संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ९४ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ९४ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ९४ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये प्रज्ञापारावतीश्वरः ।तपोलोकं प्राजगाम तापसानां निवासनम् ॥१॥अर्यमादिकपितॄणां पुण्यस्थानं परं दिवम् ।पूर्वकल्पोद्भवाः स्थानधिष्ण्याधिकारिणः सुराः ॥२॥अधिकारं समाप्यैव यत्र वसन्ति निर्भयाः ।ऋषयो मुनयश्चापि पितरः श्रावणाश्च ये ॥३॥याम्याः सम्वत्सराः कालाः कालाधिदेवताश्च याः ।ये नैष्ठिकास्तापसाश्च वृद्धाः पुण्याभियोगिनः ॥४॥वैराजाश्च तथा देवाः सर्वथा दाहवर्जिताः ।प्राजापत्या देवताश्च सौम्या बर्हिषदस्तथा ॥५॥अग्निष्वात्ताश्च काव्याश्च ऋतवः सोमपास्तथा ।अष्टकापतयश्चापि लेखास्तथोष्मपा अपि ॥६॥दिवाकीर्त्याश्च पितरश्छन्दजाः पितरस्तथा ।श्राद्धदेवाश्च पितरो यज्वानोऽयोनिजास्तथा ॥७॥ब्रह्मचर्येण तपसा यज्ञेन प्रजया तथा ।श्रद्धया विद्यया दानैः श्रद्धायुक्तेन कर्मणा ॥८॥परलोकगता ये ते यत्र वसन्ति तापसे ।वारुणा भृगवश्चापि आग्नेयाऽऽङ्गिरसास्तथा ॥९॥मारीचाश्चाऽऽत्रेयकाश्च पौलस्त्याः पौलहास्तथा ।वाशिष्ठा वसवश्चापि ब्रह्माणः पितरश्च ते ॥१०॥प्रजापतय एवैते यमो राजा प्रजापतिः ।कार्दमाः काश्यपाः शैषा विक्रान्ताः सुश्रवादयः ॥११॥बहुपुत्राः कुमाराश्च विवस्वन्तः शुचिश्रवाः ।प्राचेतसोऽरिष्टनेमिर्बहुलाः पितरश्च ते ॥४२॥कुशोच्चयाश्च पितरः प्राजापतय एव ते ।बालखिल्यास्तथा वैखानसा अश्विसुतावुभौ ॥१३॥एते सर्वे तपोलोके वसन्ति पुण्यभोगिनः ।अनादिश्रीकृष्णनारायणं तत्र समागतम् ॥१४॥विदित्वा चाऽर्यमा राजा कोटिसैन्यैश्च तापसैः ।देवीभिर्मातृभिर्युक्तः कृष्णसन्निधिमाययौ ॥१५॥आर्यम्णीं निजनगरीं शृंगारैः सर्वतोमुखीम् ।प्रावेशयद्धरिं सर्वस्त्रीविमानसमन्वितम् ॥१६॥महासौधे निजे सिंहासनेऽर्यमा न्यषादयत् ।अपूजयद्धरिं रत्नैः पुष्पैः सुवर्णभूषणैः ॥१७॥चन्दनाद्यैश्च पीयूषैरमृतैरक्षतादिभिः ।अभोजयद्दिव्यभोगैर्भोज्यान्नैर्विविधैस्तथा ॥१८॥आरार्त्रिकं चकारापि पापौ पादजलामृतम् ।आर्यादेवी च तत्पत्नी राज्ञी पितृशरीरिणाम् ॥१९॥पुपूज परमात्मानं तथा ब्रह्मप्रियादिकाः ।भोजयामास सर्वास्ता आर्यादेवी हि मातृका ॥२०॥अथ सौधे पौषमासे कृष्णोऽर्यम्णो वसँस्ततः ।तपोलोकनिवासानानामालयेषु ययौ मुहुः ॥२१॥महाश्वेतो वामदेवादयो ये तु महर्षयः ।स्वस्वमन्दिरवर्येषु श्रीकृष्णमनयन्मुदा ॥२२॥सर्वसार्थसहितं तं ह्यपूजयन् यथाधनम् ।ब्रह्मसत्त्वायनाद्याश्च मुनयोऽप्यनयद्धरिम् ॥२३॥यथाधनं च सत्कारं ह्यकुर्वन् भावसंभृताः ।श्रवणाद्याः पितरश्च पितृराज्यकरा अपि ॥२४॥सपत्नीकाः सपत्नीकं श्रीकृष्णं स्वगृहेऽनयन् ।अपूजयन्नभोजयन् तथाऽशृंगारयन् प्रभुम् ॥२५॥तथा याम्याः पितरश्च धर्मधनाख्यमुख्यकाः ।सहस्रशो हरिं नीत्वा स्वालयेष्वभ्यपूजयन् ॥२६॥तथा सम्वत्सरपरिवत्सराद्याश्च पितृकाः ।स्वस्वकुटुम्बसहिताः स्वालयेष्वनयन् प्रभुम् ॥२७॥अपूजयन् यथाद्रव्यं ह्यभोजयन् सुधान्नकम् ।आरार्त्रिकं प्रचक्रुश्च ददुः स्वर्णमणीन् बहून् ॥२८॥तथा कालाधिदेवाख्याः ऋतवो मासपक्षकाः ।पितरः श्रीहरिं निन्युर्निजालये समाऽऽर्चयन् ॥२९॥अथ ये नैष्ठिका वृद्धास्तापसाः पुण्यसञ्चयाः ।पितरः पुण्यजननाऽभिधास्तेऽप्यनयन् हरिम् ॥३०॥स्वस्वालयेषु विधिवत् पुपूजुः परमेश्वरम् ।अथ वैराजदेवाश्च तपोलोकनिवासिनः ॥३१॥स्वर्णदहनप्रमुखा निन्युर्नारायणं प्रभुम् ।स्वस्वालयेषु विधिवद् राजाधिराजवत् प्रभुम् ॥३२॥पूजयामासुरीशेशं मणिरत्नानि ते ददुः ।अथ प्राजापत्यदेवास्तपोलोकनिवासिनः ॥३३॥योगाहाराभिधाद्याश्च निन्युः पार्वीप्रभुम्पतिम् ।स्वस्वालयेषु देवेशं पुपूजुः परमादृताः ॥३४॥आरार्त्रिकादिकं चक्रुर्भोजयामासुरच्युतम् ।अथ सौम्याश्च पितरश्चान्द्रायणादिनामिनः ॥३५॥निन्युः श्रीपरमात्मानं निजालयेषु भावतः ।अमृताद्यैः समानर्चुर्भोजयामासुरमृतम् ॥३६॥चन्द्रकान्तादिरत्नानि ददुः पूजाक्षणे च ते ।अथ बर्हिषदाश्चापि पितरः कुशिकादयः ॥३७॥स्वस्वालयेषु नाथं तं निन्युरानर्चुरुत्सुकाः ।यथाधनं च सत्कारं प्रचक्रुर्भोजनादिभिः ॥३८॥अथ ये पितरश्चाग्निष्वात्ताद्या भासुरादयः ।निन्युर्नारायणं स्वस्वसौधेष्वानर्चुरच्युतम् ॥३९॥पायसादीनि भोज्यानि ददुस्ते पावनानि वै ।अथ ये काव्यपितरोऽपक्वभोजनरागिणः ॥४०॥निन्युस्ते परमात्मानं स्वस्वालयेष्वपूजयन् ।अथ सोमायनाद्याश्च सोमपाश्च सुधाशिनः ॥४१॥निन्युस्ते श्रीहरिं स्वस्वालयेष्वानर्चुरुत्सुकाः ।सुधाभोज्यानि रम्याणि कारयामासुरच्युतम् ॥८२॥अथाऽष्टकापतयोऽपि तापसाः पितरोऽपि च ।उत्तथ्यकायनाद्याश्च निन्युर्निजालये हरिम् ॥४२॥पुपूजुर्भोजयामासुरारार्त्रिकादिकं व्यधुः ।अथ लेखाश्च पितरो विप्रलीपादयो हरिम् ॥४४॥निन्युर्निजाश्रमं हर्षादानर्चुश्चोपदा ददुः ।भोजयामासुरत्यर्थं सेवयामासुरीश्वरम् ॥४५॥अथोष्मपाश्च पितरः फेनिलेहादयो हरिम् ।निन्युर्निजाश्रमेष्वेवाऽऽनर्चुः श्रीपुरुषोत्तमम् ॥४६॥नवनीतादिभोज्यानि ददुस्ते च यथाधनम् ।अथ ये तु दिवाकीर्त्याः पितरः ऋषिकादयः ॥४७॥तेऽपि निन्युर्हरिं नैजालयेष्वानर्चुरुत्सुकाः ।छन्दजाः पितरश्चापि निन्युरनुष्टुपादयः ॥४८॥हरिं निजालयेष्वानर्चुः प्रभुं परमेश्वरम् ।श्राद्धदेवाश्च पितरो निन्युः श्रीशं निजालयम् ॥४९॥पुपूजुर्भोजयामासुरारार्त्रिकादिकं व्यधुः ।यज्वानो भूभृतश्चापि चक्रवर्तिन एव ये ॥५०॥तपोलोके स्थितास्तेऽपि निन्युर्नारायणं गृहे ।पुपूजू राजयोग्यैश्च वस्तुभिर्बहुमानतः ॥५१॥उपदाश्च ददुः श्रेष्ठा भोजयामासुरच्युतम् ।वारुणा भार्गवाश्चापि आग्नेयाः पितरस्तथा ॥५२॥आङ्गीरसाश्च मारीचा आत्रेयकाश्च तापसाः ।पौलस्त्याः पौलहाश्चापि वाशिष्ठा वसवश्च ये ॥५३॥भिन्नभिन्नाश्रमास्तेऽपि प्रजानां पतयोऽमलाः ।निन्युः स्वस्वाश्रमेष्वेनं श्रीपतिं राधिकापतिम् ॥५४॥तपोलोके तमानर्चुर्भोजयामासुरुत्सुकाः ।यमः प्रजापतिश्चापि निनाय स्वालये प्रभुम् ॥५५॥कार्दमाः काश्यपाः शैषा विक्रान्ताः सुश्रवादयः ।बहुपुत्राश्च पितरः कुमाराः पितरोऽपि च ॥५६॥प्राचेतसो विवस्वन्तोऽरिष्टनेमय इत्यपि ।कुशोच्चयाश्च पितरो निन्युर्नारायणेश्वरम् ॥५७॥स्वस्वालयेषु चानर्चुरुपदाभिर्मुदान्विताः ।भोजयामासुरत्यर्थं सेवयामासुरुत्सुकाः ॥५८॥वाल्यखिल्याश्च ऋषयो वैखानसाश्च ये तथा ।देववैद्यौ भगवन्तौ तथाऽन्ये तपआश्रिताः ॥५९॥स्वस्वालयेषु देवीशं सपत्नीकं विमानकैः ।निन्युरानर्चुरारार्त्रिकं व्यधुश्चोपदा ददुः ॥६०॥भोजयामासुरुत्कृष्टाऽमृतान्नानि गृहे गृहे ।भ्रामयामासुरीशेशं ग्रामे ग्रामे गृहे गृहे ॥६१॥शयनासनभोगाँश्च ददुस्ते गन्धिमालिकाः ।भूषा वेषाँश्च प्रददुर्मणिरत्नस्रगादिकम् ॥६२॥पात्राऽऽसनाऽनर्घ्यशृङ्गारादि ददुर्यथायथम् ।नवीनोपकरणानि ददुस्ते कमलेशिने ॥६३॥आहाराँश्च विहाराँश्चार्पयामासुः परात्मने ।पुण्योद्यानेषु वाटीषु वनारण्याद्रिभूमिषु ॥६४॥निजराज्येषु सौधेषु प्रजासु वसतिष्वपि ।भ्रामयित्वा सर्वराजं पावयामासुरुत्सुकाः ॥६५॥पपुः पादामृतं ते ते तास्ताश्च योषितः शुभाः ।भोजयित्वा हरिं तस्य प्रसादं लेभिरे स्त्रियः ॥६६॥नैजं सौभाग्यमुत्कृष्टं धन्यं भाग्यं च मेनिरे ।नारायणप्रसंगेन कृतकृत्या बभूविरे ॥६७॥रामयामासुरीशेशं स्वस्वसम्पत्प्रदानकैः ।सेवयामासुरत्यर्थं यथेष्टं शयनेश्वरम् ॥६८॥प्राणेशं भोजयामासुरर्पयामासुरुत्तमम् ।द्रव्यं धनं सुगन्धं च दिव्यं वेषं च भूषणम् ॥६९॥कृष्णमान्दोलयामासुर्दोलासु बहुयोषितः ।पादसंवाहनं चक्रुरंगानां मर्दनं तथा ॥७०॥स्वस्वकलानां कौशल्यं दर्शयामासुरग्रतः ।'ओं नमः श्रीकृष्णनारायणायस्वामिने स्वाहा' ॥७१॥ 'बालकृष्णाय विद्महेऽनादिकृष्णाय धीमहि ।तन्नः श्रीशः प्रचोदयादि'तिमन्त्रौ च जगृहुः ॥७२॥ 'कृष्णनारायणकृष्णनारायण नरायण ।अनादिश्रीकृष्णनारायणकान्त रमायण' ॥७३॥एवं ते जगृहुर्नामधुन्यं श्रीमाधवीशितुः ।मातरं श्रीरमालक्ष्मीप्रज्ञाऽर्हणां प्रचक्रिरे ॥७४॥तथा देव्यो ब्रह्मनारीः पुपूजुश्चोपदान्विताः ।नृत्यगीतोत्सवाँश्चक्रुः स्वाऽऽवासे यज्जनार्दनः ॥७५॥सर्वार्पणं प्रचक्रुश्च ब्रह्मेशाय परात्मने ।तुष्टुवुः श्रीजयाकान्तं नरा नार्यश्च तापसाः ॥७६॥ 'नमः सर्वावताराणामवतारिपरात्मने ।मुक्तानां मण्डलाऽऽवासायाऽपि मानुषवासिने ॥७७॥कृपालवे सत्यलोकलाभदाय च ते नमः ।नमस्तापसदेवाय तपोलोकाऽऽगताय ते ॥७८॥नमो मोक्षप्रदात्रे ते नमः पितृप्रमोचिने ।नमोऽनन्तस्वरूपायाऽनन्तशक्त्यभिशालिने ॥७९॥नमो ब्रह्मप्रियाकान्तस्वरूपायान्तरात्मने ।हरिप्रियाभिसेव्याय बालकृष्णाय ते नमः ॥८०॥तपोलोकस्तपःप्राप्यस्तपःक्षये क्षयं व्रजेत् ।तापसाश्च गतैश्वर्या नश्यन्ति भवसागरे ॥८१॥हरिं विना न वै मुक्तिः सोऽयं भवानुपागतः ।उद्धारय तपोलोकात् संसारसागरादितः ॥८२॥पूर्वेषां कल्पकालानां पुण्यभाजो वयं त्विह ।कृपया निवसामो हि यद्यपि श्रीभुजः सदा ॥८३॥तथापि तव सान्निध्यं पादयोः पूजनं तु नः ।कदापि प्राप्यते नैव नाऽवाऽऽप्येत कृपां विना ॥८४॥स्वर्गसत्यान्तलोकानां निवासिनां तु सर्वथा ।महापुण्यानि सन्त्येव केवलबन्धनानि हि ॥८५॥नैव पुण्यफलं भोगमन्तराऽन्यत् प्रवर्तते ।इयं तु करुणा तेऽत्र हरे यद् दर्शनं तव ॥८६॥वरं तु भूतले जन्म यत्र कृष्णो ह्यवाप्यते ।न दिनं तु विना कृष्णं साक्षात् पृथ्वीगतं क्वचित् ॥८७॥अन्यलोकेष्वेकवारं समायास्यति गौरवात् ।महाकार्यनिवहार्थं सर्वथा दृश्यसे नहि ॥८८॥वरं भूतपिशाचादिजन्म देवर्षिपितृतः ।यत्र क्वापि मिलेन्मुक्तिर्योगतः श्रीहरेः सताम् ॥८९॥तदद्य भगवान् प्राप्तो दयाशेवधिरच्युतः ।कुरु नः सर्वथा मोक्षमर्थयामो वरं त्वियम् ॥९०॥शृणु बद्रीप्रिये देवि श्रुत्वा तेषां तदर्थनाम् ।पुराणपितृनिवहान् श्राद्धापेक्षकजीविनाम् ॥९१॥पुराणातिपुराणानां मोक्षमियेष सत्वरम् ।बद्रिके श्रीहरिस्ताँश्च पाययामास चाऽमृतम् ॥९२॥पादामृतं प्रसादादि भोजयामास सकृपः ।तेषां वक्षःसु चरणौ ददौ बन्धहरौ सुखी ॥९३॥दिव्यताधायकौ रम्यौ राधालक्ष्म्यादिसेवितौ ।ऊर्ध्वरेखान्वितौ रक्ततलौ च मृदुलावति ॥९४॥अष्टकोणस्वस्तिकाम्या वज्रजम्बूजवांकुशैः ।केतुपद्मसुचक्राद्यैर्युक्तं दक्षपदं शुभम् ॥९५॥त्रिकोणकलशाभ्यां च गोपादमकराम्बरैः ।धनुर्मीनाऽर्धचन्द्रैश्च मन्दिरचक्रकैर्युतम् ॥९६॥वामपादं प्रवीक्ष्यापि तुष्टिं ते परमां ययुः ।मस्तकेषु न्यधात् कृष्णनारायणः करद्वयम् ॥९७॥कोमलं रक्ततलकं चन्द्रांशनखराजितम् ।मीनध्वजधनुस्वस्तिशरशूलविराजितम् ॥९८॥चतुश्चक्रमहादण्डशंखलेखादिशोभितम् ।दक्षं करं हरेर्वीक्ष्याऽऽनन्दं परं हि लेभिरे ॥९९॥वामं सुशोभनं रम्यं छत्रधेनुलतान्वितम् ।निर्मीचक्रयुतं चक्रचतुष्टयाऽब्जराजितम् ॥१००॥शंखेन रेखितं मध्यांऽगुल्यग्रं वीक्ष्य ते तदा ।दिव्यदृष्टियुता जाताः सक्थ्न लक्ष्मीं तु वामके ॥१०१॥राधां तु जघने वीक्ष्य महानन्दं प्रपेदिरे ।कृष्णस्य कृपया तूर्णं विसृज्य पितृपुत्तलान् ॥१०२॥दिव्यदेहा अभवँश्च बहवः पितरस्तदा ।मुक्ता मुक्तानिका जाताः पितरो मातरो गणाः ॥१०३॥आययुश्च विमानानि मुक्तेरितानि धामतः ।स्थित्वा निषद्य ते तेषु ययुर्धामाऽक्षरं हरेः ॥१०४॥इत्येवं बद्रिके कृष्णनारायणो हि मोक्षणम् ।दत्वा प्रसाद्य तान् तत्र निवसितान् प्रभाष्य च ॥१०५॥अर्यमादिकृताऽर्चश्च विमानेन स्वयं प्रभुः ।सर्वसार्थयुतः प्रस्थापितो जनं समाययौ ॥१०६॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीहरिस्तपोलोकनिवासिनां पित्रादिदेवगणानां भवनेषु चार्यमादिकृतपूजां सम्प्राप्य पितॄणां मोक्षं कृत्वा जनलोकमाजगामेत्यादिनिरूपणनामा चतुर्नवतितमोऽध्यायः ॥९४॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP