संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४० Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि तथैव पावनीं कथाम् ।द्यूतकारस्त्रिया नाम्ना भाणवाणीतियोषितः ॥१॥सिन्धुनद्यास्तटे रम्ये शर्करापत्तने पुरा ।द्यूतज्ञवंशजा लोका न्यवसन् वै नराः स्त्रियः ॥२॥द्यूतं जानन्ति बहुधा शंकारनगरे तथा ।द्यूते प्रायो विजयं वै स्त्रियो यान्ति न संशय ॥३॥एवंविधाः प्रजाः सिन्धे देशे द्यूतपरायणाः ।राजाऽपि राजलोकाश्च राजभृत्यास्तथाविधाः ॥४॥आसन् द्यूतकलाविज्ञाः प्रजाश्च प्रायशस्तथा ।निर्धना धनवन्तश्च द्यूते सीदन्ति वै मुहुः ॥५॥राजा सिन्धुप्रदेशानां नाम्ना रायहरीति वै ।द्यूतोत्सवान् प्रतिवर्षं करोत्यामन्त्रितैर्नृपैः ॥६॥आयान्ति द्यूतविज्ञाश्च नृपा राष्ट्रान्तरोद्भवाः ।दीव्यन्ति बहुरत्नाद्यैर्हरन्ति हारयन्त्यपि ॥७॥जयन्ति प्रचुरं लाभं राज्यं तदाऽऽप्नुवन्ति च ।अराष्ट्राश्च प्रजायन्ते राष्ट्राधिपास्तदा नृपाः ॥८॥विपरीताश्च जायन्ते द्यूतकर्माभिभूतिनः ।द्यूतज्ञेषु तदा काले भाणवाणीतिभामिनी ॥९॥प्रसिद्धाऽभूज्जये ध्रौव्ये यत्रस्था तत्र वै जयः ।यस्यार्थे सा प्रतिनिधिर्भूत्वा द्यूते निषीदति ॥१०॥तस्य जयो भवत्येव पाशैः समनुकूलगैः ।बहूनां द्यूतसमये करोति धनहीनताम् ॥११॥शर्करानगरेशस्तां भाणवाणीं ररक्ष ह ।निजालये सदा द्यूतदेवनार्थं तु मानवः ॥१२॥सौधभोजनपानाद्यैर्वस्त्रालंकारभूषणैः ।उद्यानयानवाहाद्यैर्दासदासीभिरादृताम् ॥१३॥राज्ञीमिव नृपो नित्यं मन्यते तां कृतादराम् ।जात्या च क्षत्रियां निम्नक्षत्रगृहोद्भवामपि ॥१४॥साजात्येन च लाभेन राज्ञीमिव स मन्यते ।साऽपि मानं विहायैव दासीव नृपतिं प्रति ॥१५॥प्रति राज्ञीं किंकरीव वर्तते गुणशालिनी ।अतः प्रसादपात्रं सा राज्ञ्या राज्ञश्च भामिनी ॥१६॥राजशय्यां सेवतेऽपि पतिपुत्रादिमत्यपि ।रायहरिर्नृपस्तस्या गुणं लाभं विचार्य च ॥१७॥स्वीयां मत्वा सेवतेऽपि भुजिष्यामुत्तमामिव ।एवं राजाश्रयं प्राप्यैधिता कीर्त्या च सम्पदा ॥१८॥सकुटुम्बा नृपसौधे ततो वासं व्यधान्मुदा ।राज्यलाभं प्रगृह्णाति भुंक्ते सुखं नवं नवम् ॥१९॥अथैकदा रायहरिर्नृपः श्रीशर्कराधिपः ।आह्वयामास राजानं हयोदराधिपं शुभम् ॥२०॥कोटिरायाऽभिधं द्यूते देवनार्थं निजालये ।कोटिरायोऽपि सहसा श्रुत्वा द्यूताद्यमन्त्रणम् ॥२१॥सहर्षं त्वाजगामापि रायहरिप्रमन्दिरम् ।द्यूतदेवनमेवाऽपि समाजे सर्वशोभने ॥२२॥योजयामास नृपतिः रायहरिः समुत्सुकः ।रायहरेः प्रतिनिधिर्भाणवाणी तदाऽभवत् ॥२३॥देवने सा स्थिता पूर्वं पाशान् जग्राह भामिनी ।तदाऽन्येऽपि च राजन्या अमात्याः श्रेष्ठिनोऽपि च ॥२४॥महासनानि सदसि भेजिरे द्यूतवीक्षकाः ।प्रावर्तत ततो द्यूतं परस्परापहारकम् ॥२५॥कोटिरायस्ततः प्राह हारोऽयं मणिशोभितः ।कानकः कण्ठभूषा मे धनं पणेऽत्र योजितम् ॥२६॥कस्तेऽत्र सदृशः प्रतिपणोऽस्ति पट्टके कुरु ।रायहरिस्तदोवाच मण्यो मेऽत्र सन्ति ये ॥२७॥हाराश्चापि धनं चापि योजितं विजयस्व तत् ।ततः साऽक्षान् प्रचिक्षेप भाणवाणी दुरोदरे ॥२८॥कोटिराय! जितं त्वेतत् प्रसन्ना सत्यभाषत ।कोटिरायस्तदा तत्र निष्कसहस्रशोभनाम् ॥२९॥मञ्जूषां स्थापयामास प्राह जयस्व मे धनम् ।कोटिराय! जितं त्वेतद् भाणवाणी ह्यभाषत ॥३०॥अथ लक्षं सुवर्णानां रौप्याणां दशलक्षकम् ।स्थापयामास च कोटिरायः प्रसन्नमानसः ॥३१॥भाणवाणी प्रचिक्षेप पाशान् जितमभाषत ।अथ रत्नान्युत्तमानि मौक्तिकान्युत्तमान्यपि ॥३२॥पणे मुमोच च कोटिरायः कोटिसमानि वै ।कोटिमूल्यान् हीरकाँश्च पणे मुमोच स नृपः ॥३३॥भाणवाणी न्यस्य पाशान् जितमित्यभ्यभाषत ।अथ राजा कोटिरायः स्वभूषाः स्वर्णनिर्मिताः ॥३४॥रत्नहीरकनद्धाश्च कोट्यर्बुदादिमूल्यकाः ।अस्थापयत् पणे तत्र मणीनसंख्यमूल्यकान् ॥३५॥भाणवाण्याः प्रसंक्षिप्ताः पाशा देवात् पराङ्मुखाः ।कोटिरायजयार्थं वै पतिता हर्षमुत्तमम् ॥३६॥सभाया जनयामासुर्महाश्चर्यमतर्कितम् ।भाणवाणी गता पराजयं कलावती ह्यपि ॥३७॥राजा रायहरिर्यावज्जितवान् धनमुत्तमम् ।तत् सर्वं च स्वीयमन्यत् सर्वं पणे तु मण्डितम् ॥३८॥पराजितवान् संशोकं प्राप्तवान् क्षणमित्यपि ।ततः स निजरत्नानि मणींश्च मौक्तिकान्यपि ॥३९॥हीरकान् स्वर्णभूषाश्च मञ्जूषा रत्ननिर्मिताः ।रथं स्वर्णमयं दिव्यं चतुर्हस्तिसमन्वितम् ॥४०॥ग्लहे संस्थाप्य चोवाच दीव्यभ्यनेन वै त्वया ।श्रुत्वा कोटिरयश्चापि पणे साभ्यधनं दधौ ॥४१॥कोटिरायस्ततः पाशान् मुमोच विजयं गतः ।अथ रायहरिस्तत्र शतं दासी सुरूपिणीः ॥४२॥सर्वाभरणसंशोभाः पणोऽमण्डयदुत्सुकः ।कोटिरयो न्यस्य पाशान् जिता इत्यभ्यभाषत ॥४३॥अथ रायहरिस्तत्र सहस्रं दास्यकर्मिणः ।सर्वाभरणयुक्तांश्च ग्लहेऽमण्डयदुत्सुकः ॥४४॥कोटिरयो न्यस्य पाशान् जिता इत्यभ्यभाषत ।अथ रायहरिर्नागान् सहस्रसंख्यकोत्तमान् ॥४५॥स्वर्णकूथाऽम्बालिकाढ्यान् हेममालान् सुदन्तिनः ।पणेऽन्यसत्तथा हस्तिनिकासहस्रमित्यपि ॥४६॥कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ।अथ रायहरिः स्वर्णरथान् सहस्रसंख्यकान् ॥४७॥स्वर्णदण्डान् स्वर्णरत्नमण्याढ्यान् दन्तियोजितान् ।ग्लहेऽमण्डपदेवापि सोत्साहः स्वर्णचक्रकान् ॥४८॥कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ।अथ रायहरिस्तत्र वाजिनश्चित्रचर्मिणः ॥४९॥लक्षं वै सैन्धवाँस्तत्र ग्लहेऽमण्डयदुत्सुकः ।कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ॥५०॥अथ रायहरिस्तत्र नरवाहनकान्यपि ।कानकानि शिबिकाश्च स्वर्णहीरकनिर्मिताः ॥५१॥लक्षं ग्लहेऽमण्डयद्वै छत्रचामरशोभिताः ।कोटिरायो न्यस्य पाशान् जितमित्यभ्यभाषत ॥५२॥अथ रायहरिस्तत्र दशसाहस्रसंख्यकान् ।योद्धॄन् शस्त्रान्वितान् स्वर्णवर्मवेषसमन्वितान् ॥५३॥ग्लहेऽमण्डयदेवापि सर्वाभरणभूषितान् ।कोटिरायो न्यस्य पाशान् जिता इत्यभ्यभाषत ॥५४॥अथ रायहरिस्तत्र कोशान् दश सुवर्णकैः ।संभृतान् राज्यसर्वस्वानमण्डयद्रूपव्यर्थै ॥५५॥कोटिरायो न्यस्य पाशान् जिता इत्यभ्य।अथ रायहरिः राज्यमन्दिराणि महान्ति च ॥५६॥सौधान् शशांकधवलान् ग्लहेऽभ्यमण्डयत्तदा ।कोटिरायो न्यस्य पाशान् जितानीत्यभ्यभाषत ॥५७॥अथ रायहरिः राज्यं समस्तं चाप्यमण्डयत् ।अनेन मम राज्येन दीव्याम्यद्य त्वया सह ॥५८॥त्वया प्रतिग्लहे किं वा न्यस्यते वद मे द्रुतम् ।इत्युक्तः सहसा कोटिरायो राज्यममण्डयत् ॥५९॥अथ पाशान् मुमोचापि परावृत्तिं तदा ह्यगुः ।पराजयं दत्तवन्तः पाशा कोटिरयाय वै ॥६०॥रायहरिर्जयं लब्ध्वा सभावन्द्यो बभूव ह ।अस्थापयद् ग्लहे तत्र भार्यां निजां दिनेश्वरीम् ॥६१॥कोटिरायं तथा प्राह ग्लहे किं स्थाप्यते त्वया ।कोटिरायो निजां पत्नीं चन्द्रेश्वरीममण्डयत् ॥६२॥भाणवाणी ततः पाशान् प्रचिक्षेप कलान्विता ।निकृत्याऽऽह जिता राज्ञी श्रीरायहरिणा त्विह ॥६३॥सभायां प्रासरत् शोकः कोटिरायो विभार्यकः ।राज्यहीनः कृतश्चात्र भाणवाण्या ग्लहेऽन्तिमे ॥६४॥चन्द्रेश्वरी तदा पातिव्रत्यधर्मपरायणा ।भाणवाणीं शशापैव परहस्ताऽघदुःखिता ॥६५॥गलत्कुष्ठा भवशीघ्रं विचित्ता दुर्भगा तथा ।क्षयरोगवती चापि योनिरुग्णा सदा भव ॥६६॥उन्मत्ता शूकरीतुल्या भव विष्ठादनी सदा ।अनेन वर्ष्मणा दुष्टे राज्ञा समं तु राक्षसी ॥६७॥भव रायहरिणैव साकं दुष्टवनेऽनिशम् ।एवं शप्ता द्रुतं तत्र सभायां भाणवाणिका ॥६८॥राजा रायहरिश्चापि तथाभावमवापतुः ।उत्थायोत्थाय सहसाऽकूर्दयतामुभौ तदा ॥६९॥नग्नौ भूत्वा निजदन्तानदर्शयतामुद्व्रतौ ।एवं दृष्ट्वा समाजस्तौ शोकपरोऽभवत् तदा ॥७०॥राज्यजयेऽपि तु बुद्धेः पराजये नु किं कृतम् ।द्रव्यजयेऽपि लज्जाया विगमेऽपि नु किं कृतम् ॥७१॥सर्वजयेऽपि तु दुःखाऽजये तत्र नु किं कृतम् ।नारीजयेऽपि तद्वाक्याऽजये तत्र नु किं कृतम् ॥७२॥अर्थजयेऽपि धर्मस्याऽजये तत्र नु किं कृतम् ।एवं तत्र समाजो वै तयोः कृते त्वभाषत ॥७३॥पतिव्रतायाः शापोऽत्र भाणवाण्या जितो नहि ।जितो राजा जिता राज्ञी जितं राज्यं धनं गृहम् ॥७४॥राज्ञ्यात्मा न जितस्तत्र सर्वं जितं तु निष्फलम् ।दिनेश्वरी तदा राज्ञी प्रार्थयच्चन्द्रिकेश्वरीम् ॥७५॥मातः! राज्यं धनं सर्वं यद् ग्लहेऽत्र प्रमण्डितम् ।स्वामिना ते तवैवाऽस्तु पतिर्मे स्वस्थतामियात् ॥७६॥भाणवाणी स्वस्थचित्ता भवत्वत्र सुखान्विता ।कृपां कुरु महाराज्ञि दास्यहं ते वदामि वै ॥७७॥इत्युक्त्वा चरणौ धृत्वा सा रुरोद क्षणं तदा ।सती चन्द्रेश्वरीं प्राह शृणु त्वं हितमुत्तमम् ॥७८॥दुरोदरं त्वस्य नाम दुष्टं फलं तदात्मनाम् ।अन्यतरस्य वा त्वन्यतमस्य सर्वनाशकम् ॥७९॥आयतिं साम्प्रतभावं विनाशयति चोभयम् ।अक्षाः क्षयकरा लोके मुमूर्षूणां निपातिनः ॥८०॥सतृष्णाश्च मदान्धाश्च ह्यपरिश्रमसम्पदः ।राजानो नैव जानन्ति कां दशां प्राप्नुमो ग्लहे ॥८१॥आत्मलाभः परो लाभो लाभश्च परमात्मनः ।अलाभो राज्यलाभादिश्चाऽस्थिरः सर्वदुःखकृत् ॥८२॥भाणवाणी द्यूतपाणिः परनाशविनाशिनी ।स्वस्या नाशकरी चापि राज्ञो नाशविधायिनी ॥८३॥अक्षैरनक्षितुल्यैः सा सर्वस्वं हरते सदा ।सर्वस्वजीविकाहन्त्री महापापप्रयोगिणी ॥८४॥भुंक्ते पापफलं त्वद्य शापो निमित्तमात्रकम् ।राजाऽपि द्यूतिनीसङ्गी फलं भुंक्ते स्वकर्मजम् ॥८८॥शापो मे न निवृत्तः स्यात् किन्तु राज्यं पतिर्मम ।सर्वं कुर्याच्छनैः स्वास्थ्यं पत्युस्ते संभविष्यति ॥८६॥राज्यं ततोऽर्धभागेन स्वामिनस्ते भविष्यति ।त्वं स्वसा मे न वै दासी प्रसन्नाऽस्मि सुखं भवेत् ॥८७॥इत्युक्ता सा तथा मेने सर्वं राज्यं सतीकरे ।ददौ दीनेश्वरी देवी पत्युर्हिताय सर्वथा ॥८८॥चन्द्रेश्वरी सती दिनेश्वरीं मेनेऽतिभावतः ।चन्द्रेश्वर्याः पतिः कोटिरायो मेने नृपं बहु ॥८९॥बहुभावेन सततं कुर्वन् राज्यं समस्तकम् ।रायहरिं समैच्छत् स शीघ्रं तु सुखिनं सदा ॥९०॥शापनिवारणं स्वास्थ्यं त्वरितं तु यथा भवेत् ।तथोपायान् समपृच्छद् दैविभ्यस्तेऽवदँस्ततः ॥९१॥सतां सेवासमं नास्ति साधनं दुःखवारकम् ।साधवः खलु संपूज्याः स्मर्तव्या विपदां हराः ॥९२॥तोषणीयाः सर्वदानैर्विघ्नानां नाशकारिणः ।सर्वसौभाग्यदाश्चापि भाग्योत्तमत्वकारिणः ॥९३॥सत्संगः सर्वदा कार्यः साधुसंगप्रदः शुभः ।लक्ष्मीनारायणसंहिता या दिव्याऽस्ति भूतले ॥९४॥तत्कथावाचनं वर्षपर्यन्तं योजयत्विह ।तत्राऽऽमन्त्रणमासाद्य त्वायास्यन्ति हि साधवः ॥९५॥साध्व्योऽपि योगिनश्चापि महाशीर्वादयोजिनः ।तेषां कृपांऽशतः सर्वं स्वास्थ्यं सुष्ठु भविष्यति ॥९६॥इति दैविजनैरुक्ते कोटिरायो नृपस्ततः ।कारयामास वै श्रेष्ठं सभामण्डपमुत्तमम् ॥९७॥विष्णुमूर्तिं श्रिया युक्तां स्वर्णमयीं सुशोभनाम् ।वेदिकां होमलाभार्थं कारयामास चोत्तमाम् ॥९८॥रसशाला वासशालाः कथाशालां व्यधात्तदा ।समाह्वयत् संहिताज्ञान् त्वश्वपट्टसरोवरात् ॥९९॥विमानेनाऽऽययुः सन्तः संहिताज्ञास्तु वैष्णवाः ।सौराष्ट्रतीर्थरूपास्ते पावनाः पावका इव ॥१००॥अवतेरुर्मण्डपाग्रे दिव्यदृष्ट्या विमानिनः ।जयकारं प्रकुर्वन्तः श्रीपतेः परमात्मनः ॥१०१॥सिन्धुतुल्या संहिताऽपि लक्ष्मीनारायणाऽभिधा ।पञ्चविंशतिसाहस्राऽधिकलक्षाभिसंख्यया ॥१०२॥श्लोकानां राजमाना सा साधुभिः सह चाययौ ।लक्ष्मीतुल्या स्वरूपेणात्मना सरस्वतीसमा ॥१०३॥विज्ञानेन समा वैदैश्चमत्कारे रमासमा ।मोक्षणे श्रीकृष्णनारायणतुल्या सुशोभना ॥१०४॥शैत्ये प्रभान्विता त्यागे पार्वतीशासमा शुभा ।सर्वाभरणशोभाढ्या पुरुषार्थसमन्विता ॥१०५॥आययौ सा विमानेन श्रेयसे सर्वदेहिनाम् ।बद्रिके यत्र सन्तो मे तत्राऽहं साधुवल्लभः ॥१०६॥तत्र लक्ष्मीः संहिता च ललिता मंजुला जया ।सुगुणा हंसिका राधा विराजन्ते न संशयः ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने सिन्धुनदीप्रदेशानां नृपयोर्द्यूतखेलने सर्वस्वापहरणे पतिव्रतायाः शापेन उन्मत्ततां गतयोर्भाणवाणीरायहरिनृपयोः श्रेयसे श्रीलक्ष्मीनारायणसंहितायाः कथाप्रस्तावेऽश्वपट्टसरोवरात् साधूनामागमनमित्यादिनिरूपणनामा चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP