संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः १२० तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः १२० लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः १२० Translation - भाषांतर श्रीनरनारायण उवाच-बद्रिके श्रीहरिकृष्णो वानप्रस्थः समाद्वयम् ।अतिष्ठत महाशान्तो महाव्रतधरः प्रभुः ॥१॥ब्रह्मव्रतपरो नित्यं भक्तिमार्गप्रबोधकृत् ।ऋषीणां च सतां योगियतीनां मण्डलैः सुयुक् ॥२॥आत्मध्यानपरश्चापि वर्तते त्यागशीलवान् ।साध्याः सिद्धाः समायान्ति सभायां हरिसन्निधौ ॥३॥कथावार्ताः प्रवर्तन्ते ह्याध्यात्मिक्यो हि मोक्षदाः ।बहवो देहिनो दीक्षां लब्ध्वा यान्ति परं पदम् ॥४॥बद्रिके श्रीकृष्णनारायणोऽपि निष्परिग्रहः ।सर्वव्यवहारमुक्तस्त्यागिमार्गं समैहत ॥५॥त्यागिसाधुमहादीक्षां समैच्छल्लोमशाद्गुरोः ।प्रार्थयल्लोमशं चापि कार्तिके शुक्लपक्षके ॥६॥एकादश्यां महादीक्षां ग्रहीतुं परमेश्वरः ।आश्रमक्रमरक्षार्थं धर्मस्थापनहेतवे ॥७॥परमेशोऽपि भगवान् महादीक्षां समैहत ।धर्मस्यापि सुनिर्माता धर्ममूर्तिर्विधायकः ॥८॥आश्रमाणां सदाधारो महादीक्षां समैहत ।यस्माद् दीक्षाः प्रवर्तन्ते मखा व्रतानि वै यतः ॥९॥यदिच्छायां महामोक्षः सोऽपि दीक्षां समैहत ।यद्वचस्तच्छ्रुतिवाक्यं यत्संकल्पो विधिर्मतः ॥१०॥यत्प्रसादात् फलं सर्वं यत्प्रपत्तिः परात्परा ।यदीक्षणं महादीक्षा सोऽपि दीक्षां समैहत ॥११॥दीक्षया यत्फलं प्रोक्तं यज्ज्ञानं दीक्षयाऽऽप्यते ।ययाऽघानां क्षालनं च यदनुग्रहतो भवेत् ॥१२॥यां विनाऽपि स्वयं शक्तो मोक्षं दातुं निजेच्छया ।सोऽपि सर्वाऽवतारेशो महादीक्षां समैहत ॥१३॥यत्स्पर्शः शस्त्रमात्रादिद्वारको मोक्षणाय वै ।पापिनामपि जीवानां सोऽपि दीक्षां समैहत ॥१४॥यत्स्पर्शः कामनापूर्वः स्त्रीणामुद्धारकृत् सदा ।आश्लेषो मुक्तिजनकः सोऽपि दीक्षां समैहत ॥१५॥यस्याऽङ्गुष्ठज्ञलं गंगा मोक्षदा सर्वदेहिनाम् ।यद्भक्ता मोक्षदाश्चापि सोपि दीक्षां समैहत ॥१६॥बद्रिके दीक्षया यत्र गन्तव्यं सोऽस्ति यः स्वयम् ।यद्योगेन खदेहाश्च याता यान्ति परं पदम् ॥१७॥ब्रह्मप्रियाद्या मुक्ताश्च येन नीता निजं पदम् ।रक्षितास्तत्र तेनैव दिव्यदेहेन येन तु ॥१८॥यन्मन्त्राऽऽप्तेर्मोक्षदाश्च भवन्ति साधवो जनाः ।मोक्षदाः सर्वजीवानां सोऽपि दीक्षां समैहत ॥१९॥यदैश्वर्यकणं प्राप्य दीक्षां मोक्षं ददात्यपि ।सोऽपि दीक्षाभिक्षुकः सन् महादीक्षां समैहत ॥२०॥रोमशो लोमशश्चापि यदुपासनाऽभवत् ।महामुक्तो महर्षिश्च चिरायुर्मोक्षदः सदा ॥२१॥सर्वकल्याणकृत् साधुविप्रर्षिः पावनः परः ।तस्मादुपासकात् कृष्णो महादीक्षां समैहत ॥२२॥सर्वोपास्यो हरिर्भक्तानुपास्ते प्रेमसम्प्लुतः ।सोऽयं कृष्णोऽपि भगवानुपास्ते लोमशं मुनिम् ॥२३॥शिक्षको बालमध्याप्य बालाद् गृह्णाति सारवत् ।दीक्षको मुनिमध्याप्य मुनेर्गृह्णाति दक्षिणम् ॥२४॥एवं परम्परां पूर्वपूर्वेषां सृष्टिरक्षणे ।रक्षितुं तां महादीक्षां लोमशात् कृष्ण ऐहत ॥२५॥दशम्यां श्रीहरिश्चक्रे ह्युपोषणं सुनिर्जलम् ।पञ्चगव्याशनं चक्रे देहशुद्धिप्रयोजकम् ॥२६॥तथाऽघमर्षणं चक्रे तीर्थस्नानादिभिस्तथा ।रात्रौ जागरणं चक्रे गीतकीर्तनमङ्गलैः ॥२७॥प्रातरुत्थाय वै स्नानं ध्यानं चक्रे निजात्मनः ।पूजनं प्रचकारापि देवानां च विधानतः ॥२८॥क्षौरं प्रकारयामास सस्नौ तीर्थादिवारिभिः ।श्राद्धादि प्रचकारापि पितृतृप्तिकरं शुभम् ॥२९॥कुण्डं च मण्डपं रम्यं कारयामास सत्वरम् ।पुण्याहं वाचयामास जलं मुमोच भूतले ॥३०॥आचमनं तथा न्यासान् प्रचकार विधानतः ।प्राणायामान् विधायाऽथ चक्रे गणेशपूजनम् ॥३१॥वास्तुदेवाद्यर्हणं च वर्धनीकलशाऽर्हणम् ।कुण्डमण्डपदेवानामर्हणं प्रचकार च ॥२२॥ग्रहाणां पूजनं सर्वदिक्पालानां प्रपूजनम् ।लोकपालाऽर्हणं चापि ऋषिपित्रर्हणं तथा ॥३३॥देवीदेवतापूजां चेश्वराणां पूजनं तथा ।ईशनीनां पूजनं चाऽवताराणां प्रपूजनम् ॥३४॥मातृकाणां योगिनीनां सतीनां पूजनं तथा ।मुक्तानां पूजनं मुक्तानिकानां पूजनं ततः ॥३५॥परब्रह्माऽर्हणं चक्रे सर्वतत्त्वाऽर्हणं तथा ।काश्यपीनां प्रजानां च पूजनं प्रचकार सः ॥३६॥प्रायश्चित्तविधिं चक्रे हवनं प्रचकार च ।वह्निपूजां वह्निमुखसर्वदेवप्रतर्पणम् ॥३७॥चकार भगवान् होमं क्षीराज्यपायसोद्भवम् ।फलपुष्पमधूनां च समिधां हव्यसञ्जुषाम् ॥३८॥कव्यानां हवनं चक्रे पिण्डानां च प्रदानकम् ।श्रीफलाद्यैर्महाहोमं चक्रे च घृतधारया ॥३९॥मध्ये व्यावर्त्य वस्त्राणि काषायाणि दधार सः ।धौत्रं चांगरक्षकं चोत्तरासंगं समुष्णिषम् ॥४०॥यज्ञोपवीतकं प्रच्छदपटीं चोत्तरीयकम् ।पादुके च दधारापि कौपीनं च कमण्डलून् ॥४१॥तिलकं चन्द्रकं चक्रे चान्दनं कौंकुम तथा ।शिखां बद्ध्वा च गायत्रीं वैष्णवीं जगृहे गुरोः ॥४२॥ 'परब्रह्मणे विद्महेऽनादिकृष्णाय धीमहि ।तन्नो हरिः प्रचोदयादिती' जग्राह लोमशात् ॥४३॥ओं परब्रह्माऽहमस्मी'त्यष्टाक्षरं च जगृहे ।ओमनादिकृष्णनारायणोऽस्तु शरणं मम' ॥४४॥षोडशाक्षरमन्त्रं च जगृहे लोमशान्मुनेः ।इत्येवं प्राप्य मन्त्राँस्त्रीन् त्रिवारं प्रणनाम तम् ॥४५॥लोमशं च तथा वह्निं देवान्नत्वा प्रदक्षिणम् ।प्रचक्रे दण्डवत् साधुः कृष्णनारायणायनः ॥४६॥देवप्रसादं जगृहे पुपूज लोमशं गुरुम् ।उपदाः प्रददौ दिव्यां श्रेष्ठां स्वर्णमयीं तथा ॥४७॥दक्षिणां प्रददौ चापि त्यागी भूत्वा जनार्दनः ।कृष्णवत् लभ्यते यः सः श्रीकृष्णो वल्लभोऽभवत् ॥४८॥वैष्णवो वै परब्रह्म हंसोविज्ञानशोभनः ।साधुरूपः परब्रह्म हंसस्त्यागाश्रमी प्रभुः ॥४९॥स्वामी नारायणः कृष्णः सर्ववल्लभतां गतः ।परमेशः स्वामिभावे वर्तते सर्वदाऽपि सः ॥५०॥दीक्षया स्वामितां प्राप्य स्वामिस्वामो ततोऽभवत् ।ब्रह्मचर्यं व्रतं नित्यं भक्तिव्रतं महत्तमम् ॥५१॥पालयामास भगवान् कृष्णो नारायणायनः ।दीक्षाकाले मण्डपे च महर्षिसाधुसाध्विकाः ॥५२॥आशीर्वादान् ददुस्तत्र श्रेयसे परमात्मने ।विरेजे भगवान् द्वेधा काषायाम्बरधृक् तथा ॥५३॥राजाधिराजरूपोऽपि सर्वेषां मानसेषु सः ।दीक्षाकाले तु वाद्यानि ह्यवाद्यन्त समन्ततः ॥५४॥वेदमन्त्रा महर्षीणां गीतयः सुरयोषिताम् ।मानवीनां कीर्तनानि मण्डपादौ तदाऽभवन् ॥५५॥उपदेशं च दीक्षां च लब्ध्वा त्यागाश्रमं शुभम् ।पूर्णाहुतिं व्यधाद्धोमं ददौ दानानि वै तदा ॥५६॥स्वर्णहीरकरूप्याणां रत्नगोधनवाससाम् ।पर्णशालां विना सर्वं प्रददौ भवनादिकम् ॥५७॥लोमशस्याऽऽश्रमे पश्चाच्छिष्यरूपोऽवसत्प्रभुः ।असंख्यसाधुसञ्जुष्टे त्यागिनां मण्डले हरिः ॥५८॥न्यवसत् शान्तचित्तात्मा साधुसेवाकृतादरः ।असंख्यजीवजातानां मोक्षे तु सततं रतः ॥५९॥लक्ष्मीस्तदा पृथग् भूत्वा साध्वी काषायधारिणी ।अस्तौत् स्वामिस्वरूपं श्रीपरब्रह्मप्रहंसकम् ॥६०॥ओं नमः श्रीपरब्रह्म ते नमः परमात्मने ।ब्रह्ममुक्ताऽधिपतये परधामनिवासिने ॥६१॥अपृथङ्मुक्तसंस्थाय रहस्यमुक्तसेविने ।नमस्ते श्रीरङ्गमहोलादिवासाय योगिने ॥६२॥निर्लेपाय महामुक्ताऽनादिमुक्तादिसेविने ।आक्षरैर्मुक्तवृन्दैश्च सेविताय च ते नमः ॥६३॥अवतारैरीश्वराद्यैः सेविताय च ते नमः ।ऋषिपितृसुराद्यैश्च सेविताय च ते नमः ॥६४॥मानवैश्चेतरैश्चापि यक्षगन्धर्वकिन्नरैः ।नागैः सर्पै राक्षसैश्च सेविताय च ते नमः ॥६५॥उद्भिज्जरास्वेदजैश्च प्रसेविताय ते नमः ।नरैश्च प्रमदाभिश्च सर्वस्थावरजङ्गमैः ॥६६॥पुष्ट्यर्थं संसेविताय सुखदाय च ते नमः ।असंख्ययोगिनां कामपूरकाय च ते नमः ॥६७॥असंख्यानां स्वभक्तानां तारकाय च ते नमः ।माणिक्याया बदर्याश्च नाथाय ते नमो नमः ॥६८॥बदरो नाम राजर्षिर्व्यधाद् बदरिकाश्रमम् ।यत्कृपांऽशात् स्वामिनं तं वन्दे बदरिकेश्वरम् ॥६९॥हेमानलासुरो येन पर्वताधो निषूदितः ।तस्य बदरनृपतेः प्रसन्नाय च ते नमः ॥७०॥बदरीस्वीयमूलाधो हेमानलममर्दयत् ।यत्प्रतापेन तं कृष्णं नताऽस्मि साधुरूपिणम् ॥७१॥बदरो रसारूपोऽपि यत्कृपातो व्यजायत ।फले तं परमात्मानं वन्दे श्रीस्वामिनं त्विह ॥७२॥नरोऽपि बीजतां प्राप्तो बदराख्ये फले सदा ।यत्कृपातस्तं फलेशं वन्दे श्रीस्वामिनं प्रभुम् ॥७३॥श्रीशीलस्य तु विप्रस्य प्रेतभूतस्य मोक्षणम् ।बदरस्व प्रदानेन कृतं येन च ते नमः ॥७४॥साधुसाध्वीस्वरूपाभ्यां दाराभाग्याय दर्शनम् ।दत्वाऽप्यमोक्षयद् भूपं तं यस्तस्मै च ते नमः ॥७५॥ब्रह्मदेवद्विजपत्न्यै दत्वा द्वे बदरे फले ।बद्रिका पुत्रिकापुत्रौ ददौ बद्रीश ते नमः ॥७६॥यत्प्रतापात् कृष्णपत्नी जाता वै बालयोगिनी ।सुरेश्वरीसुता तं श्रीकृष्णं वन्दे नरायणम् ॥७७॥यः कृष्णो दिव्यदेहां च चारणीं नाग्नकेसरीम् ।कृत्वा मुक्तानिकां निन्येऽक्षरं तस्मै नमो नमः ॥७८॥नर्मकर्त्र्या विनोदिन्याः साधुयोगेन मोक्षणम् ।कृतं येन कृतो देवलोकोऽपि च सखीविधः ॥७९॥मोक्षं तस्मै ददौ यश्च तस्मै ते स्वामिने नमः ।बाहुलकाय तत्पत्न्यै लीलावत्यै च नर्तनात् ॥८०॥ददौ ब्रह्मरसं मोक्षं तुष्टो यस्ते नमः सदा ।मालियानं मल्लिकां च मालाकारौ हरिः पुरा ॥८१॥प्रसन्नः पाययामास ब्रह्मरसं ततस्तयोः ।मोक्षणं कृतवान् कृष्णो यस्तस्मै स्वामिने नमः ॥८२॥निकामदेवसंज्ञाय धीशूराय हरिः स्वयम् ।मोक्षं ददौ च तत्पत्न्यै तस्मै श्रीस्वामिने नमः ॥८३॥निगडभ्रामकैवर्तं मत्स्याशापात् सुदुःखिनम् ।तारितं भक्तया पत्न्या यस्य कृपादिशेवधेः ॥८४॥अनयः स्वं परं धाम तया साकं च योषिता ।तथा तत्पुत्रिका चाद्या साध्वी पुण्डरिका सती ॥८५॥निर्वाणिका सती चान्याऽऽनन्दघना तृतीयका ।तथा पञ्चाऽऽत्मजा ज्ञानदर्भ्यादयोऽपि यं प्रभुम् ॥८६॥भजित्वा मोक्षणं प्राप्तास्तं भजे स्वामिनं हरिम् ।कृतघ्न्यास्तु कुथल्याख्यस्त्रिया यो राजयक्ष्मतः ॥८७॥रक्षां चक्रे ददौ मोक्षं तं वन्दे स्वामिनं प्रभुम् ।प्रतारण्या विषलाण्याः सतां समागमाद्धरिः ॥८८॥उद्धारं कृतवान् यस्तं वन्दे श्रीस्वामिनं प्रभुम् ।गंगांऽजनीं कटकर्त्रीं सत्संगेन त्वमोक्षयत् ॥८९॥रमाञ्जनीं रमां चक्रे यस्तस्मै हरये नमः ।सुनारिणीं कुलालीं च रणस्तम्बं च तत्पतिम् ॥९०॥साधुयोगेन तत्पुत्रं संसाराद् यो व्यमोचयत् ।वन्दे तं स्वामिनं कृष्णं वल्लभं प्रभुमीश्वरम् ॥९१॥स्वर्णकारस्त्रिया हेमसुधायास्तु प्रभक्तितः ।प्रसन्नो यो ददौ तस्यै चाऽन्नपूर्णात्वमुत्तमम् ॥९२॥मुक्तिं ददौ तथाऽन्ते च वन्दे श्रीस्वामिनं हरिम् ।राधिकायनयोगेन विद्रुमिणीं तु विष्टिणीम् ॥९३॥धाम्नि राधासमां चक्रे यस्तस्मै स्वामिने नमः ।श्वपचीं मालवानीं यो धर्मयोगेन मुक्तिगाम् ॥९४॥सकुटुम्बामकरोद् यस्तस्मै श्रीस्वामिने नमः ।रथ्यामार्जनिकां कारेलिकां हिताञ्जलेर्मुनेः ॥९५॥योगात् कथाश्रवणेन मुक्तिमनयद् यः प्रभुः ।हेताञ्जलेश्च पुत्रीणां निर्मोहित्वं च यद्बलात् ॥९६॥मोक्षणं कृतवान् यश्च तस्मै तेऽस्तु नमो मुहुः ।निरञ्जनादयश्चापि भ्रातरः पञ्च तादृशाः ॥९७॥मुक्तिं येन प्रणीतास्तं वन्दे श्रीस्वामिनं प्रभुम् ।यन्त्रकर्त्रीं गोमतीं च नयराजं च तत्पतिम् ॥९८॥अरक्षयत् राजयक्ष्मतो यस्तं स्तौमि मावरम् ।कनकांगदायाः कृष्णो धूर्ताया मोक्षणं व्यधात् ॥९९॥भाणवाण्या द्यूतकर्त्र्याः श्रेयश्चकार यो हरिः ।रायहरिनृपस्याऽपि तं वन्दे स्वामिनं प्रभुम् ॥१००॥माधवरायनृपतेः श्रेयो व्यधात्तु यः प्रभुः ।वैद्योतिकां तु कंसारीं दिव्याममोक्षयच्च यः ॥१०१॥नरराजं कुंभकारं तद्भार्यां रत्निकां च यः ।अम्बालिकां स्वर्णकर्त्रीं धातुध्मां च विनोदिनीम् ॥१०२॥अमोक्षयद्धरिर्यश्च नटं रञ्जनकोविदम् ।श्रीरामसुन्दरं चापि कदर्यं योऽप्यमोक्षयत् ॥१०३॥वन्दे तं परमात्मानं स्वामिनं दीक्षितं प्रभुम् ।क्षीरोदवीरं भूपं च राज्ञीं रुहारिणीं च यः ॥१०४॥गणिकां सोमिकां पञ्चपुत्रीयुताममोक्षयत् ।अरुणानीपतिं पाटलान्यादीशं नमामि तम् ॥१०९॥मद्यपाया लियार्याश्च मोक्षणं यो व्यधात् प्रभुः ।मिष्टासवध्वजिनश्च तं वन्दे स्वामिनं हरिम् ॥१०६॥गण्डवाताभिधायाश्च चक्रिण्यामोक्षणं व्यधात् ।यास्कवादस्य च मोक्षं तं वन्दे स्वामिनं हरिम् ॥१०७॥निन्दाकर्त्र्या ट्विःर्वदन्त्या मोक्षणं यो व्यधात्प्रभुः ।द्विर्गर्जनाख्यपत्युश्च तं वन्दे स्वामिनं हरिम् ॥१०८॥सुरप्रसादं विप्रं च गुरुघ्नं यो ह्यमोचयत् ।मातरं पितरं तस्य चाऽमोक्षयत्तु यः प्रभुः ॥१०९॥नागविक्रमभूपस्य देवद्रोहरतस्य च ।नवद्रोहियुतस्याऽपि मोक्षकर्त्रे तु ते नमः ॥११०॥शालमित्रो जीविकाघ्नो जयालक्ष्मीश्च तत्प्रिया ।उद्धृतौ येन कृष्णेन तस्मै श्रीस्वामिने नमः ॥१११॥कन्याघ्नं यद्धराजं यो विषदं साधुयोगतः ।अमोचयद् यमदूतान् तं भजे स्वामिनं हरिम् ॥११२॥साधुजीवं कुमारं च कुमारीं साधुजीवनीम् ।निर्विषादं च यः कृष्णोऽमोक्षयत् तं मुहुर्नमः ॥११३॥नारायण्यै प्रभावत्यै घटमालाख्ययोषिते ।मोक्षणं प्रददौ यश्च तस्मै श्रीस्वामिने नमः ॥११४॥अनंगवल्ल्याः कुट्टन्यास्तत्सखीनां च मोक्षणम् ।कृतवान् यः प्रभुः स्वामी तस्मै कृष्णाय ते नमः ॥११५॥षण्ढवज्राभिधं षण्ढं यः संसाराद् व्यमोचयत् ।नपुंसकानां पुंस्त्रीत्वं चक्रे यस्ते नमो मुहुः ॥११६॥यवसन्धं तु मांसादं पत्नीं मजावलीं च यः ।तत्कुटुम्बं हरिर्व्यमोचयत् तस्मै च ते नमः ॥११७॥भाण्डं यो भण्डशीलं तु सकुटुम्बं व्यमोचयत् ।त्रिगालवाँस्तथा भवायनादीन् यो व्यमोचयत् ॥११८॥हरिवीर्यादिमल्लाँश्च ऽमोक्षयद् यः प्रभुर्हरिः ।वार्धूषिकान् हरिलालादींश्च व्यमोक्षयत्तु यः ॥११९॥कीरवणादिमृगयूममोक्षयच्च यः प्रभुः ।अमोक्षयच्च नागादं वादिटं यश्च ते नमः ॥१२०॥सारहासीयमार्तण्डमण्डलादिप्रमोक्षकम् ।विलासदेवं लुञ्चादं व्यमोक्षयच्च तं भजे ॥१२१॥दैवान् प्रकाशकादींश्च तत्पुत्रान् साधुदीक्षितान् ।मौक्तिकायनिकाद्याश्च तत्पुत्रीः साध्विकास्तथा ॥१२२॥व्यमोक्षयच्च यः स्वामी वन्दे श्रीस्वामिनं च तम् ।दुरितघोषनामानं सर्वादं यो व्यमोक्षयत् ॥१२३॥तत्पत्नीं च महासत्यायनीं व्यमोक्षयच्च यः ।तत्पुत्रान् तत्पुत्रिकाश्चाऽमोक्षयद् यश्च तं भजे ॥१२४॥धर्मभटं महामात्यं शीलयानीं च तत्प्रियाम् ।अमोक्षयत् प्रभुर्यः श्रीस्वामिनं तं सदा भजे ॥१२५॥धर्माध्यक्षं प्रभुर्मुकुन्दसावित्रममोक्षयत् ।न्यायाक्षिणीं च तद्भार्यां यस्तं वन्दे जनार्दनम् ॥१२६॥विशालरेखकं यश्चौद्धारयल्लेखकं हरिः ।शुचिकान्तां च तत्पत्नीं तं वन्दे स्वामिनं प्रभुम् ॥१२७॥कृष्णकान्तेश्वरोनाथं नमामि वल्लभम् प्रभुम् ।कायस्थान् करणाद्यान् योऽमोक्षयत् परमेश्वरः ॥१२८॥शाहविलापनादींश्चाऽमोक्षयत् तं नमामि च ।गृध्र उद्धारितो येन पूर्वकौलिकदेहवान् ॥१२९॥मार्जारश्चोद्धृतो येन पूर्वगोबारगोपकः ।जम्बूकश्चोद्धृतो येन पुरा ठठूठोलको वणिक् ॥१३०॥स्वर्णाऽञ्जनादयो भृत्या उद्धृता येन शार्ङ्गिणा ।श्येनः समुद्धृतश्चापि पुरा यो भरवाटकः ॥१३१॥चटकाश्चोद्धृताः पूर्वेऽजा यास्तं नौमि माधवम् ।कपोता उद्धृता येन सार्थवारास्तु ये पुरा ॥१३२॥काकास्तथोद्धृता येन पुरा ये कंकजातिजाः ।गृहगोधोद्धृता येन नाणकी प्राक् खवासिनी ॥१३३॥मूषका उद्धृता येन प्राक् शूद्राः संघवाटकाः ।नकुलश्चोद्धृतो येन प्राक् वारुटस्तु सागरः ॥१३४॥कीरताराभिधो भाट उद्धृतो येन तं भजे ।ज्योतिर्वेत्ता देवगतीश्वरो येन समुद्धृतः ॥१३५॥पुण्यवती च तद्भार्योद्धृता येन नमामि तम् ।बन्दिजनो जयमानो नृपश्च वज्रविक्रमः ॥१३६॥प्रजाश्चाप्युद्धृता येन वन्दे श्रीस्वामिनं हि तम् ।सप्ताऽब्धिसिंहनृपतिः सूतस्तस्य सुकेसरी ॥१३७॥राज्ञी रक्षावती येन मोक्षितास्तं नमाम्यहम् ।मागधो हर्षनयनो योगिदासश्च सेवकः ॥१३८॥येन सौरभसावित्रस्ताम्बूलकृत् समुद्धृतः ।रंगिलो रंगकारश्च डमरूकश्च वाद्यकृत् ॥१३९॥चिह्नरायो भावसारश्चोद्धृतो येन तं भजे ।रमेश्वरो ग्रामयाजी तथोद्धृतोऽपि येन ह ॥१४०॥स्वर्णास्तरणो विद्याध्रश्चित्रबर्हादयस्तथा ।उद्धृताः किन्नरा येन किंपुमांसश्च चारणाः ॥१४१॥असंख्याश्च नृपा येनोद्धृतास्तं त्वां नमामि च ।नन्दिभिल्लं हतवान् यो ररक्ष नागविक्रमम् ॥१४२॥हतं सैन्यं पुनः सञ्जीवयामास नमामि तम् ।पुरञ्जयनृपं ह्यमोक्षयद् यस्तं नमाम्यहम् ॥१४३॥मोक्षिता येन बहवः सप्तस्वर्गनिवासिनः ।सप्तपातालवासाश्च तं नमामि महाप्रभुम् ॥१४४॥ईश्वरेभ्यश्च धार्मिभ्यो दर्शनं यो ददौ प्रभुः ।सर्वस्त्रीदासवर्गाढ्यस्तं भजे पुरुषोत्तमम् ॥१४५॥सर्वस्त्रीभ्यो निजाभ्यश्च युगलापत्यकानि यः ।मानसानि ददौ तस्मै नमः श्रीपरमात्मने ॥१४६॥मायापालो नृपो महानास्तिको यमलोकतः ।मोचितो येन कृष्णेन तं भजे साधुसत्कृतिम् ॥१४७॥ज्येष्ठपुत्राय च दीलावरीराज्यं ददौ ततः ।स्वयं पत्नीदर्शयितुं ययौ धामाऽक्षरं प्रति ॥१४८॥धाम नीत्वा निजान् सर्वान् सर्वाश्च प्रमदास्तथा ।परे धाम्नि स्वीयमूर्तौ वासं दत्वा ह्यरक्षयत् ॥१४९॥कुंकुमवापिकाक्षेत्रमागत्य त्यागमाप्य यः ।साधुदीक्षां परिगृह्य वर्तते साक्षिगोचरः ॥१५०॥नमामि स्वामिने तस्मै श्रीकृष्णप्रभवे नमः ।अनादिश्रीकृष्णनारायणायनाय योगिने ॥१५१॥यः सदा श्रीहरिश्चास्ते सप्तायतनमूर्तिमान् ।लीना लक्ष्मीर्यदंगेऽहं वर्ते सामपरायणा ॥१५२॥प्रज्ञा लीना पाशवती लीना च स्वामिनि प्रभौ ।यल्लीलाः श्रेयसे सर्वा जीवानां कर्मदेहिनाम् ॥१५३॥तस्मै ते पतये चाप्यपतये प्रणमाम्यहम् ।सर्वदानीश्वरवर्योत्तमाय परमात्मने ॥१५४॥नमो विशिष्टरूपाय सर्वतीर्थातितीर्थिने ।तीर्थार्थं भगवन् स्वामिन् लोककल्याणहेतवे ॥१५५॥अभिलाषा जायते मे महात्मँस्तां प्रपूरयः ।असंख्यजन्मभिः कृष्णोद्धृतास्त्वया हि देहिनः ॥१५६॥धर्मवृद्धिः कृता सर्वा पुनश्चापि विभावय ।लक्ष्मीभक्ता बहवोऽत्र लोके भवन्ति तान् प्रभो ॥१५७॥साधुरूपेण निर्बन्धान् कृत्वा मोक्षय मच्छ्रितान् ।इत्यर्थयामि भगवन् विरमामि त्वयि प्रभो ॥१५८॥इत्युक्त्वा बद्रिके लक्ष्मीः स्वामिन्यन्तरधीयत ।लक्ष्मीस्तवं प्रभाषेत भावगर्भोऽपि यो जनः ॥१५९॥लक्ष्मीवच्छ्रीहरौ लीनस्थानमेष्यति शाश्वतम् ।नारी स्तवमधीयाना लक्ष्मीः स्यान्नात्र संशयः ॥१६०॥प्रिया लक्ष्मीः स्तवाज्जाता जाता लक्ष्मीश्च माधवी ।भुक्तिं मुक्तिं लभेत् स्तोत्राद् यथेष्टां पारमेश्वरीम् ॥१६१॥यत्कृष्णस्य समस्तं वै तत् तस्याः स्यात् समस्तकम् ।श्रीकृष्णार्पणदक्षायाः कार्ष्ण्याः श्रीबद्रिके स्वकम् ॥१६२॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्तानेऽनादिश्रीकृष्णनारायणपरमात्मनो वानप्रस्थधर्मोत्तरं साधुदीक्षाग्रहणं लक्ष्मीकृतस्तवनं लक्ष्मीप्रभृतीनां स्वस्वामिनि शाश्वती लीनतेत्यादिनिरूपणनामा विंशत्यधिकशततमोऽध्यायः ॥१२०॥ N/A References : N/A Last Updated : May 08, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP