संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ३६ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ३६ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ३६ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि रथ्यामार्जनिकाकथाम् ।आसीत् श्रीकरलाग्रामे नाम्ना कारेलिका सती ॥१॥जात्या शूद्री ग्रामरथ्यामार्जनादिक्रियापरा ।यत्पतिश्चापि कुरुते राजचत्वरमार्जनम् ॥२॥यत्पुत्राश्चाश्वपालित्वं कुर्वन्ति नृपतेः खलु ।राजा तद्ग्रामशास्ताऽपि नाम्नाऽऽसीद् विधमंकरः ॥३॥तस्य राज्ये सदा सायं कथां करोति भूसुरः ।लक्ष्मीनारायणसंहिताया नाम्ना हिताञ्जलिः ॥४॥तत्र गत्वा ग्रामजनाः सायं शृण्वन्ति तत्कथाः ।कारेलिकाऽपि च तस्याः पुत्राद्याश्च पतिस्तथा ॥५॥पुत्र्यश्चापि कथाः श्रेष्ठा नित्यं शृण्वन्ति सादराः ।श्रुतं कथायां मोहोऽस्ति जीवानां बन्धकृत् त्विति ॥६॥मोहरूपं स्थूला चास्मि नामजात्यादिशोभना ।रूपरंगगुणैराढ्या बाल्ययौवनगर्विता ॥७॥ममेदं बालबालाद्यं गृहं क्षेत्रं धनादिकम् ।एवं नैजास्मिताबुद्धिर्मोहस्तत्र श्रुतोऽनया ॥८॥तत्त्यागो मोहशून्यत्वं नाऽस्मि देहादिभिन्नता ।आत्मा ब्रह्मस्वरूपाऽस्मि ब्राह्म्यहं मोहवर्जिता ॥९॥न मे नेत्रे न मे कर्णौ रूपशब्दादयो न मे ।न मे नासा न मे त्वक् च गन्धस्पर्शादयो न मे ॥१०॥नाऽहं जिह्वा न वा वाङ् मे न मे वाणी न भोभवा ।नाऽहं हस्तौ च पादौ च नाऽऽदानं मे न वा गतिः ॥११॥नाऽहं योनिर्नवा शिश्नं न मे गेहो न तद्रतिः ।नाऽहं गुदा न मे प्राणादयो नापि विसर्जनम् ॥१२॥नाऽहं देहो न मे दैह्यं जाग्रत् स्वप्नं सुषुप्तकम् ।नाऽहं वर्ष्म न मे बाल्यं यौवनं वृद्धतादिकम् ॥१३॥नाहं नारी न पुमान् वा नपुंसकं न चास्म्यहम् ।न मे माया न मे सत्त्वं रजस्तमो न मे गुणाः ॥१४॥न मे दुःखं न मे चाद्यं न मे पुण्यं सुखं न च ।न मे कर्म न मे यत्नो न मे भोगो न मे कलिः ॥१५॥न मे क्षेत्रं गृहं स्वामी पत्नी पुत्राः सुता सुहृत् ।न मे धनं नैव लोकः कुटुम्बं मे न चापि वै ॥१६॥ततो मे सूतकं नापि न हर्षो रोदनं न मे ।सर्वं त्वज्ञानसक्लृप्तं ह्यात्माऽस्मि ज्ञानवानहम् ॥१७॥अहन्ता विमला मेऽस्ति ममता परमात्मनि ।यद्यदुक्तं समस्तं मे वर्तते श्रीपतौ हरौ ॥१८॥निर्गुणं चापि निर्बन्धं दिव्य मोक्षप्रदं सदा ।नैष्कर्म्यं सर्वथा कृष्णनारायणेऽस्ति मे शुभम् ॥१९॥भजनं भोजनं चापि भाजनं भगवान्मम ।बन्धो मोक्षो हरिर्मेऽस्ति भावनावासनाश्रयः ॥२०॥रतिर्विरामः कृष्णो मे महानन्दे हरौ मम ।तृप्तिर्मे सर्वदा कृष्णः शान्तिर्विश्रान्तिरच्युतः ॥२१॥गोचरो मे हरिश्चास्ति साक्षात् स्वप्ने सुषुप्तके ।अहंभावोऽन्तरे तस्मिन् कृष्णनारायणेऽस्ति मे ॥२२॥व्यवहारः स्फुरणं मे नित्ये श्रीपरमात्मनि ।निद्रा तुर्या मूर्छना मे प्रभौकान्तेऽन्तरात्मनि ॥२३॥एवं श्रुता कथा तेन बद्रिके संहितागता ।विचारिता तथा सा च निजात्मनि स्थिरीकृता ॥२४॥नित्यं पुत्रसुतास्वामिष्वपि तद्वत् कथाऽमृतम् ।पच्यते निशि मननात् सत्संगात् स्वगृहेऽनिशम् ॥२५॥तेन सर्वं कुटुम्बं वै मार्जयित्र्या विमोहकम् ।हर्षशोकविहीनं वै मायापाशविवर्जितम् ॥२६॥वर्तते श्रीकृष्णकान्तमहानन्दपरिप्लुतम् ।मोहो नास्ति न रागोऽस्ति नाऽविद्या द्वेषणं न च ॥२७॥न भयं विद्यते चापि नाऽऽत्मारामस्य बन्धनम् ।निर्मोहिनी ततो जाता सिद्धा कारेलिका भुवि ॥२८॥यथा माता तथा पुत्राः पुत्र्यः पतिस्तथाविधः ।निर्मोहि तत्कुटुम्बं वै कृष्णमोहनमात्रकम् ॥२९॥हिताञ्जलिमुनिर्नारायणं भजन् कथामृतम् ।पाययत्येव लोकांश्च मन्त्रान् ददाति मोक्षदान् ॥३०॥निर्मोहकारकं मुमुक्षुभ्यो देहिभ्य आदरात् ।'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ॥३१॥ 'कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ॥३२॥ 'शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा' ।'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ॥३३॥अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥३४॥पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।'ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ॥३५॥ 'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखभंक्त्र्यै श्रियै नमः' ।'कृष्णस्य वल्लभोक्तोऽहं श्रीहरिः शरणं मम' ॥३६॥ 'श्रीकृष्णोवल्लभश्चार्यः श्रीस्वामी शरणं मम' ।'श्रीकृष्णोवल्लभःस्वामी श्रीहरिः शरणं मम' ॥३७॥'प्रभुःकृष्णो मालतीनारायणः शरणं मम' ।हिताञ्जलिमुनिर्बद्रि मन्त्रानेवंविधान् बहून् ॥३८॥मुमुक्षुभ्योऽर्पयत्येव करोति बन्धवर्जितान् ।महाभागवतान् लोकान् कृत्वा ददाति मोक्षणम् ॥३९॥बहवो मोहशून्या वै भक्ता भागवता भुवि ।नरा नार्योऽभवँस्तस्य कथाभिश्च समागमैः ॥४०॥कारेलिका त्वात्मवेत्त्री मोक्षमार्गपरायणा ।कुटुम्बसहिता साध्वी मन्त्रान् जग्राह वैष्णवी ॥४१॥मोहशून्या हरिस्थैर्या श्रीकृष्णानन्दिनी सती ।अजायत महामुक्तानिका कृष्णपरायणा ॥४२॥यत्प्रसंगेनापि चान्याः स्त्रियो मुक्तिं प्रपेदिरे ।जन्तवश्चापि मार्जन्या यस्याः स्पर्शमुपागताः ॥४३॥सर्वे ते कर्मभिर्हीना भूत्वा प्रमोक्षणं गताः ।कृष्णकृष्णेतिकृष्णेति साध्वी सा भजते प्रभुम् ॥४४॥स्नात्वा सम्पूज्य राधेशं शृंगारभूषणादिभिः ।आरार्त्रिकं सुनैवेद्यं फलं ताम्बूलकं तथा ॥४५॥जलं पुष्पाञ्जलिं कृष्णकान्तायाऽऽर्प्य प्रसादिजम् ।भुंक्ते सा सकुटुम्बैव महाभागवती सती ॥४६॥मार्जने चापि रथ्यादौ वीक्ष्य जन्तून् ततस्तु सा ।श्रावयत्येव नामानि तेभ्यः कृष्णहरे प्रभो ॥४७॥अज्ञातमृत्युभावेऽपि जन्तूनां मोक्षणं भवेत् ।श्रूयते श्रीकृष्णनाम यत्र श्रीबद्रिके स्थले ॥४८॥तत्र दह्यन्ति कर्माणि याम्या दूता न यान्ति च ।वासनाश्च क्षयं यान्ति श्रोतारो यान्ति मोक्षणम् ॥४९॥निर्मोहिनां प्रसङ्गेन यान्ति निर्मोहतां जनाः ।पशवः पक्षिणश्चापि जन्तवः पादपा अपि ॥५०॥प्राणमात्रधराश्चापि निर्मोहतां व्रजन्ति वै ।का कथा वैष्णवीनां वै समागमे हि मोक्षणे ॥५१॥वैष्णवीनां बालका वै मुक्ता एव भवन्त्यपि ।वैष्णवीनां जलमन्नं गृहमम्बरमित्यपि ॥५२॥पावनं पापहं बद्रि जायते जीवमोक्षकृत् ।परोक्षेऽपि प्रसादश्चेद् वैष्णवीनां प्रलभ्यते ॥५३॥प्राणप्रयाणसमये याता मोक्षं प्रयाति हि ।वैष्णवीनां दर्शनं च स्पर्शनं च समागमः ॥५४॥स्रत्सङ्ग आशीर्वादाश्च भवन्ति मोक्षदाः सदा ।वैष्णव्यो यत्र वर्तन्ते भूमिः सा हरिमन्दिरम् ॥५५॥कुटुम्बं श्रीहरेस्तत्र बद्रिके तिष्ठते सदा ।वैष्णवी कमला राधा रमा लक्ष्मीश्च पार्वती ॥५६॥वैष्णवी ललिता वाणी प्रज्ञा श्रीर्माणिकी जया ।सन्तुष्टा वैष्णवी ब्राह्मी कृष्णा नारायणी मता ॥५७॥ताभिः सन्धार्यते कृष्णोवल्लभः प्राप्यते हरिः ।ताभिः संसेव्यते कृष्णस्ताभिः कृष्णैः प्रकाश्यते ॥५८॥कृष्णं विनाऽन्यत्र यासां मोहः प्रीतिः रतिर्न वै ।परब्रह्मनिवासो वै वैष्णव्यां श्रीस्थितिस्तथा ॥५९॥वैष्णवीनां हरौ नित्यं तादात्म्यं चापि तत्तथा ।अतो वै पावनी देवी वैष्णवी प्रमदा परा ॥६०॥कार्ष्णी सा बद्रिके नारायणी सा पुरुषोत्तमी ।वासुदेवी तथा बद्रीनारायणी हि सा मता ॥६१॥गङ्गा सा यमुना सरस्वती ब्रह्मह्रदात्मिका ।अश्वपट्टसरास्था च शाऽस्ति कुंकुमवापिका ॥६२॥वैष्णवी सर्वथा तीर्थोत्तमा सर्वविधारिणी ।सर्वपुण्यप्रदा मोक्षप्रदा मोहविखण्डिनी ॥६३॥एतादृशी मोहशून्या कारेलिकाऽभवत् सती ।सायं श्रीकृष्णशरणे कीर्तनं प्रकरोति सा ॥६४॥ततो वै शयनं याति क्रोडे कृत्वा नरायणम् ।प्रातश्चैवं हरिं स्मृत्वा भजते नित्यवत् सती ॥६५॥अथैकदा तु वै तस्याः पुत्र्यः पञ्चाऽतिशोभनाः ।मार्गशीर्षे क्षुद्रबद्रीफलान्याहर्तुमुत्सुकाः ॥६६॥सीम्नि क्षेत्रेषु विश्वेषु ययुर्वनेषु शाखिषु ।तत्रर्षिर्नामतो बद्रिकायनो बद्रिकातले ॥६७॥बद्रिकाषण्डमध्यस्थस्तापसः शशबिन्दुना ।महर्षिणा समं दृष्टः कन्याभिः पञ्चभिस्तदा ॥६८॥शशबिन्दुः कन्यकास्ता दृष्ट्वा क्षेत्रान्तरं ययौ ।ध्यानस्थस्तु ऋषिर्बद्रिकायनः प्रबुबोध ह ॥६९॥अपश्यत् कन्यकाः पञ्च बद्रीफलाभिचायने ।दत्तध्यानास्ततः सोऽपि पप्रच्छ यूयमत्र का ॥७०॥कथं सीम्नि बद्रिकाणां षण्डे भ्रमथ किंफलाः]कन्यकास्तु महाश्चर्यं दृष्ट्वा प्राप्ता मुनीश्वरम् ॥७१॥तापसं जटिलं सौम्यं शुष्कं दृष्ट्वा शनैर्मुनिम् ।नत्वा प्राहुर्वयं शूद्र्यो निर्मोहिवंशजाः सुताः ॥७२॥कारेलिकायाः पुत्र्यः स्मो नमस्ते भगवन्निह ।श्रुत्वेत्थं निर्मोहिजास्ताः परीक्षितुमियेष सः ॥७३॥रूपं त्विन्द्रसमं तूर्णं चकार कामगर्वहम् ।सूर्यवत् तैजसं स्वर्णसमं चक्षुर्मनोहरम् ॥७४॥चन्द्रवच्छीतलं लक्ष्मीकान्तवत् कान्तिसंभृतम् ।सर्वाभरणसौगन्ध्यशृंगारमन्मथान्वितम् ॥७५॥मोहनार्थं कन्यकानां चञ्चलेन्द्रियगर्भितम् ।मन्दसुगन्धशीतलानिलकृतातिमोदकृत् ॥७६॥षोडशोत्तरवर्षं वै पुष्टं वीर्यभृतं दृढम् ।मन्दहास्यमयं दृष्टिकटाक्षभावगर्भितम् ॥७७॥प्रेमवर्षान्वितनेत्रं चाह्वानौष्ठक्रियापरम् ।आकारयत् सर्वभावैरिङ्गितैरनिवर्तिभिः ॥७८॥रूपातिरूपसौन्दर्यमार्दवस्निग्धताभृतम् ।चमत्कृतिभृतं रम्यं नेत्रचित्तात्मवेशितम् ॥७९॥त्यजमानमपि त्यागं नैव प्राप्तं विलोकितम् ।कृष्णवत् सुन्दरं सर्वकामपूरमुपस्थितम् ॥८०॥एतादृशं परं रूपं दधार मुनिराट् स तु ।किन्तु ताः कन्यका मत्वा महापुरुषमुत्तमम् ॥८१॥सत्त्वभावनया मानदृष्ट्या चक्रुर्नतिं मुहुः ।पुत्तलं मायिकं मत्वा जहुदृष्टिं तु वैकृतिम् ॥८२॥न क्षोभं नापि चाञ्चल्यमवापुस्तत्र पुत्तले ।नवद्वारनरकाढ्ये नश्वरेऽशुचिसंग्रहे ॥८३॥स्वदेहवद् वर्तमाने गर्भविकृतिसंभृते ।अस्वे चात्मपृथग्भूते जडे कर्दमिते कृतौ ॥८४॥सर्वमलक्षरणाढ्ये दुर्गन्धे बहिरुज्ज्वले ।मोहमात्रां मनाक् तास्तु नाऽऽपुः सुन्दरदुर्भगे ॥८६॥तदा ताः कन्यकाः सर्वा निर्विकारा विलोक्य सः ।बद्रिकायनऋषिरुवाच मोहकृद्वचः ॥८६॥भवतीनां स्वागतं वै करोम्यत्र वनान्तरे ।युवतीनां कन्यकानाम् ऋषिश्चाहं प्ररक्षकः ॥८७॥समर्थोऽस्मि यावदर्थपूरणे सिद्धिमानिह ।अनन्यपूर्वाश्चेत् प्राप्तयौवना भवथ प्रियाः ॥८८॥मां संवृणुत सुन्दर्यो दैवात् प्राप्तं तु सुन्दरम् ।वरं त्वनन्यसदृशं स्वानुरूपं स्पृहायुतम् ॥८९॥इन्द्रश्चन्द्रो रविः शंभुः शिष्या मे सन्ति देवताः ।तं मां त्रिलोकनाथाभं पतिं वृणुत चार्थिनम् ॥९०॥श्रुत्वा ताः कन्यका बद्रि प्राहुर्मोहविवर्जिताः ।स्वागतं ब्रह्मणो विद्वन् सर्वान्तर्यामिणोऽस्तु वै ॥९१॥न स्वागतं तु नारीणां ऋषिकल्याणकृत् क्वचित् ।युवतीनां रक्षकोऽस्ति चान्तरात्मा जनार्दनः ॥९२॥योऽस्ति नित्यं वने त्वत्र ऋषेश्चापि प्ररक्षकः ।न देहे रक्षयितृत्वं रक्ष्ये भवति वास्तवम् ॥९३॥आवयोः सर्वथा साम्यं रक्ष्ये देहे न रक्षिता ।यावदर्थाः सकामानां सतृष्णानां प्रपूरणे ॥९४॥वाञ्च्छिताः संभवन्त्येव निष्कामानां निरर्थिता ।सामर्थ्यं सिद्धयश्चापि तुष्टिमतां तु देहिनाम् ॥९५॥मोहिनां संभवन्त्येव निर्मोहिनां न सिद्धयः ।अनन्यपूर्वो जीवात्मा शाश्वतः सर्वदा प्रियः ॥९६॥परमात्मा कृष्णनारायणः प्रियतमोऽस्ति नः ।आत्माऽऽत्मनां प्रियतमो न नारीवर्ष्म तत्तथा ॥९७॥दुर्गन्धं पौरुषं वर्ष्म नारीवर्ष्माऽपि तत्तथा ।किं प्रियत्वं तत्र चास्ते ह्यप्रिये रागवर्जिते ॥९८॥अशाश्वती प्रियता वै नश्वरा न हिताय सा ।इन्द्रवारुणिकायास्तु फलवद् वर्ष्म सुन्दरम् ॥९९॥बहिः रूपचमत्कारकरं मोहितचक्षुषाम ।अन्तर्नेत्रवतां दुष्टं सर्वथा मलसंभृतम् ॥१००॥सुन्दरी सुन्दरो वापि मलानां वाचकोऽस्ति सः ।कफपित्तादिधातूनां रागौ सौन्दर्यमत्र किम् ॥१०१॥यौवनं वारानाढ्यं वै निर्वासना तु वृद्धता ।शान्तिर्जीवनमुक्तिश्च ब्रह्मानन्दोऽतिमुक्तता ॥१०२॥वरो नारायणः कृष्णस्तदन्ये त्ववरा मताः ।स्पृहा यत्रास्ति किं तस्य वरत्वं निरयार्थिनः ॥१०३॥योनिलोभो हि नरकं मूत्राकांक्षा यमालयः ।स्वानुरूपा मतिस्तेऽत्र रजोकेदारके यदि ॥१०४॥तदा नरकवाञ्च्छा ते निवृत्ता नैव सर्वथा ।आर्षत्वं ते शोभते न यदात्मब्रह्मभावितम् ॥१०५।!तस्माद् याहि यथेष्टं त्वं महावनान्तरं त्वितः ।आशा हि नरकं प्रोक्तं तत्रापि स्त्री ततोऽधिकम् ॥१०६॥स्त्रीयोगी पुरुषस्तस्मादत्यधिको हि नारकी ।नरकाणां मोहकर्ता तेषु पातयिता तथा ॥१०७॥इति श्रीलक्ष्मीनारायणीयसंहिताया चतुर्थे तिष्यसन्ताने कारेलिकाभिधायाः शूद्र्याः कथाश्रवणेन निर्मोहित्वं तस्याः पञ्चपुत्रीणामपि निर्मोहित्वम्, हिताञ्जलि मुनिद्वारा प्राप्तबोधत्वम्, बद्रिकायनर्षिकृतं तासां परीक्षणं चेत्यादिनिरूपणनामा षट्त्रिंशोऽध्यायः ॥३६॥ N/A References : N/A Last Updated : May 06, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP