संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ७३ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ७३ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ७३ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रीप्रिये देवि बन्दिजनस्य पावनीम् ।कथां मोक्षकरीं कृष्णनारायणस्तवाऽन्विताम् ॥१॥द्वेषरागजयनाम्नि नगरे पावनः परः ।बन्दिजनोऽभवन्नाम्ना जयमानाभिधः सुखी ॥२॥कुटुम्बसहितस्तत्र वसमानश्च जीविकाम् ।बन्दिं सुवन्दनं राज्ञां कृत्वा निर्वहते सदा ॥३॥द्वेषरागजये ग्रामे राजाऽऽसीद् वज्रविक्रमः ।बन्दिप्रियो हि बहुधा दानप्रियस्तथोत्तमः ॥४॥नित्यं रात्रौ दिवा प्रातर्बन्दिस्त्रियश्च बन्दिनः ।वन्दनामिश्रिता गीतीर्गायन्ति तस्य सन्निधौ ॥१॥विष्णुतुल्यमिन्द्रतुल्यं रुद्रतुल्यं शशिप्रभम् ।रवितुल्यं चक्रवर्तितुल्यं मत्वा नराः स्त्रियः ॥६॥कल्पितास्तत्कथाः सर्वा गायन्ति सुप्रशंसिताः ।जयमानो वन्दकस्तु नूत्नं नित्यं प्रगायति ॥७॥प्रसन्नोऽस्य विशेषेण जायते वज्रविक्रमः ।पारितोषिकमस्मै स स्वर्णमुद्रां ददाति च ॥८॥जयमानो जयं दत्वा नत्वा तं नृपतिं गृहम् ।नित्यं प्रयाति मुदितः काव्यं नूत्नं करोति च ॥९॥द्वितीये च दिने प्रातर्गत्वा गायति सन्निधौ ।एवं सदा करोत्येव जीविकां लभते सदा ॥१०॥अथैकदा जयमानो ज्वरेणाऽतीव पीडितः ।शेके गन्तुं न भूपाऽग्रे भूपश्च विह्वलोऽभवत् ॥११॥प्रतीक्षमाणस्तं राजा न लेभे दर्शनं कवेः ।उत्थाय स ययौ पद्भ्यां जयमानस्य मन्दिरम् ॥१२॥जयमानश्चकाराऽस्य भूपस्य स्वागतादिकम् ।आसनं प्रददावुपाविवेश नृपतिः स च ॥१३॥पृष्ट्वा तु कुशलं वीक्ष्य ज्वरितं कविमुत्तमम् ।बन्दिनो ज्वरशान्त्यर्थं वैद्यमाहूय चौषधम् ॥१४॥कारयामास नृपतिस्तस्याऽग्रे त्ववसन्नृपः ।मुहूर्तान्ते ज्वरो नष्टो नीरुग्णो जयमानकः ॥१५॥नृपं बन्दिप्रियं तत्र ववन्दे तन्मनो विदन् ।'अहो राजन् यथार्थं वै भवतो नाम विद्यते ॥१६॥राजसे देववल्लोके रक्षसि द्युनिवासिवत् ।शोभसे कृष्णवद् विष्णुतुल्यो ददासि सम्पदः ॥१७॥दयां करोषि लक्ष्मीवन्निभालयसि ब्रह्मवत् ।आयासि मेघवद् राजन् शृणोषि परमात्मवत् ॥१८॥प्रेरयसि प्रभेशाभः प्रजां धरसि धर्मवत् ।सुधांशुवत् पोषयसि प्रकाशसे तु चन्द्रवत्। ॥१९॥सेवसे मातृवद् राजन् सुखाकरोषि रात्रिवत् ।पितृवत् पालयसि श्रीसमो भवसि भूतले ॥२०॥कुबेरोऽन्य इवाऽभासि धनदाता धनेश्वरः ।सुवर्णं स्रावयस्यत्र वह्निःतुल्यः प्रतापवान् ॥२१॥शासने धर्मराजाभो विभासि च दिशांपतिः ।यत्र राजन् विद्यसे तद्वनं प्रजायते दिवम् ॥२२।प्रजा स्वर्गायते चापि स्वर्गं तथेश्वरायते ।यत्र राजन् वर्तसे गोलोकायते तु तत्स्थलम् ॥२३॥सौधो वैकुण्ठायते स यत्र भ्रमसि भाग्यवान् ।यत्र वससि क्षणवत् स्थलं मोक्षायतेऽपि तत् ॥२४॥आज्ञापयसि क्ष्मेशाँश्च सुरेशानीश्वरानपि ।सर्वे वहन्ति सततं सभया भृत्यका इव ॥२५॥सर्वशास्त्राणि गायन्ति वज्रविक्रमसद्गुणान् ।श्रुतं राजन् मया त्वद्य शर्करानगरेऽधुना ॥२६॥लक्ष्मीनारायणसंहितायाः कथा प्रवर्तते ।यस्यां प्रवर्ण्यतेऽनादिकृष्णनारायणः प्रभुः ॥२७॥सर्वेश्वरेश्वरः स्वामीकृष्णनारायणो हि सः ।सर्वावतारधर्ता च सर्वब्रह्माण्डरक्षकः ॥२८॥सर्वराजाधिराजश्च सर्वलक्ष्मीरमापतिः ।सर्वमुक्तपतिः सर्वदैवतानां च दैवतम् ॥२९॥सर्वशक्तिपतिः सर्वसम्राड् ब्रह्माण्डधारकः ।सर्वविष्णुशिवपूज्यः सर्वब्रह्माभिवन्दितः ॥३०॥सर्वतीर्थनिवासश्च प्रज्ञापद्मावतीपतिः ।सर्वेशानः सर्वदेहिनियन्ता सर्वमोक्षदः ॥३१॥राधाजयापतिः कृष्णो बालकृष्णो हि गीयते ।राजन् यथा सार्वभौमो भगवान् स विराजते ॥३२॥तथा विराजते सार्वभौमोऽनन्यसमो भुवि ।अहो भाग्यं परं मन्ये कृष्णवन्नृपतिर्गृहे ॥३३॥अहो भाग्यं परं राजन् साधुवद् वर्तसे सदा ।मृषा मिथ्या वर्तसे न सत्यव्रतः प्रवर्तसे ॥३४॥सत्यं वदसि सत्यं च शृणोषि विन्दसे ऋतम् ।सत्यं ब्रह्म चिन्तयसि मोक्षे स्थितोऽसि सर्वथा ॥३५॥कालकवलतां प्राप्ताः पूर्वनृपतयोऽध्रुवाः ।न तथा भाससे राजन् कालपाशातिगो ह्यसि ॥३६॥मृत्युः सर्वेषु यश्चास्ते स नास्ति वज्रविक्रमे ।वार्धक्यं याम्यकष्टानि न सन्ति वज्रविक्रमे ॥३७॥अनादिश्रीकृष्णनारायणतुल्यो विभासि मे ।अहो कृष्ण अहो कृष्ण अहो कृष्ण हरे हरे ॥३८॥अहो राजन्नहो राजन्नहो राजन् हरे हरे ।कृष्णनारायण कृष्णनारायण नरायण ॥२९॥बालकृष्णाऽनादिकृष्णनारायण रमायण ।अहो राजन्नहो कृष्णनारायण रमापते ॥४०॥अहो विष्णो अहो श्रीमद्बालकृष्ण श्रियः पते ।अहो भाग्यं मम राजन् कृष्ण कृष्ण हरे हरे ॥४१॥अहो भाग्यं नृपतेश्च कृष्ण कृष्ण हरे हरे ।अहो स्वामिन्नहो स्वामिन्नारायण जगत्पते ॥४२॥अहो यामिन्नहो यामिन्नारायण प्रभोपते ।अहो कृष्णहरे स्वामिन् पद्मावतीसतीपते ॥४३॥अहोऽक्षरपते स्वामिन् बदरीसुगुणापते ।दुःखहाश्रीपते राधामंजुलीमाणिकीपते ॥४४॥मुक्तमुक्तानिकाहंसास्वामिन् जयादयापते ।जयाललिताकान्तश्रीसर्वधामपते पते ॥४५॥आत्ममोक्षपते लक्ष्मीसंहिताख्यकथापते ।मामुद्धर कृपासिन्धो वज्रविक्रममुद्धर ॥४६॥एवं ब्रह्मात्मभावेन जयमानस्तु वन्दकः ।तुष्टाव कंभरालालं गोपालतनुजं प्रभुम् ॥४७॥नृपतिं चापि तं कृष्णनारायणैक्यभावतः ।राजा कृष्णाभिधाः श्रुत्वा तूर्णं निष्कल्मषोऽभवत् ॥४८॥अज्ञानं विगतं राज्ञो मोहो नष्टोऽभवत्तदा ।नष्टो रागो निजश्लाघाविषयो विरमोऽभवत् ॥४९॥मिथ्याभिमाननाशेन प्रकाशोऽस्य व्यजायत ।कथायाः श्रवणेच्छा च दर्शनेच्छा हरेस्तथा ॥५०॥कालमृत्युजराव्याधिनाशेच्छा च व्यजायत ।वैराग्यश्चाऽभवत्तस्य नाशशीलाच्छरीरतः ॥५१॥विवेकं प्राप्तवान् राजा श्रुत्वा मृषाप्रशंसनम् ।अहोऽयं जायमानो मे कुरुते यत्प्रशंसनम् ॥५२॥तदंशोऽपि मयि नास्ति मयि शक्तिर्न विद्यते ।विद्यते नैव भक्तिश्च नारायणबलं न च ॥५३॥कालपाशस्य योग्योऽहं मरिष्यामि क्षणान्तरे ।कीटवद्वर्तमानोऽस्मि सृष्टौ मे गणनाऽस्ति न ॥९४॥नाऽहं मृत्युविहीनोऽस्मि कालस्य कवलोऽस्म्यपि ।मायायां वर्तमानोऽस्मि मोक्षे नैव स्थितोऽस्मि च ॥५५॥चिन्तयामि न चात्मानं न ब्रह्म न नरायणम् ।न पालयामि सत्यं च मिथ्यायां संरतोऽस्मि च ॥९६॥न वर्तेऽहं साधुवच्च कुतस्तरं तु कृष्णवत् ।खण्डराजोऽपि नैवाऽस्मि सार्वभौमः कुतस्तरः ॥५७॥नाऽऽज्ञायां मम देहोऽस्ति देवाद्यास्तु कुतस्तराः ।दुर्गुणोऽहं सदा चाऽस्मि सद्गुणस्तु कुतस्तरः ॥५८॥बालिशोऽहं प्रमूर्खोऽहं मृषाकीर्तिप्रियोऽस्म्यहम् ।मायाजाले विचित्तोऽहं प्रमत्तोन्मत्तवत्तथा ॥५५॥अहो नारायणः कृष्णः स्मर्यते न मया हरिः ।इच्छामि भवितुं नारायणतुल्यो मृषाश्रवः ॥६०॥पापं करोमि सततं पापात्मा कृष्णशत्रुवत् ।महापाप्यतिपापात्मा कारयामि प्रशंसनम् ॥६१॥नास्ति पूगीफलं हस्ते वाञ्च्छामि शेवधीशताम् ।निर्मलं हृदयं नास्ति समिच्छामि सुरेशताम् ॥३२॥मलिनं सर्वथा वर्ष्म मन्ये शिवाधिकं खलः ।कीदृशोऽहं पशुश्रेष्ठोऽधमो मिथ्याभिमानवान् ॥६३॥धन्योऽयं जयमानो हि भक्तोऽस्मि परमात्मनः ।मम मोक्षकरश्चास्मि गुरुश्चाप्यस्ति मेऽधुना ॥६४॥प्रशंसामिषतो येनाऽऽहितं ज्ञानं मयि ध्रुवम् ।विवेकश्चाहितस्तेन मृषागर्वविनाशकृत् ॥६५॥स्मारिता देवताः सर्वाः स्मारितः श्रीनरायणः ।स्मारिता श्रीसंहितायाः कथा पापविमोचिनी ॥६६॥अवश्यं पापनाशार्थं गच्छामि तत्कथास्थलम् ।पावनीं साधुतां लब्ध्वा करिष्ये भजनं हरेः ॥६७॥तरिष्यामि भवाब्धिं च करिष्ये स्वात्ममोक्षणम् ।मृषापापं क्षालयिष्ये ग्रहीष्ये सत्यवर्तनम् ॥६८॥नामश्रवणमात्रेण हृदयं पूततां गतम् ।तत्कथाश्रवणात् किं किं स्यान्मे श्रेय उत्तमम् ॥६९॥जयमानो जयत्वेव मे विवेकप्रदो गुरुः ।वन्दका वन्दिनः सन्तु तादृशा मोक्षदर्शकाः ॥७०॥अज्ञानहारका सन्तु न सन्तु शंखवादिनः ।मिथ्यागालफटा मा च सन्तु सन्तु ऋतंवदाः ॥७१॥विचार्येत्थं नृपः प्राह शिष्यवद् बन्दिनं गुरुम् ।अहो विवेकदानेन तारितोऽहं त्वया गृहे ॥७२॥प्रशंसा या त्वया प्रोक्ता श्रुता मयाऽतिरागिणा ।श्रुतोत्तरं मम नष्टो रागस्तृष्णा लयं गता ॥७३॥मृषा सत्यं च यत्तत्त्वं प्रकाशितं तु मे हृदि ।दासोऽस्मि ते गुरुस्त्वं च संसारोद्धारकृन्मम ॥७४॥वद मे क्व हरिस्त्वास्ते कृष्णनारायणः प्रभुः ।कथा क्व वर्तते लक्ष्मीनारायणीयसंभवा ॥७५॥श्रवणेच्छा वर्तते मे मृषपापं व्यपोहितुम् ।मोक्षेच्छा वर्तते बन्दिन् नय यत्र कथामृतम् ॥७६॥इत्येवं वदतस्तस्य नृपतेर्दर्शनं हरेः ।अजायत प्रकाशे स्वहृदये परमात्मनः ॥७७॥कृष्णनारायणस्तूर्णं प्रदर्श्य रूपमात्मनः ।तिरोभवद्धि हृद्ये वृत्तीराकर्षयन् द्रुतम् ॥७८॥मूर्तिदर्शनमात्रेण राजा परवशोऽभवत् ।ननर्त बहुधा तत्र देहभानविवर्जितः ॥७९॥अगायत हरिकृष्णकृष्णनारायणप्रभुम् ।सतालगालवाद्येन कृष्णकृष्ण हरे हरे ॥८०॥जयमानोऽपि तेनैव सार्धं संकीर्तनं व्यधात् ।प्रमोदसंभृतश्चापि राज्ञा सह ननर्त ह ॥८१॥अहो बद्रीप्रिये कृष्णनारायणस्य वै कृपा ।कथाकृष्णप्रशंसाभिः कृष्णश्चोपस्थितोऽभवत् ॥८२॥एवं मुहूर्तमात्रं तौ नृत्यं गीतं प्रचक्रतुः ।ततः शान्तौ सुखानन्दभृतौ विरेमतुः क्षणम् ॥८३॥परस्परं च कथयामासतुः पारमेश्वरम् ।दर्शनं च महानन्दं महासौभाग्यमात्मनोः ॥८४॥शुश्रुवुश्चाऽन्यमनुजा नरा नार्यस्तदा गृहे ।आयाता ये महाश्चर्यपरा द्रष्टं नृपं तदा ॥८५॥राजा बन्दी बन्दिपत्नी बन्दिपुत्रास्तथा स्त्रियः ।पुत्र्यश्च बान्धवाश्चापि शर्करानगरं प्रति ॥८६॥गन्तुं सज्जा बभूवुस्ते नृपो राज्ञी च तत्सुताः ।पुत्र्यो राज्ञ्यास्तथा लोकाः प्रजा नार्यो नरा अपि ॥८७॥सहस्रशो मानवास्ते शर्करानगरं प्रति ।गन्तुं सज्जा बभूवुश्चाऽमात्यप्रधानकर्मिणः ॥८८॥दास्यो दासाः कर्मचारा भटाः संरक्षकास्तथा ।गजवाहनसंयुक्ता अश्ववाराश्च निर्ययुः ॥८९॥बहुस्वर्णं धनं धान्यं पुष्कलं सह जगृहुः ।दानयोग्याऽम्बरपात्रभूषाकम्बलकानपि ॥९०॥सोत्सवा बहवो लोका हलहलेति वादिनः ।निर्ययुस्ते तीर्थयात्राकृते कथास्थलीं प्रति ॥९१॥भजनं चक्रिरे मार्गे महोद्यानमुपाययुः ।कथामण्डपसान्निध्ये सहस्रशस्तु ते जनाः ॥९२॥महोद्याने निवासांश्च यथायोग्यं प्रचक्रिरे ।स्नात्वा तीर्थजले देवान् प्रपूज्य मण्डपं प्रति ॥९३॥ययुस्ते पूजनं चक्रुः संहितायाः कथोत्तरे ।व्यासस्य पूजनं चक्रुर्लोमशस्य सतां तथा ॥९४॥आरार्त्रिकं प्रचक्रुश्चोपदा न्यधुः पुरस्तदा ।व्यासाद्याः स्वागतं चक्रुर्ददुः प्रसादभोजनम् ॥९५॥अथ राजादयः सर्वे ययुर्निवासमुत्सुकाः ।प्रातः सर्वे समागत्य व्यासात्तथैव लोमशात् ॥९६॥मन्त्रं धुन्यं स्रजं चैव जगृहुस्तौलसीं मुदा ।वैष्णवास्ते ततो जाताः पावनाः शरणागताः ॥९७॥शुश्रुवुस्ते कथां नित्यं पुपूजुर्व्यासमन्वहम् ।ऋषीन् साधून् सतीः साध्वीः सिषेविरे हरिं प्रभुम् ॥९८॥भेजिरे परमात्मानं बालकृष्णं नरायणम् ।कृष्णनारायण कृष्णनारायण नरायण ॥९९॥चक्रिरे सर्वदा धुन्यं प्रसादं च जलामृतम् ।सर्वे बुभुजिरे बालवृद्धयुवजनाः सदा ॥१००॥तेन जाताः पावनास्ते क्षपिताघौघसञ्चयाः ।सात्त्वताः परमास्तेषां मासान्ते कृष्ण आययौ ॥१०१॥प्रभुर्नारायणो दिव्यमूर्तिर्विमानमास्थितः ।सर्वेषां पश्यतां भूमाववाततार चाम्बरात् ॥१०२॥जलं चिक्षेप परितस्तेषामुपरि गोपजः ।सर्वे दिव्यदृशो जाता भालयामासुरच्युतम् ॥१०३॥उक्ता भगवता गन्तुं नृपाद्याश्चाऽक्षरं पदम् ।सहस्राधिजनाः सज्जा बभूवुर्गन्तुमक्षरम् ॥१०४॥दिव्यान् देहान् विधायैव नीत्वा विमानके च तान् ।शेषाँस्त्यक्त्वा कृष्णनारायणोऽक्षरं जगाम ह ॥१०९॥ज्येष्ठकृष्णस्य पञ्चम्यां निन्ये तानक्षरं हरिः ।महाश्चर्यमिदं जातं ख्यातं सर्वं व्यजायत ॥१०६॥बद्रिके शेषवर्गास्तु महाभागवतोत्तमाः ।कथां श्रुत्वा ययुर्नैजं द्वेषरागजयं पुरम् ॥१०७॥तेऽपि कालेन गोविन्दं भजित्वा चाऽक्षरं ययुः ।पठनाच्छ्रवणादस्य भुक्तिर्मुक्तिर्दिवं मिलेत् ॥१०८॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने जयमानाख्यबन्दिजनस्य स्तवनेन प्राप्तवैराग्यविवेकस्य वज्रविक्रमनृपतेस्तत्प्रजानां च कथाश्रवणादिभिर्मोक्षणमित्यादिनिरूपणनामा त्रिसप्ततितमोऽध्यायः ॥७३॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP