संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः २० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः २० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः २० Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि ततः श्रीबालयोगिनी ।पुनः स्वमातरं प्राह यत्तद्वदामि ते तथा ॥१॥उपासनां परब्रह्मरसास्वादनदायिनीम् ।आत्मनः किरणं यद्वन्मनोऽन्तःकरणं तथा ॥२॥मानसीं प्रतिमां कृत्वोपासीत मनसि प्रभुम् ।अविकृतं मनस्तद्वै यत्कृष्णे चानुसंहितम् ॥३॥तदेव बोध्यं परमभागवतसतां मनः ।आसक्तं यद्धरौ नित्यं शीतोष्णभाववर्जितम् ॥४॥साधु मनस्तद्विज्ञेयं कृष्णे निश्चलनिष्ठितम् ।अखण्डस्नेहधाराढ्यं कृष्णे विश्राममेति यत् ॥५॥सिद्धवद् यदिवद्योगिजनवन्मुक्तवन्मनः ।वधूवत् कान्तवद्यच्च निजेष्टतमवत्तथा ॥६॥यन्मनो वर्तते कृष्णे यत्स्फूर्तिं विदधाति यत् ।यन्मग्न यत्स्मृतेर्हेतुस्तदश्नुते हरेः रसम् ॥७॥निर्वासनं मनो नित्यं निर्वासनहरिस्थितम् ।हरेः सतां सेवया च वासना लीयते द्रुतम् ॥८॥सेवायां किंकरी भूत्वा राज्ञ्यपि वर्तते तु या ।दानाधीनसमा दासी प्रसादं विन्दति प्रभोः ॥९॥भगवतः सतां चापि रुचेरविषयं तु यत् ।न कर्तव्यं भवेद् यस्याः कर्तव्यं कृष्णरोचकम् ॥१०॥अन्तरायकरं कृष्णसेवायामिष्टमित्यपि ।त्यक्तव्यं च भवेद् यस्या हरेः प्रसादमृच्छति ॥११॥गुरुवत्पितृवन्मातृवद्भूमिपालवत्तथा ।हरिः प्रसन्नतामेति शिष्यायां या हि रोचिका ॥१२॥श्रेयसे या सतां प्रसन्नतार्थं यतते सदा ।दयात्यागौ कृष्णसेवोपासनायां क्षतिप्रदौ ॥१३॥दयात्यागौ ततो मन्दीकृत्याऽपि माधवं भजेत् ।पुष्पशृंगारहाराद्यः प्रसादयेत् प्रियम्पतिम् ॥१४॥शय्याभोजनपानाद्यैः तोषयेन्माधवीपतिम् ।सर्वस्वार्पणदानाद्यैः रामयेल्ललितापतिम् ॥१५॥सर्वेन्द्रियान्तःकरणैरुपासीत श्रियाः पतिम् ।देहेन गुणधर्माद्यैः प्रसादयेज्जयापतिम् ॥१६॥भक्तान् प्रसादयेच्चापि सेवया चानुसेवया ।भक्तानामपि भक्ता स्याद् या सा ब्रह्मरसाशना ॥१७॥हरेः प्रसन्नताहेतुर्भक्तसेवाऽपि चोत्तमा ।भक्तसंपप्रसादौ च भक्तसेवा रसप्रदा ॥१८॥भूस्थापि साधुसेवायां रक्ता या साऽक्षरे स्थिता ।न रोगाः श्रीहरेः संगे विघ्नं कुर्वन्ति सेवने ॥१९॥सावधाना हरेर्नाम्नां वृत्तान्तस्य श्रवेऽपि च ।दृढासक्त्या दृढसंस्कारैश्च कृष्णमयी भवेत् ॥२०॥ब्राह्मी भूत्वा भजेत् कृष्णं वल्लभं स्वामिनं प्रभुम् ।अक्षरातीतपुरुषोत्तमं कारणकारणम् ॥२१॥वासुदेवं भगवन्तं महापुरुषपूरुषम् ।पितरं सर्वसृष्टीनां पतिं सर्वशरीरिणाम् ॥२२॥साक्षिणं कर्मिणां चान्तःप्रकाशकं गुणात्मनाम् ।उत्तमं च विशेषं च पुंसां सर्वावतारिणम् ॥२३॥स्वामिनं ब्रह्मपुरुषैरुपासितपदाम्बुजम् ।सेवेत कम्भरानन्दं बालकृष्णं नरायणम् ॥२४॥कृष्णे सम्बन्धमुत्कृष्टं कुर्यात् सञ्जीवनी लता ।अमृतावल्लिका यद्वच्छिन्ना सक्ताऽपि जीवति ॥२५॥वटद्रुवत् प्रकुर्याच्च स्नेहं श्रीमतिवल्लभे ।जटां स्वस्मात् समुद्भाव्य शाखामूलोऽपि जीवति ॥२६॥तथेन्द्रियादिविषयैः स्नेहं कृत्वाऽपि माधवे ।या जीवेत् प्राणमर्पय्य सा कृष्णरसमश्नुते ॥२७॥कृष्णं कुटुम्बिनं नैजं स्निग्धं सर्वार्थपूरकम् ।ज्ञात्वा धृत्वाऽग्रगं कृत्वा विहरेद् ब्रह्मभूमिषु ॥२८॥ध्यात्वा साक्षाद् बालकृष्णं संकीर्त्य गुणगायनैः ।आसेव्य हृदये कान्तं रहोरसं समर्जयेत् ॥२९॥स्मृतिं सदाऽन्तःकरणे कुर्याच्छ्रीकृष्णचक्रिणः ।प्रसन्नतां हरेः श्रेष्ठामासादयेत् प्रसेवया ॥३०॥निष्कामतां प्रालयेच्च कृष्णार्थकृतनिश्चया ।सर्वस्वार्पणरूपा सा श्रीकृष्णे सर्वकामना ॥३१॥एवं नैष्कर्म्यमासाद्य निष्कामं कृष्णमर्जयेत् ।उपासीत पतिं कृष्णं क्रियया सेवयेहया ॥३२॥स्नेहभक्त्या भावनया निजार्पणविधानया ।आसक्त्या प्रज्ञया वासनयाऽऽत्मार्पणचिन्तया ॥३३॥प्राणार्पणप्रकारेण रसेच्छाचिन्तनेन च ।साध्वीधर्मविशेषेण तथाऽभ्यासेन चाऽर्जयेत् ॥३४॥कृष्णं कृष्णरसं कृष्णसतां सत्संगसद्रसम् ।कार्ष्णीना च समस्तानां रसं दिव्यं समर्जयेत् ॥३५॥सञ्चितानि समस्तानि प्रभौकान्ते विनिक्षिपेत् ।देहेन्द्रियादि कर्माणि श्रीकृष्णे निक्षिपेत् सती ॥३६॥आत्मदर्शनकर्त्री स्यात् परमात्मविलोकिनी ।हरेश्चरित्रगीत्याद्यैश्चोपासनादिभिस्तथा ॥३७॥स्मृत्या सन्ततया चापि कृष्णरसं समर्जयेत् ।उपासीत हरिं साक्षात्तच्चरित्राणि कीर्तयेत् ॥३८॥नामाभिभजनं कुर्यात् कृष्णधर्मं प्रपालयेत् ।कृष्णलीलामयी भूत्वा कृष्णब्रह्मरसं पिबेत् ॥३९॥अखण्डवृत्तिं श्रीकृष्णे समाधिना प्रवर्तयेत् ।शूरवीरा भवेत् कृष्णे स्निग्धा माहात्म्यवेदिनी ॥४०॥कृपापात्रं भवेच्चापि सेवया सा रसं पिबेत् ।कृष्णं विनाऽन्यतुच्छार्थे स्नेहो माया हि तां जयेत् ॥४१॥कृष्णाज्ञां संवहेन्मूर्ध्ना माया तस्या लयं व्रजेत् ।धनदे पुत्रदे लोके प्रतीतिर्जायते द्रुतम् ॥४२॥सा प्रतीतिर्हरौ कृष्णे यस्याः सा प्रकृतिं जयेत् ।स्वभावं स्वं च सा त्यक्त्वा श्रीकृष्णे प्रविशेत् सदा ॥४३॥जीवात्मनो हरौ तत्र तादात्म्यं स्नेहसंभृतम् ।दिव्यं वै बन्धनं कृष्णे प्रवेशो रटनात्मकः ॥४४॥कृष्णं विना महादुःखविपन्नदिवसान् नयेत् ।कृष्णेऽनादौ परे नारायणे तादात्म्यमाप्नुयात् ॥४५॥देहान्ते वा सदेहे वा कृष्णकान्तेतिभावयेत् ।अन्तर्दृष्ट्या हरौ कान्तेऽपरोक्षानुभवो भवेत् ॥४६॥तेन ब्रह्मरसश्रेष्ठसुखचैतन्यमापतेत् ।कृष्णनारायणः साक्षात् स्वरसं वै समर्पयेत् ॥४७॥सदा सा कृष्णवामांगी रहस्यं परमं लभेत् ।जगत्स्थित्यै भक्ततृप्त्यै वर्तते भुवि माधवः ॥४८॥अनादिवासुदेवोऽपि कृष्णो नारायणः प्रभुः ।धर्मार्थकामनाचेष्टाः कृतवान् प्रकरोत्यपि ॥४९॥जीवा गायन्ति शृण्वन्ति तास्ते मुच्यन्त एव ह ।मायाया बन्धनात् पापात् प्राप्नुवन्ति परं पदम् ॥५०॥जन्म कर्म रतिः कामो मूर्तिश्चेष्टा क्रिया हरेः ।मूर्तिर्दिव्या मोक्षदा च सर्वं कृष्णस्य मोक्षकृत् ॥५१॥श्रीकृष्णपरमब्रह्मोपासनां विदधति या ।दृढप्रतीतियुक्ता सा वधूटीः स्यात् परेश्वरी ॥५२॥सतां सेवापरा साध्वी भवेत् कार्ष्णी जनार्दनी ।भक्तापराधनिरपेक्षिणी कृष्णाद्यपेक्षिणी ॥५३॥सतां सेवाऽपेक्षिणी च श्रीकृष्णरसभागिनी ।महासुखाब्धिमग्ना सा सम्मानार्हा रमा यथा ॥५४॥भवत्येव सदा सेवागुणग्राह्यर्थनावती ।दण्डवत्प्रप्रणामादिपरा साध्वादरान्विता ॥५५॥अज्ञातद्रोहशान्त्यर्थं दीनवत्प्रार्थनापरा ।कृष्णप्रेमातिमग्ना च साध्वाशीर्वादपात्रिणी ॥५६॥भाग्यं महत्तमं नैजं सेवायां मन्यते सताम् ।हरेः प्रसन्नतार्थं सा निजकल्याणहेतवे ॥५७॥सर्वस्वं संप्रदायैव ब्रह्मरसं समश्नुते ।प्रतिगोपिसमरूपो ददाति स्वं रसं परम् ॥५८॥कोट्यर्बुदाब्जपत्नीनां प्रतिरूपो बभूव यः ।विवाहे च रतौ वासे रहस्ये रससम्प्रदः ॥५९॥अनादिश्रीकृष्णनारायणो गोपालनन्दनः ।अक्षराधिपतिः स्वामी कान्तः श्रीकम्भरात्मजः ॥६०॥स्वामिनीश्रीमहालक्ष्मीलालितो माधवीपतिः ।कोटिमुक्तानिकास्वामी प्रत्यात्मान्तरतत्पतिः ॥६१॥सर्वकामप्रदस्तस्य योगस्था रसमश्नुते ।स्निग्धां मुग्धां वियुक्तां न कदाचित् कुरुते प्रभुः ॥६२॥गुणातीता निजसत्तामात्ररूपां समुत्थिताम् ।निर्गुणां ब्रह्मरूपात्मप्रीतिं सा माधवेऽश्नुते ॥६३॥यस्याः सतां भगवतः संगो वा दर्शनं पुरा ।जातं तस्या दिव्यभावो ब्रह्मभावः सदा भवेत् ॥६४॥नाऽस्या माया नैव रागो वासना न हरीतरा ।बदरीनाथरमणे सर्वथा वर्तनं भवेत् ॥६५॥निरन्नभुक्तातुल्या सा हरेः प्रसन्नतापरा ।भक्तप्रसादमापन्ना तत्परा परमे पदे ॥६६॥कृष्णनारायणमूर्तिसच्चिदानन्दभोगिनी ।सतां प्रसादमासाद्य भुंक्ते धामाऽक्षरे सुखम् ॥६७॥अग्निचन्द्रार्कविद्युद्भिः प्रसादिता हि साधवः ।ततस्ते संप्रकाशन्ते सदैव सुखिनो दिवि ॥६८॥शुभैः सन्तस्तोषणीया ब्रह्मरसाप्तिहेतवे ।ते सन्ति ब्रह्मचैतन्यरसपूर्णा हरौ स्थिताः ॥६९॥आत्मकल्याणपरमब्रह्मानन्दसुखैषिणी ।हरेः सतां प्रसादं वै सेवया सर्वथाऽर्जयेत् ॥७०॥हानिं वृद्धिं हि लोकानां दृष्ट्वा यो न विशोचति ।भजते श्रीहरिं दिव्यं सत्पुरुषः स कृष्णवत् ॥७१॥एकान्तिकं महाभागवतं धर्मं समाश्रितः ।अभावस्तादृशानां तु यस्याः सा मृतसदृशी ॥७२॥विन्दत्यत्र न सौख्यं स्वं कथं ब्रह्मसुखं लभेत् ।महापापाऽपि या नारी सतां गुणं प्रसन्नताम् ॥७३॥सेवां चाज्ञां प्रगृह्णाति सा पूताऽप्यक्षरं व्रजेत् ।सतां योगेन पापानि प्रणश्यन्ति द्रुतं त्विह ॥७४॥इन्द्रियाणि शरीरं च मन आत्मा मतिस्तथा ।दिव्यान्यत्र प्रजायन्ते परमोक्षकराण्यपि ॥७५॥अखण्डं शाश्वतं कृष्णस्वरूपं सत्समागमे ।स्थित्वाऽर्ज्यं परमब्रह्मरसावाप्त्यै स्त्रिया ततः ॥७६॥कृष्णवत् कृष्णभक्तानां मिथो भक्तैः सुमाननम् ।कर्तव्यं चापि बोद्धव्यं माहात्म्यं सेवनं तथा ॥७७॥कृष्णनारायणसङ्गाद् भक्ता भक्तानिकास्त्विह ।दिव्यास्ते आक्षराः सन्ति मुक्ता निर्गुणभावनाः ॥७८॥पावनाः सर्वलोकानां सेवनीया यतो मिथः ।मोक्षदास्ते प्रसन्नाः स्युः कृष्णस्तेषु विराजते ॥७९॥राधारमाद्या भक्तासु विराजन्ते सदा स्त्रिषु ।अनादिश्रीकृष्णनारायणो नरेषु राजते ॥८०॥प्रसादनीयाः सततं कृष्णवच्छ्रीर्यथा मिथः ।प्रसादेन हि लभ्यन्ते परब्रह्मरसाब्धयः ॥८१॥उपासना हरेर्यद्वत् तथा सतां सदा शुभा ।भक्तानां चापि कर्तव्या ब्रह्मानन्दस्ततो भवेत् ॥८२॥निजानन्दरसं भुंक्ते सहजानन्दसद्रसम् ।कृष्णनारायणस्वामिरसं कार्ष्णी वधूः सदा ॥८३॥कृष्णमूर्त्यखण्डचिन्तावती साध्वी सखी प्रिया ।प्रेमपूर्णा बालकृष्णस्वरूपैक्यगता सती ॥८४॥या कृष्णरससम्पूर्णा तस्यां कृष्णोऽपि सर्वदा ।प्रसह्य वसति प्रेम्णा दातुं नैजं रसं परम् ॥८५॥साध्वीमध्ये रमा चास्ते रमायां भगवानपि ।महानन्दरसस्तत्र कृष्णे नित्यं विराजते ॥८६॥रसे प्रेमसखी चास्ते प्रेमसख्यां तथा हरिः ।एवमैकात्म्यमेवाऽस्ति सखीकृष्णरसात्मनाम् ॥८७॥साध्वी कृष्णमयी यत्र जन्म गृह्णाति सुन्दरी ।तत्प्रसूस्तद्गृहं तस्या धन्याः कुटुम्बिबान्धवाः ॥८८॥ब्रह्मवित्साधुसंगेन वार्तेयं ज्ञायते परा ।अनादिश्रीकृष्णनारायणसाक्षात्प्रदर्शनम् ॥८९॥चिन्तनं स्फुरणं ब्रह्मवित्सतां संगमाद् भवेत् ।लाभो मानुषदेहस्य नान्यो हर्याप्तिमन्तरा ॥९०॥सर्वेन्द्रियाणि साधूनां हरेः सेवार्थकानि च ।तत्पराणि सदा यस्याश्चैकान्तिकी हि सा भवेत् ॥९१॥मुख्या सा हरिभक्तासु राधा लक्ष्मीः प्रभौ यथा ।एकान्तं कृष्णकान्तस्य यस्या रसाय रोचते ॥९२॥यस्याः कृष्णस्वरूपस्याऽऽकारस्य दिव्यता मता ।सतां च दिव्यता यस्याः साऽश्नुते कृष्णसद्रसम् ॥९३॥यथा नद्यः समुद्रेषु यथाऽग्नौ तु पतंगकाः ।शूरा रणेषु सत्यश्च पत्यौ कृष्णे तु गोपिकाः ॥९४॥लीनाः सर्वस्वहोमाश्च भवन्ति हि तथा हरौ ।एकरसे परिपूर्णे ब्रह्मात्मनि परेश्वरे ॥९५॥लीना या चाक्षरी भक्ता दिव्या स्त्री पुरुषोत्तमी ।अखण्डिताऽतिस्नेहा च निःसीमप्रीतियोजिका ॥९६॥सर्वद्रवाभियोगा च सर्वथा कृष्णसंश्रिता ।लभते चाश्नुते कृष्णकान्तरसं तु शाश्वतम् ॥९७॥आत्मसत्तास्वरूपेण वर्तमाना प्रभापतौ ।मर्यादयाऽतितादात्म्यमापन्ना लभते रसम् ॥९८॥इत्युक्त्वा बद्रिके तावद्विरराम हि सा क्षणम् ।माताऽप्युपासनायोगाद् ब्रह्मरसेच्छुकी ह्यभूत् ॥९९॥बालयोगिनी बालेशं बालकृष्णं बलीश्वरम् ।बालरसात्मकं प्राप्य मोदते मातृसन्निधौ ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां श्रीकृष्णकान्तोपासनया तद्रसावाप्तिरितिनिरूपणनामा विंशोऽध्यायः ॥२०॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP