संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ४२ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ४२ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ४२ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि ततस्तत्र महोत्सवे ।सप्तम्यां श्रीहरेर्दर्शनार्थं संसन्महत्यभूत् ॥१॥दिव्ये गजासने रम्ये स्वर्णरत्नादिभास्वति ।उच्चैरुच्चतमे कृष्णो न्यषीदद् दिव्यविग्रहः ॥२॥लक्षलक्षातिलक्षाणां मानवानां हि गोचरः ।महासनेऽभवत् कृष्णनारायणोऽर्कवत्तदा ॥३॥दिव्यतेजोऽम्बारयुक्तो दिव्यैश्वर्यप्रतापवान् ।असीमाऽनवधिप्रागल्भ्यौदार्यौज्ज्वल्यमण्डितः ॥४॥तादृक्सौष्ठवमाधुर्यलावण्यहास्यशोभितः ।तादृक्सौन्दर्यसाद्रूप्याऽऽकर्षणाऽऽनन्दपूरितः ॥५॥तादृग्यौवनगाम्भीर्यवीर्यबलविराजितः ।तादृक्कृपादयास्नेहप्रेमाऽनुग्रहवर्षकः ॥६॥कोटिकामप्रमोहाढ्यसौष्ठवघट्टनात्मकः ।व्यद्योतताऽक्षरधाम्ना तेजसा मूर्छनाकरः ॥७॥नरनारीहृदयस्थोऽन्तरात्मा नेत्रगोचरः ।सर्वावतारभगवान् तदानीं कृपयाऽभवत् ॥८॥पूजितो वन्दितः सर्वैः स्वागतं तु नवं नवम् ।कृतं लोकैर्भक्तवर्गैरासायं परमात्मनः ॥९॥हरिश्चोपादिदेशापि कृपात्मकं तु संसदि ।निजार्थकृतसर्वस्वभक्तेभ्योऽनुग्रहेण वै ॥१०॥सर्वे भवन्तु सुखिनो दर्शनान्मम देहिनः ।भवतां सुखलाभार्थं समागतोऽस्म्यनुग्रहात् ॥११॥परे धाम्न्यक्षरे लोके दिव्योऽहं प्रभवामि यः ।सर्वावतारधर्ता श्रीपतिः श्रीपुरुषोत्तमः ॥१२॥सर्वेश्वरनियन्ता च सर्वशक्तिपतिः प्रभुः ।सर्वसिद्धर्षिपित्रॄणां सुराणां दैवतं परम् ॥१३॥अन्तरात्मा कालमायामहापुरुषशासकः ।सोहमेव भवाम्यत्र बालकृष्णो भवादृशः ॥१४॥मम योगं गता ये ये ते धामाऽक्षरं ययुः ।वासुदेवा असंख्याता नारायणा ह्यसीमकाः ॥१५॥श्रीकृष्णाश्चाप्यसंख्याता विष्णवोऽसंख्यमूर्तयः ।रामा नरेश्वराः सिद्धेश्वराश्चाप्यतिसंख्यकाः ॥१६॥मम योगेन जायन्ते क्लृप्ता वांऽशोद्भवा मम ।मत्स्वरूपा मत्तादात्म्या मदभिन्ना भवन्ति ते ॥१७॥मामाश्रित्य समस्तासु सृष्टिषु पारमेश्वराः ।निष्पद्यन्तेऽनन्तशक्तिधरा मत्कृपया हि ते ॥१८॥सोऽहं समस्तसृष्टीनां कृपाकटाक्षपावनः ।गोचरोऽस्मि भवतां चाऽवतारी पुरुषोत्तमः ॥१९॥संहितायाः कथां येऽत्र शृण्वन्ति संस्मरन्त्यपि ।तेषामहं समुद्धर्ता मायासंसारवारिधेः ॥२०॥ये मां श्रीमत्कृष्णनारायणेति संभजन्ति वै ।तान् मत्वाऽहं निजान् भक्तान् तारयिष्यामि मोहतः ॥२१॥नरा नार्यश्च षण्ढाश्च ये भजिष्यन्ति मां त्विह ।सेविष्यन्ते च सर्वस्वार्पणैस्ते धामिनो मम ॥२२॥सर्वेषां देहिनां कर्मतुल्यं फलं ददाम्यहम् ।नीतिरेषा तु संसारे कृपा मे त्वतिरेकिणी ॥२३॥कृपायां नियमो नास्ति फलकर्माभिबन्धकः ।उद्धरामि जगत्सर्वं प्रसादेन न संशयः ॥२४॥वह्नेर्योगात् समस्तं वै पावनं जायते यथा ।मम योगेन सर्वं वै पावनं जायते तथा ॥२५॥यथाऽहं पावनश्चाऽस्मि तथैव मम मूर्तयः ।सन्तो मे पावनाः सर्वे वाणी मे पावनी सदा ॥२६॥संहितेयं मम वाणी पावनी सर्वदेहिनाम् ।लक्ष्मीश्चाऽहमहं लक्ष्मीश्चैकं तत्त्वं द्विधा कृतम् ॥२७॥लक्ष्मीनारायणश्चाहं संहिता मे सरस्वती ।तस्याः श्रवणमात्रेण मदक्षरमवाप्यते ॥२८॥शब्दमूर्तिः साधुमूर्तिर्धातुमूर्तिर्मदात्मिका ।अहं त्रिमूर्तिकश्चाऽस्मि साध्वीमूर्तिस्त्रिधा मम ॥२९॥भक्तिमूर्तिस्तथोपास्तिमूर्तिर्दीक्षात्ममूर्तिकः ।षण्मूर्तोऽहं सदा चास्मि मिलामि तत्र तत्र ह ॥३०॥साक्षादहं विराजेऽद्य सिन्धुतीरे भवन्मठे ।कल्याणार्थं भवतां वै कृपया मनुजाकृतिः ॥३१॥नार्यश्चोपासते मां तु पतिरूपेण नित्यदा ।उपासते पतयो मां धातुरूपेण नित्यदा ॥३२॥षण्ढाः संकल्परूपेणोपासते मां फलोज्झिताः ।वृक्षा रसप्रदं मां तूपासते पृथिवीभुजः ॥३३॥पक्षिणश्चाम्बरात्मानं पशवश्चौषधिव्रजम् ।देवाः सुधां दैत्यवर्या बलं क्लेदं तु जन्तवः ॥३४॥उपासते यथायोग्यस्वभावानुगुणं तु माम् ।चक्षुष्मन्तः सुरूपं मां विनेत्रा सूपवर्जितम् ॥३५॥सेन्द्रियाः सेन्द्रियं निरिन्द्रिया मां तु निरिन्द्रियम् ।सतत्त्वा मां तत्त्वयुक्तं निस्तत्त्वा तत्त्ववर्जितम् ॥३६॥सगुणा गुणवन्तं मां निर्गुणा गुणवर्जितम् ।सस्नेहा मां स्निग्धमूर्तिं निस्स्नेहा रूक्षमव्ययम् ॥३७॥सत्यश्चानन्ददातारं सन्तः शान्तिखनीश्वरम् ।उपासते यथायोग्यं फलं तथा ददाम्यहम् ॥३८॥देहिनो देहवन्तं मां विदेहा देहवर्जितम् ।स्वार्थाः परार्थघातारं निस्स्वार्थाश्चाऽपरिग्रहम् ॥३९॥ज्ञानिनः स्वप्रकाशं मां जडा भूतात्मवर्तिनम् ।विपन्नास्त्राणकर्तारं सम्पन्नाः सम्पदात्मकम् ॥४०॥श्रान्ता उद्यमरूपं मां व्यापृता यत्नरूपिणम् ।उपासतेऽलसाः फलोज्झितं मां रागिणः सुखम् ॥४१॥तेषामुपास्तिमालम्ब्य ददामीष्टफलं सदा ।अहं वै कृपया लभ्यो मन्त्रलभ्यो भवामि च ॥०५॥भक्तिलभ्यः स्नेहलभ्यः समाधिलभ्य इत्यपि ।अलभ्यः सुलभश्चास्मि संहितापाठिनां त्विह ॥४३॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।इतिमन्त्रप्रजप्तुस्तु सुलभोऽहं निरन्तरम् ॥४४॥गुरोः सेवाफलं कृष्णनारायणाप्तिरुत्तमा ।साक्षादत्र भवेच्चेति तथा प्राप्तोऽस्मि वस्त्विह ॥४५॥यो मां स्मरति नमति चष्टे ध्यायति सेवते ।तस्याऽहं हृदये नित्यं विशेषेण पुरोऽपि च ॥४६॥यः पत्न्यां श्रियमीक्षेत पत्यौ नारायणं तु या ।अपत्ये पार्षदान्मे च तद्गृहं मेऽक्षरं पदम् ॥४७॥यः प्रवृत्तौ ममाऽऽज्ञां वै निवृत्तौ च मयि स्थितिम् ।जीवने मम तादात्म्यं दधाति स प्रयाति माम् ॥४८॥यस्येन्द्रियाणि सर्वाणि कृष्णार्थानि मनोऽपि च ।आत्माऽपि श्रीकृष्णनारायणार्थः स पुमर्थवान् ॥४९॥अपि लोके दुराचारो योऽनन्याश्रयवान् मयि ।मद्भक्तिं कुरुते नित्यं स साधुर्मोक्षसाधनः ॥५०॥अपि धर्मविरागाढ्यो निष्परिग्रह आत्मवान् ।विहाय मां वर्तमानस्तस्य हानिर्महत्तमा ॥५१॥असाधुः स तु मन्तव्यो यो न भजते मां प्रभुम् ।न वा साधून् सेवतेऽपि नष्टार्थः स तु सर्वथा ॥५२॥अपीन्द्रधिष्ण्यमापन्नो धर्मराजप्रतापवान् ।सूर्यतेजोऽभिसम्पन्नो भक्तिहीनस्तु नारकी ॥५३॥अपि भौतिकतत्त्वेशः सिद्ध्यैश्वर्यैकशेवधिः ।बह्वण्डानां नियन्ता चेद् भक्तिहीनः स नारकी ॥५४॥बुद्धेः पारं गतश्चापि मायापारं गतोऽपि च ।ब्रह्मभावं गतश्चापि भक्तिहीनस्तु नोत्तमः ॥५५॥प्रजापालनशक्तोऽपि सर्वाचारपरायणः ।सतां सेवाविहीनो यः स फल्गुजन्मवानिह ॥५६॥सर्वविद्याधरश्चापि सर्वशासनवीर्यवान् ।सतां सेवाविहीनश्चेत् फल्गुजीवनवानिह ॥५७॥देवकोटिं गतश्चापि महर्षितां गतोऽपि चेत् ।मम सतां कृपाशून्यस्तस्य सर्वं निरर्थकम् ॥५८॥कामधेनुर्गृहे यस्य कल्पद्रुमश्च मन्दिरे ।यस्य गृहे न वै सन्तस्तद्गृहं फेरुराजवत् ॥५९॥दृष्टिर्यस्याऽतिदिव्याऽपि सत्त्वं चान्तःस्थितं तथा ।सतां दर्शनहीनश्चेत् सदाऽन्धः स तु नारकी ॥६०॥पूजाभिः पूजितश्चापि कीर्त्या प्रकाशमानपि ।सतां दर्शनहीनश्चेत् सदाऽन्धो दीनकिंकरः ॥६१॥चतुर्दशसु लोकेषु गतिमानपि सर्वथा ।साधून् प्रति गतिहीनो दुर्गतिः स तु नारकी ॥६२॥आरण्यको मुनिश्चापि त्यागवैराग्यशीलवान् ।साधुसत्संगहीनश्चेत् स स्यादारण्यकः पशुः ॥३३॥मायापाशात् पशुत्वं वै जीवानां विद्यते सदा ।माया तु वासना बोध्या भक्त्यन्तरायकारिणी ॥६४॥सा तु प्रक्षालनीया वै सतां हरेश्च सेवया ।आत्मार्पणं हरौ कार्यं सर्वार्पणं तु सत्स्वपि ॥६५॥मयि न्यस्य क्रियाः सर्वा भाव्यं ब्रह्मात्मना त्विह ।संहिताश्रवणं कृत्वा भाव्यं मदात्मना ततः ॥६६॥मम भावयुतो यः स्यात्तमुद्धरामि सर्वथा ।स्वस्त्यस्तु भवतां श्रेष्ठं साक्षान्मम प्रसादतः ॥६७॥इत्युक्त्वा श्रीकृष्णनारायणस्तत्र तु बद्रिके ।विरराम ततः श्रीमान् लोमशास्तान् मनुं परम् ॥६८॥श्रावयामास च सर्वान् वैष्णवान् परमान व्यधात् ।सभाविरामः सञ्जातो हरिः प्रपूजितो जनैः ॥६९॥विश्रामार्थं ययौ नैजं स्थानं तत्र नृपादिभिः ।आरार्त्रिकं च नैवेद्यं श्रीहरेर्विहितं शुभम् ॥७० ॥अन्येषां भोजनपानासनसत्कारपूजनम् ।यथायोग्यं नृपाद्यैश्च कृतं निशामुखे तदा ॥७१॥रात्रौ नार्यो नरा राज्ञ्यो राजानो लोमशं मुनिम् ।स्वप्रकाशायनकं ते वक्तारं समसेवयन् ॥७२॥साधून् सिषेविरे चापि पादसंवाहनादिभिः ।अतोषयन् श्रेयसे तान् दिव्यभावनया युताः ॥७३॥रात्रौ तत्र तु देवानां गन्धर्वाणां च गीतयः ।अप्सरसां नर्तनानि गायनानि च योषिताम् ॥७४॥कवीनां प्राचीनकथालहर्यश्चाभवँस्ततः ।नाटकानां दर्शनानि चरित्राणां हरेस्तथा ॥७५॥इन्द्रजालान्यनेकानि कलाविदां तदाऽभवन् ।भजनानि सतीनां च साधूनां कीर्तनानि च ॥७६॥समाधयो योगविदां तदाऽभवँस्तु बद्रिके ।सेवा श्रेष्ठा मुमुक्षूणां तादात्म्यं तु निजात्मनाम् ॥७७॥सर्वार्पणं प्रभक्तानां तदाऽभवँस्तु बद्रिके ।द्रवीभावश्चात्मविदां स्नेहिनां परमात्मनि ॥७८॥ज्ञानिनां त्वेकतानत्वं प्रत्ययानां तदाऽभवत् ।प्रमोदामोदपरमानन्दा अभवन् देहिनाम् ॥७९॥क्षेत्राणां पुलको जातः स्वेदस्तु सरितां तदा ।प्रवाहाणां पावनत्वं जातं श्रीकृष्णयोगतः ॥८०॥सतां प्रकाशनं तत्र महर्षीणां विनोदनम् ।प्रजानां धान्यसंस्कारास्तदाऽभवन् हि बद्रिके ॥८१॥पशूनां तु पवित्रत्वं पक्षिणां यादसामपि ।जम्बूनां जीवनोत्कर्षो भावी जातो हि बद्रिके ॥८२॥वल्लीनां पादपानां च वृक्षाणां तृणशाखिनाम् ।कन्दानां भूतले तत्र यज्ञाऽर्हत्वं तदाऽभवत् ॥८३॥सार्थक्यं तत्र वायूनां वह्नीनां खस्य चाऽभवन् ।वारीणां तद्विकाराणां सार्थक्यं कृष्णयोगतः ॥८४॥शय्यानां मन्दिराणां च वस्तूनां कृष्णसञ्जुषाम् ।पावनत्वं सदा जातं मोक्षदायित्वमुत्तमम् ॥८५॥बद्रिके का कथा तेषां येषां कर्णे तु संहिता ।येषां भूमौ बालकृष्णो येषां दृष्टौ तु साधवः ॥८६॥सुरेश्वराः समागत्य रात्रौ श्रीशं श्रीवल्लभम्प्रभुम् ।दिव्यद्रवैः पूजयित्वा प्रसादं प्राप्य संययुः ॥८७॥तीर्थानि भूव्योमगानि समागत्य रहस्ततः ।हरेः पादस्पृष्टजलं पीत्वा ययुर्निजस्थलीम् ॥८८॥सिद्धजना अद्रिवासा आगत्य योगवर्ष्मभिः ।सेवयित्वा बालकृष्णं ययुर्नैजं तु गह्वरम् ॥८९॥द्यौः स्वयं युवती भूत्वा सिषेवे द्युपतिं हरिम् ।कृतकृत्या ययौ नैजं निवासं त्वम्बरे ततः ॥९०॥श्वेतद्वीपादिवासाश्च मुक्ता मुक्तानिकास्तथा ।क्षीरवासा बद्रिकास्थाः सिषेविरे नरायणम् ॥९१॥राधारमाद्याः सकलाः शक्तयः प्राणरक्षकम् ।कान्तं सिषेविरे कान्ता दिव्यमूर्तय एव ताः ॥९२॥नैकरूपधरः कृष्णोवल्लभाऽऽर्यो निशान्तरे ।जगृहे त्वर्पितां सेवां नराणां योषितामपि ॥९३॥निशान्ते स क्षणं निद्रां योगनिद्रां निजप्रियाम् ।जग्राह घटिकामात्रं समुत्तस्थौ ततः प्रभुः ॥९४॥अनादि श्रीकृष्णनारायणात्मकं परात्परम् ।दध्यौ नैजं मूलरूपं समुत्थाय क्षणं प्रभुः ॥९५॥तदावताराः सर्वेऽपि सर्वावतारशक्तयः ।ईश्वरा ईश्वराण्यश्च दिव्याऽदृश्यस्वरूपकैः ॥९६॥जयन्तीपूजनलाभं रहस्तत्र प्रलेभिरे ।मुक्ताः समाधिनिष्ठाश्च धामधामनिवासिनः ॥९७॥पार्षदा अपि कृष्णस्य पूजालाभं प्रपेदिरे ।पार्षदान्यो गोपिकाश्च पूजासेवां प्रचक्रिरे ॥९८॥गजो गरुडः शेषश्च वाजी वाहोत्तमास्तदा ।आगत्याऽदृश्यरूपैस्ते रहःपूजां व्यधुर्हरेः ॥९९॥बद्रिके त्वं मया साकं नरेण तनुना सह ।महर्षिभिः रहःपूजालाभं प्राप्तवती तदा ॥१००॥एवं श्रीमत्कृष्णनारायणोर्जाष्टमिकाप्रगे ।जयन्तीमिषमालम्ब्य दिव्या देवमपूजयन् ॥१०१॥लेभिरे प्रथमं लाभं चाऽप्रकाशं परात्मनः ।ततो ब्राह्ममुहूर्ताऽर्धविगमोऽभवदेव ह ॥१०२॥जजागार हरिर्लोकव्यवहारेण वै ततः ।जजागरुर्देहिनश्च मिष्टवाद्यस्वरश्रवैः ॥१०३॥ऊर्जकृष्णाष्टमीप्रातर्जयन्तीदेवता मुधा ।भूत्वा कुमारिका दिव्या सर्वभूषाविभूषिता ॥१०४॥आययौ दिव्यदेहेनाऽपूजयच्छ्रीपतिं पतिम् ।अदृश्या न्यवसत् कृष्णे ततोऽखिलदिनं सती ॥१०५॥एवं बद्रीप्रिये जातो महोत्सवस्तु देहिनाम् ।पूजनार्थं जनाः सज्जा भवन्ति सर्वतस्तदा ॥१०६॥दिव्यचिन्तामणिकल्प्याः सामग्रीः सर्वजातिकाः ।सह नित्वाऽऽययुः पूजाकरणार्थं तदन्तिकम् ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापत्तनमण्डपे सायं सभायां श्रीहरिकृतोपदेशो हरेः पूजनं निश्युत्सवाः प्रातर्देवादिकृतरहःपूजनं चेत्यादिनिरूपणनामा द्वाचत्वारिंशोऽध्यायः ॥४२॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP