संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि श्रुत्वा तत्कन्यकावचः ।बद्रिकायनमुनिराट् कन्यका मोहवर्जिताः ॥१॥निश्चिकाय तिरोभूय ययौ तासां गृहं प्रति ।मम् तासां भ्रातरस्तु रथ्यामार्जनकर्मिणः ॥२॥कुर्वन्ति मार्जनं तत्र गत्वा रुरोद वै ऋषिः ।दृष्ट्वा तं संरुदन्तं ते पप्रच्छुः कारणं तदा ॥३॥उवाचर्षिर्महादुःखभृतः श्वासं मनाग् धरन् ।अहोहो बह्वनिष्टं व ममाश्रमस्य सन्निधौ ॥४॥सञ्जातं त्वद्य वच्म्यत्र श्रोतव्यार्हं न विद्यते ।राक्षसाः पञ्च चायाता मम कुट्याः समीपतः ॥५॥कृत्रिमौज्ज्वल्यसम्पन्ना महामोहकराः खलाः ।कारेलिकायाः पञ्चापि कन्यका वव्रिरे तु तान् ॥६॥राक्षसास्ता द्रुतं नीत्वा ययुश्चाब्धितलालयम् ।अहोऽनिष्टं परं जातं भक्तायाश्चातिदुःखकृत्। ॥७॥शशाकाऽहं न तत्सोढुं ज्ञापनार्थमुपागतः ।श्रुत्वैतत् पञ्च सबलाः सहोदराः सहायिनः ॥८॥कारयन्तु कन्यकानां स्वसृणां मोक्षणं ततः ।अहो मोहः कन्यकानां शवादानां स्त्रियोऽभवन् ॥९॥इत्युक्त्वा बहुधा साधुः शुशोच भ्रातृसन्निधीौ ।भ्रातरस्ते वीक्ष्य चैतद् ऋषिं प्राहुस्तदोत्तरम् ॥१०॥ऋषे ते दर्शनादद्य जन्मसाफल्यमेव नः ।स्वसॄणां जन्मसाफल्यं यद् भवदाश्रमान्तिके ॥११॥भवतो दर्शनं कृत्वा पतिप्राप्तिं गतास्तु ताः ।भवता वीक्षिताश्चापि शौचिता मुक्तयेऽपि च ॥१२॥राक्षसा अपि ऋषिराड् भवता तु निभालिताः ।भवत्प्रतापतस्तेऽपि भविष्यन्ति महर्षयः ।१२॥कन्यकाः पञ्च एवापि वैष्णव्यः सन्ति धार्मिजाः ।धर्मवत्यश्च पावन्यः पापिनां मोक्षदा अपि ॥१४॥रक्षसामपि तासां संप्रसङ्गेन प्रमोक्षणम् ।भविष्यति न सन्देहस्तत्र शोको न विद्यते ॥१५॥कन्यारत्नं प्रदातव्यं यस्मै कस्मै तु कर्मिणे ।कर्मबन्धेन जायन्ते पत्न्यश्च पतयस्त्विह ॥१६॥तासां भाग्येषु पुरुषा राक्षसा लिखिता यदि ।पतयस्ते प्रजाता वै तत्र का परिवेदना ॥१७॥कन्याधनं परकीयं पुंसापेक्षं सदा मतम् ।तज्जातं समये तासां तत्र का परिवेदना ॥१८।शरीराणि समस्तानि समविकृतिवन्ति वै ।भौतिकानि भवन्त्येव तत्र का परिवेदना ॥१९॥पुमान् वा यदि वा नारी मूत्रमलादिविकृतिः ।सर्वत्र सदृशी वेदी तत्र का परिवेदना ॥२०॥यदि नारायणं कृष्णं भजत नहि मानवः ।विप्रोऽपि राक्षसो बोध्यस्तत्र का परिवेदना ॥२१॥राक्षसोऽपि हरेर्योगं भक्तयोगं च विन्दति ।विप्रः स एव भक्त्याढ्यस्तत्र का परिवेदना ॥२२॥सर्वे भक्तिं विना देवा मानवाश्च महर्षयः ।वर्ष्ममोहपरा वर्ष्मभोक्तारो राक्षसा मताः ॥२३॥देहेन्द्रियाणां भोगाँस्तु त्यक्त्वाऽऽत्मवेदिनस्तु ये ।अन्तरात्मपरासक्तास्त एव ऋषयो मताः ॥२४॥येषां सर्वमिदं कृष्णमयं कृष्णशरीरकम् ।कृष्णान्वितं समस्तं वै तेषां दैवित्वमुच्यते ॥२५॥येषां रूपे रसे स्वादे कामे देहे च वासना ।भेददृष्टिर्वर्ततेऽपि ते नरा राक्षसास्त्विह ॥२६॥भक्तिमत्यः कन्यकास्ता आत्मनिवेदनान्विताः ।सन्ति महाभागवत्यस्तासां संगं गतास्तु ये ॥२७॥तासु भावपरा ये च तासु रक्ताश्च ये नराः ।तासु स्नेहपरा जाता दैवास्ते न तु राक्षसाः ॥२८॥परकीयं धनं सर्वं परहस्ते गतं भवेत् ।सहसा वाऽर्पितं वापि प्रसह्याऽपि गतं भवेत् ॥२९॥गतं काले यथारेखं तत्र का परिवेदना ।संसारस्य गतिश्चेयं कन्याऽन्यस्मै प्रदीयते ॥३०॥तारतम्यं ततः स्नेहे दम्पत्योर्व्यज्यते ह्यनु ।मिथः स्नेहे विवृद्धे तु सुखं तयोः प्रजायते ॥३१॥स्वर्गं दैवाधिवासार्हं तद्गृहं प्रोच्यते तयोः ।यदि स्नेहो मिथो नैव जायते नैव वर्धते ॥३२॥वैमनस्यं कलहश्च नरकं तत् सदा त्विह ।स्थितिश्चैतादृशी यत्र रक्षोधर्मास्तु तत्र वै ॥३३॥प्रायशः खलु सृष्टौ वै रक्षोधर्मा भवन्ति हि ।एकत्रोत्पद्यते सर्वं पोषणं चैति भौतिकैः ॥३४॥भुज्यते त्वपरेणैतत् फलकन्याधनादिकम् ।स्वसृमातृव्यवहाराः सापेक्षा निर्मितास्त्विह ॥३५॥कन्या चेद् राक्षसं भक्त्या वृणुते तन्मनस्विनी ।तां तु निवारयितुं न शक्तः कश्चिद् भवेदिह ॥३६॥कन्या चेत् विमना देवे दत्तापि न सुरैषिणी ।प्रेषयितुं न तां शक्तः कश्चिद् भवेत् स्वयंवराम् ॥३७॥यत्र मनो गतं लग्नं यस्याः स एव तत्पतिः ।अलग्नं तु मनो यत्र तत्र स्वामित्वमेव न ॥३८॥एवं स्थितेऽत्र संसारे नः काऽत्र परिवेदना ।महर्षे त्वं वृथा शोकं कुरुषे विषमे वृषे ॥३९॥भोग्यं भोक्ता भुनक्त्येव भोग्यं भोक्तारमृच्छति ।तत्र कः शोकः को मोहः का तत्र वेदनाऽपि च ॥४०॥स्वागतं तेऽर्हणं ब्रह्मन् गृहाण भोजनादिकम् ।मधुपर्कं गृहीत्वाऽपि पावयित्वा च नस्त्विह ॥४१॥मध्वाशीर्भिर्नः प्रयुज्य याहि विद्वन् यथागतम् ।मा मोहं च शुचं विद्वन् याहि निसर्गसर्जने ॥४२॥करिष्यामो यथायोग्यं तत्र का परिवेदना ।इत्युक्तो बद्रिके भ्रातृभिश्चर्षिर्विस्मयं गतः ॥४३॥निर्मोहा भ्रातरः सर्वे निश्चिकाय शमं ययौ ।अथर्षिर्मातरं गत्वा कन्यकानां जगाद ताम् ॥४४॥अहो पुत्रा निर्दयास्ते निर्घृणा स्वसृशत्रवः ।स्वसॄणां चापहरणे राक्षसैर्विहितेऽपि ते ॥४५॥प्रबोधिता मया चापि साहाय्यार्थं न यान्ति वै ।प्रत्युत ज्ञानवन्तस्ते निवारयन्ति मामपि ॥४६॥स्वसृभावं मनाङ् नैव विज्ञापयन्ति लौकिकम् ।शुष्कहृदयभावास्ते शृण्वन्ति नापदं तव ॥४७॥शृणु मातर्महानिष्टं संभूतं मत्पदाश्रये ।राक्षसैस्ते कन्यकानां प्रसह्य हरणं कृतम् ॥४८॥अत्यनिष्टं हि तज्जातं मातर्मोचय पुत्रिकाः ।शोचाम्यहं तदर्थं वै सन्निधौ ते समागतः ॥४९॥विना तु रक्षणं तासां नाशो वा स्यात्तु राक्षसैः ।भोगं वा प्रमदानां ते करिष्यन्ति स्वकीयवत् ॥५०॥यद्वा मुग्धाः स्वपत्नीत्वं करिष्यन्ति न संशयः ।याहि शीघ्रं रक्षणार्थं सह चायाम्यहं द्रुतम् ॥५१॥इत्युक्ता बद्रिके माता कारेलिका मुनीश्वरम् ।शोचन्तं फुत्कारयुक्तं शिरोहस्तद्वयं तदा ॥५२॥प्राह मुने कथं कन्याकृते शोकं करोषि वै ।न ते कन्या न ते योगः सम्बन्धस्ते न विद्यते ॥५३॥संसारोत्तीर्ण एवासि कथं संसरसि क्षये ।अविनाशं निजात्मानं स्मर संसारवर्जितम् ॥५४॥अस्मादृशीनां संसारः सोऽपि यावन्निजार्थकः ।भवादृशानां संसारश्चाऽसारः सर्वदा मतः ॥५५॥तत् कथं मुनिराट् चिन्तयसि स्त्रीजनचेष्टनम् ।कन्यका यास्तु ताः कालान्तरे यास्यन्ति भोग्यताम् ॥५६॥पत्नीत्वं परकीयात्वं परे तु मानवाः सुराः ।यद्वा दैत्या राक्षसा वा नरा वै पतयो मताः ॥५७॥यथा भाग्यं तथा जातं जायतेऽपि तथैव हि ।पूर्वसञ्चितवेगेन जायन्ते गृहमेधिनः ॥५८॥यदर्थं निर्मिता कन्या पतिः स एव तिष्ठति ।अनिर्मितो न वै स्वामी कदाचिदपि जायते ॥५९॥राक्षसाः पतयस्तासां निर्मिता यदि सन्ति चेत् ।लब्धवन्तः रुन्यकास्तास्तत्र का परिवेदना ॥६०॥याहि विद्वन् ब्रह्ममार्गं भ्रममार्गं तु मा वह ।मोहं मा कुरु पारक्ये दैहिके वाऽप्यदैहिके ॥६१॥प्ररक्षितं गृहे द्रव्यं परकीयं भवेद् यदि ।पारक्यं परहस्ते तद् यथाभाग्यं गमिष्यति ॥६२॥परित्यक्तं जने द्रव्यं स्वकीयं चेद् भवेद् यदि ।स्वत्ववन्निजहस्ते तत् प्रसह्यैवागमिष्यति ॥६३॥अब्ध्युद्भवा घनाश्चापि रत्नानि मौक्तिकान्यपि ।भाग्यवतां गृहे राष्ट्रे प्रयान्त्यम्बरमार्गतः ॥६४॥गृहोद्भवाः कुमारा वा कुमार्यो यतिधर्मगाः ।भाग्यवशात् प्रयान्त्येव वनारण्यगुहादिकम् ॥६५॥नारिकेलफले वारि प्रच्छन्नमपि रोहति ।दीयमानमपि वारि कमले नाधिरोहति ॥६६॥तस्मात् पूर्वकृता योगा भवन्ति नरयोषिताम् ।तथा जाताः कन्यकानां तत्र का परिदेवना ॥६७॥मया सृष्टाः कन्यकास्ता बद्रीफलार्थमुत्सुकाः ।स्वयं यात्रा धृतास्तत्र परैः का परिवेदना ॥६८॥कन्यकात्वं ध्रुवं नास्ति मातृगृहं ध्रुव न च ।परगृहं सुतरां न ततः का परिवेदना ॥६९॥ईक्षणं न ध्रुवं चास्ते परीक्षा न ध्रुवा तथा ।परीक्षको ध्रुवो नास्ति ततः का परिवेदना ॥७०॥याहि विद्वन् कुटीं नैजां मा मोहं याहि तत्कृते ।करिष्ये कारयिष्ये वा योग्यं मत्कन्यकाकृते ॥७१॥इत्येवं बोधितो विप्रो महाश्चर्यपरोऽभवत् ।कन्यकावद् भ्रातरश्च माताऽपि मोहवर्जिता ॥७२॥अथ यामि पितरं वै कथयामि नियोजितम् ।विचार्येत्थं शुष्कमनाः शोकोद्गारपराहतः ॥७३॥निस्तेजा इव संभूत्वा कन्यानां जनकं ययौ ।पीटयामास हस्ताभ्यां कपोलौ भालगण्डकौ ॥७४॥मुमोचाऽश्रूणि बहूनि परं शोकं त्वदर्शयत् ।आश्वासितो दयायुक्तैवाक्यैर्धैर्यं प्रदापितः ॥७५॥पित्रा शनैश्च संपृष्टः कारणं प्रति भूसुरः ।उवाच हिक्कासहितः कम्पयन् मस्तकं निजम् ॥७६॥अहो दुःखमहो कष्टमहो न्यायविवर्जितम् ।मया दृष्टं निर्घृणाढ्यं कन्यकानां मदन्तिके ॥७७॥ममाश्रमे पञ्चभिश्च रक्षोभिः प्रबलैर्द्रुतम् ।कृतं त्वपहरणं वै निर्बलानां प्रसह्य तु ॥७८॥रक्षणार्थं द्रुतं तासां समागच्छ विभञ्जन! ।त्वं पिता रक्षकस्तासां शीघ्रं कुरु मया सह ॥७९॥विभञ्जनाभिधो रथ्यामार्जकः प्राह तं मुनिम् ।स्वागतं मुनिराट् तेऽस्तु धन्यवादं ददामि ते ॥८०॥वैराग्यमार्गवासस्य रागचेष्टाविधायिनः ।त्यक्तकुटुम्बयोगस्य परार्थयोगशोकिनः ॥८१॥वृथा मोहगतस्याऽत्र चात्मारामस्य रोगिणः ।किं ते गतं कन्यकानां गमने राक्षसैः सह ॥८२॥कन्याहस्तग्रहाः सर्वे राक्षसा मानवा भुवि ।नरहस्तग्रहा नार्यो राक्षस्यस्तास्तथा भुवि ॥८३॥त्यक्तलज्जाधर्मकर्माणो ये ते राक्षसा मताः ।पत्न्यश्च पतयस्तद्वन्नग्ना वै राक्षसाः सदा ॥८४॥कुणपे स्नेहवन्तो ये मूत्रगोलकलुब्धकाः ।मिथो युज्यन्त उद्वृत्ताः प्रच्छन्ना राक्षसास्तु ते ॥८५॥देहोऽयं राक्षसः प्रोक्तः परदेहस्य भक्षकः ।मुने संसारवेलातो बहिश्चासि प्रयाहि वै ॥८६॥स्वखेदं कुरु विप्रेन्द्र राक्षसत्वविमुक्तये ।परखेदपरत्वे तु विशेषो राक्षसात्तु कः ॥८७॥कर्मणा योगमासाद्य वियोगं यान्ति कर्मभिः ।कर्मसम्बन्धिसंसारे का ते मे परिवेदना ॥८८॥पूजां गृहाण विप्रेन्द्र भोजनं कुरु भावतः ।वासं विधेहि विश्रान्तिं शान्तिं गृहाण मा शुचः ॥८९॥सर्वं कालवशं लोके जायते चोपतिष्ठति ।काले गते पुनस्तद्वै वियुज्यते न तिष्ठति ॥९०॥यथायोग्यं तु सत्कारं लब्ध्वा याहि निजालयम् ।त्यक्ताऽहंममताभावे कथं शोकस्त्वयि स्थितः ॥९१॥देहोऽयं भोग्य एवाऽस्ति भोगस्थानं सदाऽऽत्मनः ।आत्मा भुंक्ते निजं मत्वा देहं देहान्तरं च वा ॥९२॥भोगो मोहः परः प्रोक्तो निर्भोगो मोहवर्जिता ।सुखदुःखैकसाक्षात्कारस्तु भोगो हि मन्यते ॥९३॥मुने मा तेऽस्तु मुक्तस्य मा मां योजय तत्र च ।निरञ्जनोऽस्मि ना चास्मि मोहभञ्जनकोऽस्मि च ॥९४॥कन्यकानां न मे मोहस्ते कथं वर्तते त्विह ।अलक्ष्ये मोहनं ते मे विज्ञापयति कृत्रिमम् ॥९५॥शोकं सन्दर्शयसेऽत्र याहि योगिन् यथागतम् ।विधास्ये रक्षणं योग्यं स्वस्ति ते मेऽस्तु सर्वथा ॥९६॥इत्युक्त्वा भञ्जनः शूद्रो भोजनादि समार्पयत् ।तावत् ताः कन्यकास्तत्र पक्वबद्रीफलानि तु ॥९७॥संगृह्य त्वागतास्तूर्णं सर्वाः प्रसन्नमानसाः ।पृष्टास्ता भ्रातृभिर्मात्रा पित्रा तथाऽन्यमानवैः ॥९८॥राक्षसोपद्रवे तास्तु श्रुत्वा तं बद्रिकायनम् ।असत्प्रलापिनं ज्ञात्वा मुनिधर्मच्युतं तथा ॥९९॥अस्थानकृतजिज्ञासं शेपुर्मूको भवाऽधुना ।इत्युक्ते मूकतां साधुरव्रजद् वाग्विदूषणैः ॥१००॥प्रार्थयामास मनसा निर्मोहिकन्यकास्तथा ।मातरं पितरं भ्रातॄनर्थयामास भाषणम् ॥१०१॥दयापरा धर्मधर्त्र्यः कृष्णकान्तपरायणाः ।कुटुम्बिनः समस्तास्ते चक्रुर्निर्मूकतां मुनेः ॥१०२॥मुनिर्विवेद सर्वेषां निर्मोहित्वं महत्तमम् ।जिज्ञासायाः स्वयं मोहं त्यक्त्वा नत्वा पुनः पुनः ॥१०३॥मानं हित्वा ययौ पूजां प्राप्य दण्डभयाद् द्रुतम् ।एवं बद्रौप्रिये देवि कन्यका भ्रातरः पिता ॥१०४॥माता च मोहशून्यास्तेऽभवन् कृष्णपरायणाः ।निरञ्जनश्च निर्वाणो निर्मोहोऽपि निरीहकः ॥१०५॥निराशयश्च ते पञ्च भ्रातरो नामतः स्मृताः ।निःस्वरूपा निरभिधा निरन्तरा निरागसा ॥१०६॥निजानन्दा च पञ्चैताः पुत्रिका नामतस्तु ताः ।सर्वेऽनादिकृष्णनारायणस्य परमात्मनः ॥१०७॥जन्मजयन्त्युत्सवे चैकोनविंशे ययुस्ततः ।प्रभुं कृष्णं प्रभुं लब्ध्वा पूर्णाशाः पूर्णकामनाः ॥१०८॥बभूवुर्दिव्यरूपाश्च श्रीकृष्णस्य प्रसादतः ॥हरिं प्रपूज्य भावेन चाऽवतार्य निजान्तरे ॥१०९॥आगतेन विमानेन चाश्वपट्टसरस्तटे ।बालकृष्णेच्छया तूर्णं ययुश्चाक्षरमुत्तमम् ॥११०॥एवं बद्रीप्रिये देवि कारेलिकाकुटुम्बिनः ।बालकृष्णस्य वै भक्त्या बद्रिकायनयोगतः ॥१११॥दिव्यभावं समवाप्य निर्मोहतां प्रगम्य च ।परं मोक्षं ययुः सर्वे कृष्णकान्तस्य भक्तितः ॥११२॥पठनाच्छ्रवणाच्चास्य मननाच्छ्रवणादपि ।भुक्तिमुक्त्यौ भवेतां वै कृष्णकान्तकृपालवात् ॥११३॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कारेलिकाशूद्राण्या मार्जयित्र्या निर्मोहित्वपरीक्षायां बद्रिकायनर्षेर्मूकत्वं, शापनिवृत्तिः, पञ्चकन्यकानां पञ्चपुत्राणां पत्युश्च मोक्षणमित्यादिनिरूपणनामा सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP