संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ११६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ११६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ११६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि हृदयं द्रवते मम ।वर्णयतो हरेर्धाम प्रत्यक्षं पश्यतो यथा ॥१॥अवर्ण्यानन्दसन्दोहान् प्रभुञ्जामि प्रवर्णनात् ।अनन्यमानसी भूत्वा हृद्यं गद्यं निबोध मे ॥२॥सहस्रशो गम्यमाना विमानगाश्चिदम्बरे ।दिव्यदृष्ट्या महातेजःपुञ्जाद्रिं पद्मयोजनम् ॥३॥ब्रह्मतेजोऽधिकखर्वगुणितेजोभिवर्धितम् ।व्यलोकयन् दूरतस्ते शताऽब्जयोजनोच्छ्रयम् ॥४॥अक्षरब्रह्मणस्तेजोराशिर्यस्याऽणुमात्रके ।प्रदेशे लीनतां याति तादृक् तेजो व्यलोकयन् ॥५॥अक्षरब्रह्मधाम्नस्तद्धाम श्रेष्ठं परं पदम् ।अक्षरात् खर्णगुणितप्रभावदैकरोमकम् ॥६॥परब्रह्माऽनादिकृष्णनारायणस्य धाम तत् ।श्रीकृष्णनारायणस्वाम्यक्षरेशस्य परात्मनः ॥७॥मूर्तिजन्यं हि तत्तेजः शाश्वतं चैकतानकम् ।समैकरसघनकं सच्चिदानन्दनामकम् ॥८॥परब्रह्मलोकरूपं सर्वतोऽनन्तभाप्रदम् ।यत्प्रकाशैककिरणेनाऽक्षरं पूर्णतेजसा ॥९॥पूर्यते शिष्यते नैव रिक्तं तत् तादृशं धनम् ।यत्तेजोदर्शनं दूराच्छीतमिष्ट सुधाऽदनम् ॥१०॥समर्पयति द्रष्टॄणां सर्वाकर्षणतर्पणम् ।सर्वानन्दप्रदं सर्वामृतवर्षि प्रमोददम् ॥११॥अनन्ततृप्तिदं तेजो दूराद् व्यलोकयन् प्रियाः ।यथा यथा विमानानि चाभियान्ति तथा तथा ॥१२॥मुग्धास्तेजोऽभिभूतान्तर्नेत्राऽनुद्धाटनक्रियाः ।विमानगा अभवँश्च तदा पिहितपक्ष्मकाः ॥१३॥अथ श्रीभगवान् यावत् प्रियास्वाविश्य नेत्रदः ।नेत्रतेजोमहाशक्तिप्रदोऽभवद् विमानिषु ॥१४॥दासा दास्यः प्रिया मुक्तानिका मुक्ताश्च ते ततः ।कृष्णनेत्रैः कृष्णतेजोऽभवन् शक्ता विलोकितुम् ॥१५॥एवं रूपं रसं स्पर्शं शब्दं तद्धामगं परम् ।आदत्तुं त्वसमर्थानां कृष्णः शक्तीर्निजां ददौ ॥१६॥कम्पितानां महाधैर्यं ददावाविश्य वर्ष्मसु ।विशीर्णानां बलं वीर्यं ददौ नैजं प्रविश्य च ॥१७॥चिदम्बरमहावेषान् ददौ दार्ढ्यबलान्वितान् ।तदा विमानिनः स्वास्थ्यमापन्ना वीक्षितुं प्रभाम् ॥१८॥अथ श्रीभगवान् तेभ्यः परब्रह्ममहानदे ।स्नापयामास सहसा चिदाकाशगते परे ॥१९॥तेनाऽऽप्तसर्वसामर्थ्याः परब्रह्मस्वरूपिणः ।परब्रह्मसमदेहाः परब्रह्मात्मशक्तिकाः ॥२०॥विमानगाः समस्तास्तद्धाम्नो योग्यास्तदाऽभवन् ।विवृद्धशक्तिका दिव्याक्षरोर्ध्वदिव्यविग्रहाः ॥२१॥अथ स्वामिप्रतापेन विमानानि तदन्तिके ।नदे सम्लावितान्येव बलवन्ति ततोऽभवन् ॥२२॥आययुर्दिव्यतत्त्वानि परधामगमानि वै ।परब्रह्ममहाधामाऽन्तिकं निरतिशायिनि ॥२३॥महाचिद्घनतेजोभासीमान्तस्तटकाम्बरे ।यावत्तावत्परधामानन्दं प्राप्य विमानिनः ॥२४॥विसस्मरुः सुखं सर्वमक्षरस्य यदर्जितम् ।परधाम्नोऽण्डभागे तत्सुखं सर्वं व्यलीयत ॥२५॥बद्रिके श्रीहरेर्धाम्नः सुखाग्रे गणना तु का ।असंख्याक्षरधाम्नः वै मुक्तानां गणना कुतः ॥२६॥चिद्घने परमे धाम्नि लीना इवाऽभवन् हि ते ।बहिष्टो नहि दृश्यन्ते मेघछन्ना यथा ग्रहाः ॥२७॥महातेजोऽन्तःप्रविष्टा मिथो पश्यन्ति गर्भगाः ।अन्तःस्थाश्च बहिर्नैव पश्यन्ति तेजसाऽधिकाः ॥२८॥परधामगतानामक्षरं तम इवाऽभवत् ।शून्यमिवाऽभवत् सर्वं शून्यं स्याद् गोचरं कथम् ॥२९॥छायेव चाऽभवत् सर्वमक्षरं परमात्मनः ।एतादृशं परं तेजः परं धाम व्यलोकयन् ॥३०॥तेजोमयं महादुर्गं सौवर्णं चाप्यलोकयन् ।उच्छ्रितं च विशालं चोभयथा लक्षयोजनम् ॥३१॥दैर्घ्येऽस्य गणना नास्ति सा संख्या विद्यते नहि ।अनन्ताऽपारदैर्घ्यं वै तस्य दुर्गस्य विद्यते ॥३२॥गोपुरा लक्षशस्तत्र कोटिशश्च प्रकोष्ठिकाः ।प्रस्तरा लक्षशस्तत्र कक्षाश्च लक्षशस्तथा ॥३३॥लक्षशश्चापि तन्मध्ये प्रासादाः सेतुमाश्रिताः ।कोटिशोऽनादिमुक्तानां निवासाः सन्ति गर्भगाः ॥३४॥असंख्यमण्डपास्तत्राऽसंख्यमुक्तानिकाऽऽलयाः ।असंख्यसौधप्रासादा यत्र विधन्त ऊर्ध्वगाः ॥३५॥असंख्यानि विमानानि यत्स्तरेषु श्रमन्ति च ।असंख्यभूमिकावासाऽनादिमुक्ता वसन्ति च ॥३६॥एतद्दुर्गसमं दिव्यमसंख्ययोजनायतम् ।नगरं नाऽपरं दृष्टं पूर्वं विमानगैस्तदा ॥३७॥परधाम्नोऽभितो दुर्गश्चायं सर्वोत्तमोत्तमः ।असंख्यनगरात्मा चासंख्योद्यानप्रशोभनः ॥३८॥असंख्यमुक्तवसतिशोभाढ्यो धामरक्षकः ।अत्राऽनादिकृष्णमूर्तेः किरणानि समन्ततः ॥३९॥पतन्ति तैः सदा दुर्गे स्मृद्धयः शाश्वतात्मिकाः ।किरणेभ्यः सुधावर्षा भवन्ति च यथेष्टकाः ॥४०॥परब्रह्मसुधानद्यो दुर्गे वहन्ति मध्यगाः ।महानदास्तटाकाश्च दीर्घिका वाटिकास्तथा ॥४१॥नित्यपूर्णा महानन्दप्रदा भवन्ति दुर्गिणाम् ।रसकुल्या घृतकुल्या दधिकुल्या भवन्ति च ॥४२॥पानकुल्या वारिकुल्या मधुकुल्या भवन्ति च ।शीतकुल्या ऊष्णकुल्याः स्वादकुल्या भवन्ति च ॥४३॥लेह्यकुल्याश्चोष्यकुल्या भोज्यद्रवा भवन्ति च ।भक्ष्याद्रयो भोज्यशैलाः फलपुष्परसोत्तमाः ॥४४॥मिष्टादनोदजान्नानि शर्कराः संभवन्ति च ।पिण्याकानि समस्तानि पीयूषाण्युत्तमानि च ॥४५॥मूर्तिरस्यानि सर्वाणि तृप्तिदाज्यानि यान्यपि ।नवनीतानि तक्राणि दुग्धसाराणि यान्यपि ॥४६॥क्षीराणि पायसानिष्टप्रियाणि संभवन्ति च ।सर्वरसोत्तमा दिव्याः कल्पद्रुमकरन्दकाः ॥४७॥कल्पवल्लीफललेह्यपेयरसा भवन्ति च ।शाखिदुग्धाऽमृतसाराः सिद्धान्नानि भवन्ति च ॥४८॥सर्वशाकरसाः सर्वमिश्ररसा भवन्ति च ।सर्वशृंगारभोगार्हद्रवोद्भवा भवन्ति च ॥४९॥सर्वशय्यागन्धवासाः किरणेभ्यो भवन्ति च ।सर्वशालासुखपुञ्जा दिव्याऽक्षय्या भवन्ति च ॥५०॥सर्वभूषाम्बरवेषा वाटिकोद्यानसंभवाः ।सर्वेष्टपात्रपुञ्जाश्चोपस्काराश्च भवन्त्यपि ॥५१॥सर्वसौन्दर्यसद्द्रव्याण्युत्तमानि भवन्ति च ।सर्वरागा रञ्जनानि चिक्कणानि भवन्त्यपि ॥५२॥सर्वतेजांसि वर्चांसि बलानि पुष्टयस्तथा ।धातवः सुखदाः कृष्णकिरणैः सम्भवन्ति च ॥५३॥किरणैः सम्प्रजायन्ते रत्नमौक्तिकहीरकाः ।मणयो हेतवः सर्वसाधनानि शुभानि च ॥५४॥बद्रिके कोमलं रूक्षं मृदु तीव्रं च मध्यमम् ।यद्वस्तु यादृशं यैश्चापेक्ष्यते तत्प्रजायते ॥५५॥कायाकल्पाः प्रजायन्ते कायाविवर्तकान्यपि ।यथेष्टरूपधारित्वं कल्पशृंगैर्भवन्ति हि ॥५६॥असंख्यानन्तभोगानामालयो दुर्ग एव सः ।यत्समस्तवर्णनं तु शक्यते नाऽक्षराऽऽयुषा ॥५७॥वीक्ष्य दुर्गं विमानस्था ध्यजतोरणराजितम् ।चक्रुर्मनांसि तत्रैवोषितुं चानन्ददायिनम् ॥५८॥अथापि चोह्यमानास्ते तथाऽग्रे वीक्षणेच्छया ।ययुर्विमानगाश्चाऽग्रे सप्त दुर्गान् प्रवीक्षितुम् ॥५९॥परार्धयोजनभूम्यान्तरभागोत्तरस्थितान् ।अनाद्यनन्तमुक्तानां राष्ट्राणां रक्षकान् शुभान् ॥६०॥घनतेजोमयीं भूमिमसंख्यनगराश्रयाम् ।असंख्यानादिमुक्तानां वसत्यादिसमाश्रिताम् ॥६१॥सर्वर्द्धिसहितां सर्वरसपूर्णां मनोहराम् ।सर्वसस्यद्रुमवृक्षलतावल्लीतृणान्विताम् ॥६२॥परब्रह्मात्मकमिष्टफलकन्ददलप्रदाम् ।सर्वभोग्यप्रदां कामरूपध्रां सरिदन्विताम् ॥६३॥परब्रह्मरसवारियुक्ततडागशोभनाम् ।महानदनदीव्याप्तां महासागरशोभनाम् ॥६४॥दिव्यामृतसरोभिश्च सर्वकमलयोगिभिः ।असंख्यमुक्तवल्लीभिः शोभनां हृदयंगमाम् ॥६५॥व्यलोकयन् विमानस्था सच्चिदानन्दतन्मयीम् ।वीक्ष्य तां दीर्घपट्टां चाप्यनन्तां दिव्यगोचराम् ॥६६॥आगतं कानकं दुर्गं घनतेजोऽभिरामकम् ।व्यलोकयन्महाश्चर्ययुतं पूर्ववदायतम् ॥६७॥पूर्ववदुच्छ्रितं पूर्ववत् सुवसतिसंश्रयम् ।अनादिदिव्यमुक्तानां प्रासादैर्गोपुरैर्युतम् ॥६८॥संकल्पोत्थसमस्तैश्च भोग्यभोगोपसाधनैः ।भोगोपकरणैर्दिव्यैः संभृतालयशोभनम् ॥६९॥आश्चर्यं परमं प्राप्ता वीक्ष्य विमानगामिनः ।बद्रिके ते कल्पयन्ति प्रतीक्षन्ते हरेर्गृहम् ॥७०॥महाश्चर्यमयं चेदं प्राप्य नेति विदन्त्यपि ।अथाऽग्रे प्रययुश्चापि भूमिकां दीर्घपट्टिकाम् ॥७१॥असंख्याऽनादिमुक्तानां नगरैरधिवासिताम् ।पूर्ववच्छोभनां सर्वभोग्यभोगोपसाधनैः ॥७२॥सर्वभोगोपकणैरलंकृतां प्रभासुराम् ।वीक्ष्याश्चर्यमयीं भूमिं चासंख्यनगराश्रिताम् ॥७३॥ययुरग्रे परं दुर्गं सौवर्णतैजसोद्भवम् ।पूर्ववदायतं पूर्ववदुच्छ्रितं मनोहरम् ॥७४॥असंख्याऽनातिमुक्तानामावासैरतिशोभनम् ।सर्वकामर्द्धिसहितं सर्वरसादिसंभृतम् ॥७५॥सर्वचिन्तोद्भवतत्त्वप्रदं दिव्यसुखप्रदम् ।आवीक्ष्य तं महादुर्गं तदन्तर्भूमिमागताः ॥७६॥विमानिनः समस्तास्ते व्यलोकयन् हि राजतीम् ।श्वेतां चन्द्रसमां भूमिं सर्वर्द्धिवसतिश्रिताम् ॥७७॥असंख्यानादिमुक्तानां पत्तनाद्यधिशोभिताम् ।असंख्ययोजनायामां ययुर्दुर्गं चतुर्थकम् ॥७८॥दिव्यराजततत्त्वात्मतेजोराशिसमुद्भवम् ।पूर्ववदायतं सर्वस्मृद्धिभोग्यसमन्वितम् ॥७९॥असंख्यानादिमुक्तानां शुक्लानां मन्दिरैर्युतम् ।वीक्ष्येदं वै भवेत् कृष्णनारायणस्य मन्दिरम् ॥८०॥एवं प्रतर्कयन्तस्ते न प्राप्याऽग्रे ययुर्द्रुतम् ।भूमिं वै दिव्यवैदूर्यतेजोमयीं तथाऽऽयताम् ॥८१॥दिव्याऽनादिमुक्तवासामसंख्यर्द्धिरसान्विताम् ।सर्वकामप्रपूरां चालोकयन् बहुशोभनाम् ॥८२॥पूर्वतेजोऽधिकतेजोरसमयीमनुत्तमाम् ।वीक्ष्य तूर्णं पुरो याता दुर्गं तु पञ्चमं प्रति ॥८३॥स्फाटिकाख्यमणिगर्भमहातेजोऽभिनिर्मितम् ।असंख्यानादिमुक्तानां दिव्यालयादिशोभनम् ॥८४॥श्रीहरैः किरणैः सर्वभोग्यतत्साधनान्वितम् ।महानन्दप्रदं बद्रि वीक्ष्याऽग्रे प्रययुश्च ते ॥८५॥षष्ठं दुर्गं तथादीर्घायतोच्छ्रयं मनोहरम् ।सर्वाऽसंख्यमहादिव्यकौस्तुभमणिविग्रहम् ॥८६॥असंख्यानादिमुक्तानां दिव्यमन्दिरशोभनम् ।सर्वदिव्यर्द्धिसहितं सर्वकामप्रपूरकम् ॥८७॥विमानगास्त्विदं कृष्णनारायणाश्रयस्थलम् ।मत्वा वीक्ष्य तमप्राप्य ययुरग्रे समुत्सुकाः ॥८८॥लीलाभूमिं विशालां च दिव्यतेजोभिशोभनाम् ।पूर्वपूर्वत उत्कृष्टतेजोरसर्द्धिवर्धिताम् ॥८९॥असंख्याऽनादिमुक्तानां वसत्या वासितां शुभाम् ।महासाम्राज्यशोभाढ्यां सर्वानन्दपरिप्लुताम् ॥९०॥सर्वेन्द्रियसुखानन्दप्रदां दिव्यात्मगोचराम् ।वीक्ष्याऽग्रे प्रययुः सर्वे दुर्गं तु सप्तमं प्रति ॥९१॥चिन्तामणिमहातेजःक्लृप्तं पूर्ववदायतम् ।असंख्यानादिमुक्तानां महामन्दिरशोभनम् ॥९२॥सर्वर्द्धिसहितं सर्वभोग्यभोगाभिपूरितम् ।अयं नाथस्य वासश्चेत्येवं मत्वाऽनवाप्य तम् ॥९३॥ययुरग्रे दिव्यचिन्तामणिभूमिं तदुत्तमाम् ।सर्वर्द्धिसहितां सर्ववनोद्याननदादिभिः ॥९४॥शोभनां सर्वथा दिव्यामसंख्ययोजनायताम् ।असंख्यानादिमुक्तानां प्रासादपत्तनान्विताम् ॥९५॥वीक्ष्य तूर्णं ययुर्दुर्गमष्टमं कल्पतत्त्वजम् ।कल्पतेजोमयं सर्वकल्पकिरणभोगदम् ॥९६॥असंख्यानन्तमुक्तानामनादीनां च मन्दिरैः ।सर्वथा सर्वतो व्याप्तं सर्वदुर्गोत्तमोत्तमम् ॥९७॥पूर्वेभ्यश्चापि सर्वेभ्यो विशालायतमुच्छ्रितम् ।असंख्यभूमिकाव्यक्षास्तरमालाविराजितम् ॥९८॥अनादिश्रीकृष्णनारायणोत्थकिरणान्वितम् ।सर्वविधाभिर्भाभिश्च परब्रह्मरसप्रदम् ॥९९॥असंख्यगोपुरैर्युक्तमुपर्युपरि संस्थितैः ।असंख्यभूमिकाकक्षाऽनादिमुक्ताऽभिवासितम् ॥१००॥असंख्यघनतेजोजस्वर्णमण्डपकोष्ठकम् ।असंख्यगह्वरगर्भमसंख्यतोरणोज्ज्वलम् ॥१०१॥असंख्ययानसंयानविमानाद्यभिसंश्रितम् ।असंख्यचन्द्रशालास्थोद्यानवाटीसुशोभनम् ॥१०२॥असंख्यदीर्घशिखरैर्युक्तप्रासादविग्रहम् ।असंख्यनगरावासं चाऽसंख्यपत्तनान्वितम् ॥१०३॥असंख्यानन्तसम्पद्भिर्भोग्याभिश्च प्रपूरितम् ।भोगोपकरणैर्दिव्यैर्भोगैः प्रसाधनैर्युतम् ॥१०४॥असंख्याऽनन्तदिव्येष्टकल्पग्रावमणिकृतम् ।असंख्यदिव्यशालाभिर्विहारै रासमण्डलैः ॥१०५॥युक्तं रंगविचित्रांऽगमण्डपैर्गर्भवर्तिभिः ।असंख्याऽव्ययसर्वोर्ध्वदिव्यानन्दसरिन्नदैः ॥१०६॥महानन्दसरोभिश्च शोभितं कनकोज्ज्वलम् ।अनादिश्रीकृष्णनारायणरूपाऽनुरूपिभिः ॥१०७॥शक्तिसामर्थ्यमुक्तैश्चाऽध्युषितं सर्वतोमुखैः ।अनादिमुक्तमुक्तानीसाम्राज्यदिव्यमन्दिरम् ॥१०८॥उपर्यनन्तं च तलेऽप्यनन्तंपार्श्वेऽप्यनन्तं परितोऽप्यनन्तम् ।मध्येऽप्यनन्तं क्रमणेऽप्यनन्तंह्यपारपारं तमलोकयँस्ते ॥१०९॥समस्तभोगं च समस्तमोदंसमस्तपीयूषमखण्डशंदम् ।समस्तसौख्यं च समष्टिबीजंदुर्गं महान्तं तमलोकयँस्ते ॥११०॥सदैकतत्त्वं बहुभावरूपं समस्तसत्कामसुपूरकं च ।समस्तसच्चेतनकल्पकान्तप्रख्यैर्मणीन्द्रैरभिरामकं तम् ॥१११॥व्यलोकयन् वल्लभिकासमृद्धि-प्रकाशनातिप्रभुमिष्टदं च ।कल्पद्रुचिन्तामणिकल्पवल्ली-कल्पोर्मिकाचक्रमणीन्द्रगर्भम् ॥११२॥समस्तसत्सौरभरम्यरूप-समस्तकाऽऽस्वादनसद्रसाढ्यम् ।असंख्यकाऽऽकर्षणभृत्स्वराढ्य-मसंख्यसत्स्पर्शसुखप्रदं च ॥११३॥यत्र कामदुघा गावो यत्र कल्पप्रिया, रमाः ।यत्राऽऽनन्दप्रदा मुक्ता निवसन्त्यभितः सुखाः ॥११४॥येषां प्रत्येकनिलये द्वारदेशेऽग्रभागके ।सृष्टिदृश्यो मणिश्चास्ते सर्वसाक्षात्प्रदर्शनः ॥११५॥येषामन्तर्गृहे भित्तौ सृष्टिश्राव्यो मणिः स्थितः ।सर्वसृष्टिस्वरशब्दश्रावको बोधदायकः ॥११६येषां देहलिकामध्ये चास्ते वै मानसो मणिः ।सृष्टिमानससाक्षात्कारप्रदो दिव्यबोधनः ॥११७॥येषां गृहविताने च लम्बते तु सुधामणिः ।सर्वतृप्तिप्रदः सर्वानन्दप्रमोदसौख्यदः ॥११८॥येषां तु चत्वरे चास्ते कल्पद्रुर्मणिसत्फलः ।सर्वास्वादरसदाता शाश्वतीं तृप्तिमावहन् ॥११९॥येषामन्तर्गृहे चास्ते स्पर्शानन्दप्रदो मणिः ।कृष्णस्पर्शप्रदः सर्वस्पर्शदः शाश्वतः सुखः ॥१२०॥विशिष्टं बद्रिके! तत्र शृणु त्वं वै रहस्यकम् ।गृहे गृहे कामफलं मुक्तेच्छापूरकं परम् ॥१२१॥वर्ततेऽनादिकृष्णेन दत्तं तु प्रतिमुक्तकम् ।फलं स्पृष्ट्वाऽनादिमुक्तो भूत्वा मुक्तानिका प्रिया ॥१२२॥कान्तं कृष्णं पतिं कृत्वा सेवितुं यदि वाञ्छति ।तदा कृष्णा प्रिया भूत्वा कण्ठे धूत्वा फलं तु तत् ॥१२३॥सेवते स्वपतिं कृष्णनारायणं रतिप्रिया ।पूर्णानन्दं परं भुक्त्वा प्रसाद्य वल्लभम्प्रभुम् ॥१२४॥मणिमुत्तार्य कण्ठात्तं फलाख्यं जायते पुमान् ।एतद्वै परमैश्वर्यं स्वयं जानाति नेतरः ॥१२५॥यस्मै दत्तं फलं यत्तु तद्वै तस्य प्रवर्तते ।नाऽन्यहस्तगतं तद्वै प्रवर्ततेऽन्यरूपणे ॥१२६॥एतदेव महाश्चर्यं सर्वानन्दप्रदप्रभोः ।मुक्तानां सर्वकामानां पूरकस्य परात्मनः ॥१२७॥सन् स्वयं भगवाँस्तत्र चित् सा मुक्तानिका तदा ।तयोरानन्द उत्कृष्टः सच्चिदानन्द इत्ययम् ॥१२८॥य एतां परमां दिव्याम मुक्तिरहस्यबोधिकाम् ।उपनिषदं जानाति सोऽपि यायात्परां गतिम् ॥१२९॥ इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने हृद्यबोधने परे धाम्नि दिव्याऽष्टदुर्गराष्ट्राऽनादिमुक्तवसतितदालयैश्वर्यतद्रहस्योपनिषदादिवर्णननामा षोडशाधिकशततमोऽध्यायः ॥११६॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP