन्दति ॥८१॥मनोभवः स्वयं भूत्वा कृष्णानन्दं समश्नुते ।राधा भूत्वाऽस्य रमते यानं भूत्वा वहत्यपि ॥८२॥सिंहासनं क्वचिद् भूत्वा राजते स्वामिनाऽऽश्रितम् ।कम्बलश्च क्वचिद् भूत्वा परितः सेवते हरिम् ॥८३॥सुगन्धिपवनो भूत्वा सेवते शीतलोऽपि सन् ।ऊर्मिका वांऽगरक्षं च भूत्वाऽङ्गुलिं च वर्ष्म च ॥८४॥कौस्तुभो रशना भूत्वा वक्षः कटिं च सेवते ।भुक्तिपात्रं क्वचिद् भूत्वा प्रसादं सर्वमश्नुते ॥८५॥स्नानकुण्डं क्वचिद् भूत्वा स्पर्शं विन्दति सर्वतः ।क्वचित् कान्ता प्रमा भूत्वा कान्तमाश्लिष्यति प्रभुम् ॥८६॥क्वचित्तु गरुडो हस्ती भूत्वा वाजी विमानकम् ।वाहनं नरयानादि भूत्वा धारयति प्रभुम् ॥८७॥क्वचित् पाशंवती भूत्वा सर्वसेवां करोति हि ।मुक्ता मुक्तानिका प्रेम्णाऽस्तुवते हरिजं रसम् ॥८८॥बद्रि धाम्न्यक्षरे प्रेम्णा मुक्ताः पिबन्ति तद्रसम् ।गोलोके गोपिका गोपा पिबन्ति कृष्णजं रसम् ॥८९॥वैकुण्ठे पार्षदाः पार्षदान्यः पिबन्ति तद्रसम् ।अव्याकृतेऽमृते धाम्नि श्रीपुरे बदरीवने ॥९०॥श्वेतद्वीपे क्षीरवार्धौ पिबन्ति सेविनो रसम् ।कुंकुमवापिकाक्षेत्रे ब्रह्मप्रिया हरिप्रियाः ॥९१॥पिबन्त्यनादिकृष्णस्य रसं राधारमाश्रियः ।जया च ललिता लक्ष्मीः मालती माणिकी प्रिया ॥९२॥पद्मावती सुखदाश्रीर्नारायणी च भार्गवी ।तुलसी पद्मिनी पद्मा पिबन्ति ता हरेः रसम् ॥९३॥बदरी च विकुण्ठा च मुक्तिः शक्तिः सरस्वती ।ता एताः श्रीकृष्णकान्तरसं पिबन्ति शाश्वतम् ॥९४॥सनकाद्याः साधवश्च नारदाद्या महर्षयः ।व्यासाद्याः शंसकाश्चापि कार्ष्णं रसं पिबन्ति हि ॥९५॥बलिराजादयो दैत्या विभीषणादिराक्षसाः ।ईश्वराः शंकराद्याश्च पिबन्ति श्रीहरेः रसम् ॥९६॥अग्न्यादयो देवताश्च काश्यपा गरुडादयः ।मानवा ध्रुवमुख्याश्च पिबन्ति श्रीहरेः रसम् ॥९७॥भोगिनः शेषसर्पाद्या गावस्तु कामधेनवः ।आत्मनिवेदिनो भक्ताः पिबन्ति श्रीहरेः रसम् ॥९८॥बद्रिके शरणं प्राप्ताः सामस्त्येन समर्पिताः ।दासा दास्यः प्रियवर्गाः पिबन्ति श्रीहरेः रसम् ॥९९॥ये ये धामाऽक्षरं प्राप्ताः परब्रह्मरसं तु ते ।पिबन्ति सततं बद्रि परब्रह्मकृपाश्रयाः ॥१००॥कृपया च गतौ मुक्तिं सागरः कीरतारकः ।पाठको वाचकः श्रोता संहिताया हि मोक्षदाः ॥१०१॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सागरदानवारुटस्य कीरतारभाटस्य च कथाश्रवणसाधुसेवादिभिर्मोक्षणमित्यादिनिरूपणनामैकसप्ततितमोऽध्यायः ॥७१॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP