संस्कृत सूची|संस्कृत साहित्य|संहिता|लक्ष्मीनारायणसंहिता|तिष्यसन्तानः| अध्यायः ५७ तिष्यसन्तानः अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ विषयानुक्रमणिका तिष्यसन्तानः - अध्यायः ५७ लक्ष्मीनारायणसंहिता Tags : lakshminarayanlakshminarayan samhitasamhitaलक्ष्मीनारायणलक्ष्मीनारायण संहितासंहिता अध्यायः ५७ Translation - भाषांतर श्रीनरनारायण उवाच-शृणु बद्रिप्रिये देवि कथां षण्ढव्रजस्य तु ।षण्ढव्रजाभिधः षण्ढोऽभवच्छ्रीशर्करापुरे ॥१॥शतषण्ढगुरुः सोऽयं बहुचराप्तदीक्षणः ।नारीवेषधरो नैव स्त्रीलिङ्गो न पुल्लिङ्गकः ॥२॥कामधातुविहीनोऽपि वासनाकामसंभृतः ।वर्तते दीक्षितः षण्ढो षाण्ढीदीक्षान्वितः सदा ॥३॥भिक्षया जौवनं नैजं राजवृत्त्या तु सर्वथा ।तथाऽन्यक्लिष्टवृत्त्याऽपि निर्वहत्येव सर्वदा ॥४॥माहात्म्यं तैः श्रुतं तत्र कथाया मोक्षदं शुभम् ।जनेभ्यो मानवेभ्यश्च सर्वपापविनाशकम् ॥५॥पुनर्जन्माऽदर्शनं च कथाश्रवणतो भवेत् ।पूर्वपापानि सर्वाणि नश्यन्त्येव न संशयः ॥६॥भस्मीभवन्ति चान्यानि ह्येतज्जन्मार्जितान्यपि ।अपि मानवजन्मा यः कथां नैव शृणोति च ॥७॥आत्ममोक्षं नाऽऽर्जयति स षण्ढः पशुरेव सः ।अपि राजा धनी श्रेष्ठी प्रजापालः प्रजाग्रगः ॥८॥तथाप्यात्मकृते मोक्षं कुर्यान्न स तु गोखरः ।अपि षण्ढः पशुः पक्षी नारी प्रमत्त इत्यपि ॥९॥आत्मश्रेयःकरः श्रेष्ठः श्वपचोऽपि शठोऽपि च ।मोक्षः साध्यः परंश्रेयः पुरुषार्थः परः स वै ॥१०॥साधनेषु समस्तेषु सत्सु सत्सु स्थितेषु च ।मोक्षो न साधितो येन स कीटः सूकरोऽपि सः ॥११॥धर्मार्थकाममोक्षा वै पुरुषार्था भवन्ति हि ।धर्ममर्थं च कामं च प्रपाल्याऽपि यथोचितान् ॥१२॥अन्ते त्यक्त्वा बन्धकृतो मोक्षमिच्छन्ति मानवाः ।महर्षयः पूर्वजास्ते तथा कुर्वन्ति नान्यथा ॥१३॥अन्येऽपि चात्मवेत्तारः प्रवर्तन्ते क्रमात्तथा ।सन्यासिनस्तु ताँस्त्यक्त्वा मोक्षमिच्छन्ति साधवः ॥१४॥राजानोऽपि वनं प्राप्य कामं दग्ध्वा तपःपराः ।निष्कामाः सम्प्रजायन्ते मोक्षं प्रयान्ति वै ततः ॥१५॥धातुर्दोषमयश्चास्ते वासनानां प्रवर्तकः ।स चेन्नैव भवत्येव देहे सा तु कृपा प्रभोः ॥१६॥एवं मत्वा हरिं श्रित्वा साधुं नत्वा प्रमोक्षणम् ।प्रसेव्य सत्पुरुषाँश्च गुरुं भक्त्या प्रसाद्य च ॥१७॥अर्पयित्वा समस्तं स्वं चात्मानं गुरवेऽपि च ।कृत्वा मायापाशहीनं निर्मलं वासनोज्झितम् ॥१८॥दिव्यभावं दिव्यदृष्टिं दिव्यं कृत्वा समस्तकम् ।कृष्णविमानमारुह्य गन्तव्यं परमं पदम् ॥१९॥दासो भूत्वा हरेर्दासी वैकुण्ठे कृष्णवर्तिनी ।गोलोके चाऽमृते चाव्याकृते ब्रह्मनिवासने ॥२०॥श्रीपुरे भगवद्धाम्नि त्वास्वादयेद्धरेः रसम् ।अश्नुवीत सदा कृष्णनारायणप्रसादकम् ॥२१॥स एवं प्राप्तकैवल्यो नरो वा योषिदेव वा ।षण्ढो वा तिर्यगेवापि स एव पुरुषो मतः ॥२२॥पुरुषार्थो महान् मोक्षो यस्तेन प्रसाधितः ।अर्थवान् पुरुषो लोके पुरुषस्याऽर्थ इत्यपि ॥२३॥मिथो वै वर्तते संसर्गस्तयोः सार्थकः सदा ।एवं नैव विजानाति पुमर्थान्न तनोत्यपि ॥२४॥वृथा पुरुषगर्वाढ्यः षण्ढः स नैव संशयः ।षण्ढता सा सदा त्याज्या मायया निर्मिता पुरा ॥२५॥जीवानां मोक्षमार्गाद्वै पातिनी चात्मघातिनी ।सेव्याः सन्तः कथाः श्रव्याः प्राप्तव्यः श्रीपतीश्वरः ॥२६॥परिहार्यं पुनर्जन्म षण्ढाख्यं तरुषण्डवत् ।पुत्रपौत्रादिसम्पन्नो यदि मोक्षं प्रविन्दति ॥२७॥वृक्षषण्डस्वरूपः सः साण्डोऽपि षण्ढ एव सः ।विचार्येत्थं बद्रिके ते षण्ढा गुरुसमन्विताः ॥२८॥षण्ढव्रजं पुरस्कृत्य कल्याणार्थमुपस्थिताः ।आययुः श्रीकथास्थानं भक्तिभावसमन्विताः ॥२९॥उपदाश्च करे कृत्वा पूजोपसाधनान्यपि ।कृतस्नाना शुद्धिमन्तो भजन्तः कृष्णमुत्तमम् ॥३०॥कीर्तयन्तः स्वामिकृष्णमाधवीश्रीनरायण ।नारीश्वरनरावासबहुचराधिषायण ॥३१॥एवं सतालिकं गीतं गायन्तस्ते कथास्थलम् ।ययुः षण्ढाः समस्ता वै दूरान्नेमुर्हि मण्डपम् ॥३२॥वर्तुलं ते तदा क्लृप्त्वा रासलीलां प्रचक्रिरे ।रासं सतालकं सर्वे नारीवेषधरास्तथा ॥३३॥सकूर्दनं सगीतं च सभ्रमणं प्रचक्रिरे ।सवाद्यं सविलासं च सुनर्माख्यं प्रचक्रिरे ॥३४॥एकः कृष्णोऽभवन्मध्ये वंशीधरो नरायणः ।अन्याः सर्वा योषितश्च गोपिका रासमुत्तमम् ॥३५॥वर्तुलस्थाश्च खेलादि दर्शयन्त्यो व्यधुः शुभम् ।सभ्या रासं तु षण्ढानां वीक्ष्याऽऽश्चर्यं परं गताः ॥३६॥ऋषयो मुनयश्चापि प्रजा राजा नराः स्त्रियः ।प्रसन्नाश्चाऽभवँस्तत्र फाल्गुनस्य सिते दले ॥३७॥पूर्णिमायां तदा सायं कथान्ते सर्ववैष्णवाः ।प्रसन्नो लोमशो जातः स्वतःप्रकाशकोऽपि च ॥३८॥षण्ढास्ते लोमशं नत्वा नत्वा श्रीसंहितां तथा ।ब्रह्मप्रकाशं नत्वा च पूजां चक्रुस्तदोत्तमाम् ॥३९॥हारान् हैमान् रत्ननद्धान् शुभवेषान् ददुस्तदा ।स्वर्णरूप्यादिमुद्राश्च वस्त्रपात्रादि सन्ददुः ॥४०॥कुंकुमाक्षतपुष्पाद्यैः पुपूजुः संहितां तथा ।व्यासं च लोमशं चापि पुपूजुस्ते नपुंसकाः ॥४१॥आरार्त्रिकं प्रचक्रुश्च तालीवादनपूर्वकम् ।मृदंगकांस्यवाद्याढ्यं घुर्घुरानृत्यशोभितम् ॥४२॥नैवेद्यं च न्यधुः श्रेष्ठं पक्वान्नानि फलानि च ।ब्रह्मप्रकाशव्यासेन हरये तत्समर्पितम् ॥४३॥प्रसादश्च सलिलं च तथा ताम्बूलकान्यपि ।तेभ्यो भक्ष्यार्थमेवाऽपि दत्तानि पावनानि वै ॥४४॥ते षण्ढाः प्राप्य रसिकं प्रसादं च जलामृतम् ।फलं च भक्षयामासुः पपुः पादामृतं तथा ॥४५॥ततस्ते प्रार्थयामासुर्लोमशं पावनं मुनिम् ।षण्ढतापापनाशार्थं षण्ढताजन्मनुत्तये ॥४६॥षण्ढताया निवृत्त्यर्थं मोक्षार्थं शुद्धयेऽपि च ।ददौ तेभ्यो लोमशस्तु मन्त्रं च भजनं तथा ॥४७॥ 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।'कृष्णनारायण कृष्णनारायण नरायण ॥४८॥बालकृष्णाऽनादिकृष्णनारायण रमायण' ।लब्ध्वा मात्रं नामधुन्यं पावनास्ते तदाऽभवन् ॥४९॥न्यूषुस्तत्रैव ते रात्रौ रासगानं प्रचक्रिरे ।फाल्गुनस्याऽसिते चाद्यदिने पुष्पावदोलनम् ॥५०॥उत्सवं परमं चक्रुस्ते सर्वे तु कथोत्तरम् ।लक्षशो मानवाश्चापि पुष्पदोलामहोत्सवम् ॥॥५१॥प्रचक्रुः रंगनिक्षेपैः कृष्णं दोलास्थितं हरिम् ।स्नपयामासुरत्यर्थं रेमुश्च लक्षशो जनाः ॥५२॥नरा नार्यः पृथग्भूताश्चक्रुः रंगप्रखेलनम् ।एवं ते वैष्णवा बद्रि षण्ढा सर्वेऽभवँस्ततः ॥५३॥नित्यं कथां प्रशृण्वन्ति कीर्तयन्ति नरायणम् ।मन्त्रं जेपुश्च मालाभिः सेवन्ते च सतो जनान् ॥५४॥तीव्रसंवेगभक्तानां गोचरो भगवान् द्रुतम् ।जायतेऽथ तु षण्ढानां शीघ्रं प्रसन्नतां गतः ॥९५॥चैत्रे कृष्णे तु ते षण्ढा एकादश्या व्रतं व्यधुः ।चक्रुर्जागरणं सर्वे प्रातः स्नात्वा कथामृतम् ॥५६॥पपुस्ते नित्यवत् प्रातस्ततो मध्याह्नके तु ते ।भुक्त्वा सभास्थले गत्वा निषेदुः सुखितास्तदा ॥५७॥ध्यानं चक्रुर्हरेस्तत्र तावत् कृष्णनरायणः ।आययौ दिव्यरूपेण विमानस्थः प्रियेश्वरः ॥९८॥उवाच तान् यथेष्टं वै भवन्त्विष्टसुरूपिणः ।मुक्तरूपं तथा मुक्तानिकारूपं यथेष्टकम् ॥९९॥येषां यासां यदिष्टं तन्मदिच्छयाऽत्र जायताम् ।बद्रिके एवमुक्ते तु नारीषण्ढस्तु योऽभवत् ॥६०॥मुक्तानिकादिव्यरूपं प्राप्तवान् सर्वथा पृथक् ।नरषण्ढस्तु यस्तेषु स चाप्तो मुक्तरूपताम् ॥६१॥एवं दिव्यस्वरूपा वै मुक्ता मुक्तानिकाः शुभाः ।अभवँस्तत्र सहसा सर्वाभरणभूषिताः ॥६२॥ततस्तानवदत्तत्र षण्ढव्रजोऽग्रमानवान् ।भूत्वा दिव्यस्वरूपश्च बोधयामास मानवान् ॥६३॥षण्ढत्वं जायते नार्या विघ्नकर्त्र्या रतिक्षणे ।सपत्न्या विघ्नकर्त्र्याश्च दम्पत्योर्विघ्नयोषितः ॥६४॥स्वपत्युर्विघ्नकर्त्र्याश्च पशूनां पक्षिणां तथा ।युगलानां विघ्नकर्त्र्याः षण्ढात्वं समजायते ॥६१॥पतिं त्यक्त्वाऽन्यसक्तायाः षण्ढात्वं संप्रजायते ।रतिं चाऽसहमानाया विद्वेषिण्याः स्त्रियास्तथा ॥६६॥आभिचारिकवेत्र्याश्च भगबन्धकयोषितः ।लिंगापातनवेत्र्याश्च ऋतुभञ्जकयोषितः ॥६७॥षण्ढात्वं जायते तस्या जन्मान्तरे च जन्मनि ।नरस्यापि तथा तस्य पत्न्यकामप्रदस्य तु ॥६८॥वियोनिवर्तमानस्य परभार्यारतस्य च ।विघ्नकर्तुर्युगलयोः कन्यादिदूषकस्य च ॥६९॥अगम्यागमकस्यापि वृषणोच्छेदकस्य च ।लिंगादिनाशकस्यापि देहिनां पशुपक्षिणाम् ॥७०॥षण्ढत्वं जायते गर्भहन्तुर्धातुक्षयस्य च ।कुकर्मकारिणां प्रायः षंढत्वं जायते भुवि ॥७१॥महापापं हि तत्प्रोक्तं मानवे जन्मनि ह्यति ।पुंस्त्वस्त्रीत्वविहीनत्वं नरकस्यैव रूपणम् ॥७२॥तद्गतं कृपया चाद्य कथायाः श्रवणेन नः ।मुक्तात्वं चापि मुक्तत्वं लब्धमस्माभिरुत्तमम् ॥७३॥पतिर्लब्धः परब्रह्मनारायणः प्रियेश्वरः ।अमोघवीर्यो भगवान् ब्रह्मनन्दप्रदः प्रभुः ॥७४॥मा कुर्वन्तु स्त्रियो पुंसो लोकेऽत्र कामदूषणम् ।कामविघ्नकृतानां वै नरकं गोचरं त्विह ॥७५॥येषामुद्धरणं न स्याद् विना श्रीवल्लभंहरिम् ।तं भजन्तां महाभागा नरा नार्यो भयार्दिताः ॥७६॥स्वस्वकुकर्मजालानि स्मृत्वा स्मृत्वा नरायणम् ।यान्तु शरणं श्रीकृष्णं भवन्तु दिव्यविग्रहाः ॥७७॥शाश्वतानन्दमग्नाश्च प्रजायन्तां तदङ्कगाः ।वयं स्नात्वा तीर्थजले पीत्वा कथामृतं मुहुः ॥७८॥भुक्त्वा कृष्णप्रसादं च प्राप्य प्रसन्नतां गुरोः ।भक्त्या लब्ध्वा पतिं कृष्णं यामोऽक्षरं परं पदम् ॥७९॥भूत्वा दिव्यस्वरूपाः श्रीकृष्णयोग्याः सुखाश्रयाः ।शाश्वतानन्दसंमग्ना भवामो राधिकासमाः ॥८०॥इत्युक्त्वा बद्रिके सर्वे मुक्तरूपा नराः स्त्रियः ।कृष्णाज्ञया स्वर्णयाने निषेदुश्चाऽक्षरं ययुः ॥८१॥तेनैव खलु देहेन स्वेन स्वेन नपुंसकाः ।विवर्तमानकायास्ते मुक्ता दिव्यास्तदाऽभवन् ॥८२॥अभून्नैषां देहपातः कायाकल्पो व्यजायत् ।श्रीकृष्णस्पर्शनेनैव मुक्ता जाता नपुंसकाः ॥८३॥सर्वे षोडशवर्षा वै नरा नार्यः सुतैजसाः ।मुक्ता मुक्तानिकाः सर्वे कृष्णराधारमासमाः ॥८४॥अन्यथाकर्तुरीशेशेशस्य नारायणस्य तत् ।सामर्थ्यं चाऽप्रतिहतं प्राकाम्यं प्रकटीभवत् ॥८५॥व्यराजत मनुष्याणां हृदये तु कृतास्पदम् ।चमत्कारो महानेषः कथायां कृष्णदर्शितः ॥८६॥जडं सचेतनं कुर्याद् विदध्याच्चेतनं जडम् ।नारीं नरं विदध्यात् स नरं नारीं विधापयेत् ॥८७॥नरं स्त्रियं च वा कुर्यादुभयं तु नपुंसकम् ।नपुंसकं विदध्याद्वा नरं नारीं च पार्षदम् ॥८८॥मुक्तं मुक्तानिकां वापि जडं दिव्यं विधापयेत् ।मायां कुर्यादक्षरं सोऽक्षरं कुर्यात्तु प्रकृतिम् ॥८९॥कुर्यात्तत्त्वान्यतत्त्वानि शून्यं तत्त्वात्मकं क्रियात् ।तत्त्वात् तत्त्वान्तरं कुर्यादेतास्तु शक्तयो हरेः ॥९०॥अनन्तशक्तियुक्तस्य विमानं दुर्गमं सदा ।आश्चर्यं तत्र नास्त्येव सर्वं यदात्मकं यतः ॥९१॥बद्रिके च ततः श्रुत्वा षण्ढानां दिव्यदेहताम् ।गुप्तषण्ढाः स्त्रियश्चापि गुप्तषण्ढा नरा अपि ॥९२॥संहितायाः स्थलं गत्वा शरणागतिमाप्नुवन् ।मन्त्रं च भजनं धुन्यं लोमशाज्जगृहुर्मुदा ॥९३॥पक्षं पक्षं च ते कृत्वा भजनं श्रवणं तथा ।ध्यानं सेवां पूजनं च प्रसादभोजनाशनम् ॥९४॥भूत्वा पापविहीनाश्च शुद्धात्मानो वृषान्विताः ।सुपुण्याढ्यागुप्तप्राप्तेन्द्रियास्ते तास्ततोऽभवन् ॥९५॥केचन श्रीहरिं ध्यात्वा मुक्ता भूत्वाऽक्षरं ययुः ।एवं षण्ढाः कृष्णनारायणस्य कृपया क्षितौ ॥९६॥सत्यनराः सत्यनार्यः सत्यमुक्तास्तथाऽभवन् ।सत्यमुक्तानिकाश्चाप्यभवन् शाश्वतविग्रहाः ॥९७॥अहो किमत्र दुष्प्रापं यत्र कृष्णकृपालवः ।अहो कथाया माहात्म्यं बद्रिके पारमेश्वरम् ॥९८॥सर्वं निष्पापतां प्राप्तं यथा मोक्षात्मकं जगत् ।सर्वे विदेहमुक्ता वा जीवन्मुक्तास्तथाऽथवा ॥९९॥शर्करापत्तने जाताः श्रीसंहिताकथाश्रवात् ।पठनाच्छ्रवणादस्य भुक्तिमुक्तिः करे भवेत् ॥१००॥इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने शर्करापुरवासिनां षण्ढव्रजादिषण्ढानां संहिताश्रवणेन पापनिर्मुक्तिः, श्रीकृष्णनारायणदर्शनेन तैरेव देहैर्दिव्यमुक्तानिकात्मकैरक्षरपदस्य प्राप्तिश्च, तथाऽन्यगुप्तनपुंसकानां शरणागत्या पुंस्त्वस्त्रीत्वाद्यभिव्यञ्जकता, चेत्यादिनिरूपणनामा सप्तपञ्चाशत्तमोऽध्यायः ॥५७॥ N/A References : N/A Last Updated : May 07, 2021 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP