संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः| अध्यायः ३५५ तृतीय खण्डः अध्यायः ००१ अध्यायः ००२ अध्यायः ००३ अध्यायः ००४ अध्यायः ००५ अध्यायः ००६ अध्यायः ००७ अध्यायः ००८ अध्यायः ००९ अध्यायः ०१० अध्यायः ०११ अध्यायः ०१२ अध्यायः ०१३ अध्यायः ०१४ अध्यायः ०१५ अध्यायः ०१६ अध्यायः ०१७ अध्यायः ०१८ अध्यायः ०१९ अध्यायः ०२० अध्यायः ०२१ अध्यायः ०२२ अध्यायः ०२३ अध्यायः ०२४ अध्यायः ०२५ अध्यायः ०२६ अध्यायः ०२७ अध्यायः ०२८ अध्यायः ०२९ अध्यायः ०३० अध्यायः ०३१ अध्यायः ०३२ अध्यायः ०३३ अध्यायः ०३४ अध्यायः ०३५ अध्यायः ०३६ अध्यायः ०३७ अध्यायः ०३८ अध्यायः ०३९ अध्यायः ०४० अध्यायः ०४१ अध्यायः ०४२ अध्यायः ०४३ अध्यायः ०४४ अध्यायः ०४५ अध्यायः ०४६ अध्यायः ०४७ अध्यायः ०४८ अध्यायः ०४९ अध्यायः ०५० अध्यायः ०५१ अध्यायः ०५२ अध्यायः ०५३ अध्यायः ०५४ अध्यायः ०५५ अध्यायः ०५६ अध्यायः ०५७ अध्यायः ०५८ अध्यायः ०५९ अध्यायः ०६० अध्यायः ०६१ अध्यायः ०६२ अध्यायः ०६३ अध्यायः ०६४ अध्यायः ०६५ अध्यायः ०६६ अध्यायः ०६७ अध्यायः ०६८ अध्यायः ०६९ अध्यायः ०७० अध्यायः ०७१ अध्यायः ०७२ अध्यायः ०७३ अध्यायः ०७४ अध्यायः ०७५ अध्यायः ०७६ अध्यायः ०७७ अध्यायः ०७८ अध्यायः ०७९ अध्यायः ०८० अध्यायः ०८१ अध्यायः ०८२ अध्यायः ०८३ अध्यायः ०८४ अध्यायः ०८५ अध्यायः ०८६ अध्यायः ०८७ अध्यायः ०८८ अध्यायः ०८९ अध्यायः ०९० अध्यायः ०९१ अध्यायः ०९२ अध्यायः ०९३ अध्यायः ०९४ अध्यायः ०९५ अध्यायः ०९६ अध्यायः ०९७ अध्यायः ०९८ अध्यायः ०९९ अध्यायः १०० अध्यायः १०१ अध्याय १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६७ अध्यायः १६८ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ अध्यायः २४७ अध्यायः २४८ अध्यायः २४९ अध्यायः २५० अध्यायः २५१ अध्यायः २५२ अध्यायः २५३ अध्यायः २५४ अध्यायः २५५ अध्यायः २५६ अध्यायः २५७ अध्यायः २५८ अध्यायः २५९ अध्यायः २६० अध्यायः २६१ अध्यायः २६२ अध्यायः २६३ अध्यायः २६४ अध्यायः २६५ अध्यायः २६६ अध्यायः २६७ अध्यायः २६८ अध्यायः २६९ अध्यायः २७० अध्यायः २७१ अध्यायः २७२ अध्यायः २७३ अध्यायः २७४ अध्यायः २७५ अध्यायः २७६ अध्यायः २७७ अध्यायः २७८ अध्यायः २७९ अध्यायः २८० अध्यायः २८१ अध्यायः २८२ अध्यायः २८३ अध्यायः २८४ अध्यायः २८५ अध्यायः २८६ अध्यायः २८७ अध्यायः २८८ अध्यायः २८९ अध्यायः २९० अध्यायः २९१ अध्यायः २९२ अध्यायः २९३ अध्यायः २९४ अध्यायः २९५ अध्यायः २९६ अध्यायः २९७ अध्यायः २९८ अध्यायः २९९ अध्यायः ३०० अध्यायः ३०१ अध्यायः ३०२ अध्यायः ३०३ अध्यायः ३०४ अध्यायः ३०५ अध्यायः ३०६ अध्यायः ३०७ अध्यायः ३०८ अध्यायः ३०९ अध्यायः ३१० अध्यायः ३११ अध्यायः ३१२ अध्यायः ३१३ अध्यायः ३१४ अध्यायः ३१५ अध्यायः ३१६ अध्यायः ३१७ अध्यायः ३१८ अध्यायः ३१९ अध्यायः ३२० अध्यायः ३२१ अध्यायः ३२२ अध्यायः ३२३ अध्यायः ३२४ अध्यायः ३२५ अध्यायः ३२६ अध्यायः ३२७ अध्यायः ३२८ अध्यायः ३२९ अध्यायः ३३० अध्यायः ३३१ अध्यायः ३३२ अध्यायः ३३३ अध्यायः ३३४ अध्यायः ३३५ अध्यायः ३३६ अध्यायः ३३७ अध्यायः ३३८ अध्यायः ३३९ अध्यायः ३४० अध्यायः ३४१ अध्यायः ३४२ अध्यायः ३४३ अध्यायः ३४४ अध्यायः ३४५ अध्यायः ३४६ अध्यायः ३४७ अध्यायः ३४८ अध्यायः ३४९ अध्यायः ३५० अध्यायः ३५१ अध्यायः ३५२ अध्यायः ३५३ अध्यायः ३५४ अध्यायः ३५५ खण्डः ३ - अध्यायः ३५५ विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.अधिक माहितीसाठी प्रस्तावना पहा. Tags : puransanskritvishnuvishnudharmottar puranपुराणविष्णुविष्णुधर्मोत्तर पुराणसंस्कृत अध्यायः ३५५ Translation - भाषांतर ॥वज्र उवाच॥सात्त्वतेन स्तुतो येन स्तोत्रेण मधुसूदनः॥तन्मे स्तोत्रं समाचक्ष्व सर्वकल्मषनाशनम् ॥१॥मार्कण्डेय उवाच॥शृणु स्तोत्रमिदं वज्र लिङ्गास्फोटमिति श्रुतम्॥सर्वपापप्रशमनं माङ्गल्यं श्रीविवर्धनम् ॥२॥ॐ नमो भगवते वासुदेवाय नमो नरसिंहायादिदेवाय सर्वलोकपरमाय नारायणाय नित्यसन्निहितसंप्राप्यशक्तिबलवीर्यतेजोविभवाय महारजतपर्वतप्रकाशवपुषे बृहत्केसरसटाय शिवप्रदेशाभ्यु न्नतताम्ररुचितविस्फूर्जितप्रभाहेमवर्णाय प्रपन्नजनबाधापनयननिमित्तोत्पन्नभ्रुकुटिकुटिलललाटाय शतह्रदावर्तदीप्तविक्षिप्यमाणेषुगलाय ज्वलदनललोलपिङ्गवृत्तदीप्ताक्षाय स्फुटचिपिटधमनीसहपुरविभीषणप्राणवशाय स्फुरत्पूर्णोभयकपोलदेशपार्श्वाय वालचन्द्राकारोष्ठपुट विनिर्गतभ्राजमानातितीक्ष्णसितमहोग्रदंष्ट्रसर्वास्यावसमागमक्षोभाशनिसहस्रावपातांबुदव्रातगर्जितातिभीमनिनादाय मुहुमुहुर्व्याप्तभीमार्धवद नदेशदृश्यमानशुद्धिशिखरदशनपंक्तिताराविभास्वरसन्ध्यानुरञ्जितनभस्थलप्रकाशवपुषे तालुलोलजिह्वालताग्रस्थिरसमायुक्तचित्तभवांसकू-टस्कन्दमध्यदेशसुप्रतिष्ठितपीनवृत्तचारुकम्बुग्रीवाय श्रीवत्सांकितालङ्कृतमहावक्षस्थलाय विविधरुचिरपरमसुगन्धिमुक्तकपुष्पग्रथितप्रलम्बमालाधराय मरुतादित्यप्रचारबलानुविजयोन्नताभ्युन्नतबाहुप्रकोष्ठकरतलकरजोग्रघोरप्रहरणाय हिरण्यकशिपुरुधिरपानसुतीक्ष्णवज्रायुधाय परम पीतकौशेयवस्त्रबद्धकक्ष्यापरिकराय वज्रसंहतोन्नतसुचिरसुश्लिष्टसन्धिकट्यूरुजानुमहापुरुषनरसिंहादिदेवाय स्थिरसायुंक्तेभक्तोचितप्रसृततन्वाकारगूढगुल्फसन्धिमहाबाहुवेगमहाजवाय चरणविक्रमप्रभावप्रकंप्यमानपृथिवीतलाय श्रीवृक्षशंखचक्रगदासनंद्यावर्तध्वजांकुशधरातपत्त्रादर्शक मत्स्यकूर्मवीचीयूपचन्द्रार्कवृषभाश्वगजरथपरमपुरुषपरममङ्गल्यरोमकूटच्छायाय तनुमहेन्द्रवसुरुद्रादित्यसाध्याश्विमरुद्गणसंस्तुताचिन्त्यार्चिताभिमु खप्रसन्नचरणाय भगवन्नमस्ते त्वमागच्छागच्छ भगवन्नात्मबलवीर्यतेजोगुणात्मविक्रमसांख्ययोगाध्यात्मपवित्रशौचधर्ममाहात्म्यान्विताविर्मावितोत्ति ष्ठ परमदेव सर्वगात्राण्यभिधुन्वन्सर्वपापान्यपमृज्य विप्रनाशाविष्टानां विप्रनाशाय विद्यानां परमपुरुष परममाङ्गल्य भक्तवत्सल भक्तानुग्रहायाभयंप्रदाय तद्ब्रह्मसत्यमनाद्यमनुत्तमं निःश्रेयसं तद्भगवानाचष्टां तद्भगवान्विदतां निरस्य पाप्मानं निरस्य कल्मषं शश्वच्छान्तिमुपनय श्रेय उपनय स्वस्तिमुपनय आशिषमुपनय ब्रह्म प्रपद्ये त्वां विष्णो भगवन्पुण्डरीकाक्ष ज्ञानैश्वर्यशक्तिबलतेजोगुणात्मक परमपुरुष परममङ्गल्य पद्मनाभ हयशिरः आदिवराह नरसिंह वामन त्रिविक्रम राम राम वासुदेव सङ्कर्षण प्रद्युम्नानिरुद्ध पुरुष सत्याश्रुत वासुदेव आदिमध्यनिधनकचेष्टित चेष्टात्ममायाहोरात्रयतिमाञ्जिष्ठशुक्लवासः सुपर्ण तालमकरध्वजपरमविद्याकर्मकालनाभ स्वस्त्यस्मभ्यं स्वस्ति प्रजाभ्यः॥त्वमेव मंत्रं त्वं रक्षा त्वमौषधमनुत्तमम्॥त्रिविधादपि दुःखान्मा प्रचोदय जगत्पते ॥१॥ब्रह्मन्प्रपद्ये त्वां विष्णो शरणागतवत्सल॥तदा शुद्धो महामतिर्भवदुःखविनिर्गतः ॥२॥इत्युक्तः स च राजेन्द्र ऋषिणा दिव्यचक्षुषा॥नमस्कृत्य ऋषेः पादौ सगणः सह राजभिः॥प्रदक्षिणमुपाकृत्य प्रविवेश पुरं स्वकम् ॥३॥ऋषयस्तेऽप्यनुज्ञाता मार्कण्डेयेन धीमता॥नमस्कृत्य हरिं देवं स्वाश्रमं जग्मिरे तदा ॥४॥राजापि वज्रो धर्मात्मा मार्कण्डेयेन भाषितम्॥पुराणं चिन्तयन्नित्यं नारायणपरायणः॥राज्यं च प्राशिषन्नित्यं प्रजा धर्मेण पालयन् ॥५॥इति श्रीविष्णुमहापुराणे द्वितीयभागे श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे श्रीनरसिंहस्तोत्रवर्णनं नाम पञ्चपञ्चाशदुत्तरत्रिशततमोऽध्यायः ॥३५५॥इति श्रीविष्णुधर्मोत्तरं समाप्तम् ॥समाप्तं चेदं विष्णुमहापुराणम॥ N/A References : N/A Last Updated : January 29, 2023 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP