संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३३१

खण्डः ३ - अध्यायः ३३१

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उपाच॥
उत्तमर्णाय दातव्यमधमर्णेन याचितम्॥
ब्राह्मणेन्द्रा धनं सर्वं निह्नवे तच्च भावितम् ॥१॥
सर्वोपायैर्धनी वित्तमृणिकादाप्नुयात्स्वकम्॥
न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् ॥२॥
अर्थनिह्नवमानं तु भावनाभिर्विभावितम्॥
दापयेद्धनिकस्यार्थं राज्ञो दण्डं च तत्समम् ॥३॥
मिथ्याभियोगे द्विगुणमिति योगाद्धनं हरेत्॥
भागं विंशतिमन्दद्यात्प्राप्तार्थो धनिको नृपे ॥४॥
यदि राजबलेनासौ तद्धि तस्मादवाप्नुयात्॥
द्विकं त्रिकं चतुष्कं च पञ्चकं च तथा शतम् ॥५॥
वर्णानुक्रमतो वृद्धिः प्रतिमासं प्रकीर्तिता॥
स्वयं कृतां तथा वृद्धिं सर्वे सर्वासु योनिषु ॥६॥
दातुमर्हति विप्रेन्द्रा इति मे निश्चिता मतिः॥
न क्वचित्प्रीतिदत्तानां वृद्धिः संवत्सरं भवेत् ॥७॥
तेषामपि भवेद्वृद्धिर्गते संवत्सरे तथा॥
सा च वृद्धिर्यथोक्ता वै वर्णानामनुपूर्वशः ॥८॥
तथाविधा ग्रहीतव्या नान्यथेति हि निश्चयः॥
आधिभुग्दीयते वृद्धिं नष्टामाधिं च दापयेत् ॥९॥
दैवराजकृतं दोषं विना ब्राह्मणसत्तमाः॥
अन्त्यवृद्धौ प्रविष्टायां चार्तौ त्यागो विधीयते ॥१०॥
भोज्यस्याधेः परित्यागः प्रविष्टे तु धने भवेत्॥
भोगस्य गणना कार्या न तत्र वचनादृते ॥११॥
धनिनोर्थं न हीयेत आधौ प्राणयुते मृते॥
हेतुभूतस्तु मरणे न चेत्स्यादुत्तमर्णिकः ॥१२॥
आधौ विवदमानानां भुक्ता जीवन्ति चापराः॥
अन्यस्याधीकृतां भूमिं यश्चान्यस्य प्रयच्छति ॥१३॥
स्वयमेव नरेन्द्रस्तं घातयेदविचारयन्॥
द्रव्येष्वेवमथान्येषु दण्डः स्याद्द्विगुणं भवेत् ॥१४॥
आधौ समुद्रे नष्टे तु मुद्रा यत्र न दृश्यते॥
न तत्र हीयते वित्तं धनिकस्य कथञ्चन ॥१५॥
अन्यथा तु तथा नष्टे धनिकस्यैव हीयते॥
अन्त्या वृद्धिर्हिरण्यस्य द्विगुणा परिकीर्तिता ॥१६॥
वस्त्रस्य त्रिगुणा प्रोक्ता धान्यस्य तु चतुर्गुणा॥
रसस्याष्टगुणा वृद्धिः स्त्रीपशूनां च सन्ततिः ॥१७॥
स्त्रीपशूनामृते वृद्धिः पशूनां चैव विद्यते॥
उरभ्राणां भवेद्वृद्धिः सति पुंस्त्वे हि वै द्विजाः ॥१८॥
ऊर्णावृद्धिर्भवेत्तेषां वर्षाणि द्वादशैव तु॥
द्रव्याणामप्यनुक्तानां वृद्धिर्ज्ञेया चतुर्गुणा ॥१९॥
दीयमानप्रयुक्तं तु पुरुषस्याप्रगृह्णतः॥
ततः परं न वृद्धिः स्यात्कथंचिद्द्विजसत्तमाः ॥२०॥
स्वमर्थं यो न गृह्णाति दीयमानं पुनःपुनः॥
तस्मात्स हीयते विप्रा दाता तत्रानृणो भवेत् ॥२१॥
पिता प्रवसितो यस्य ब्राह्मणा द्विदशाः समाः॥
ऋणं तस्य सुतैर्देयं मृतस्य यदि वा पुनः ॥२२॥
पैतृकं तु ऋणं पुत्रः पौत्रो वा दातुमर्हति॥
न कामस्तच्चतुर्थं तु दातुमर्हति कर्हिचित् ॥२३॥
रिक्थग्राही तथा पुत्रः स्त्रीग्राही धनदासिकः॥
पुत्रे स्थितेपि दातव्यमृणं वै धनहारिणाम ॥२४॥
रिक्थग्राही सुताभावे स्त्रीग्राही दातुमर्हति॥
स्वयं दातुमशक्तो यः कर्तुमिच्छेत्पुनः क्रियाम् ॥२५॥
स दत्त्वा निर्जितां वृद्धिं कारयेत्परिवर्त्तयेत्॥
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयन् ॥२६॥
यावती संभवेद्वृद्धिस्तावतीं दातुमर्हति॥
प्रातिभाव्ये वृथा दानं द्यूतमध्ययनं च यत् ॥२७॥
दण्डशुल्कावशेषं तु न पुत्रो दातुमर्हति॥
दर्शने प्रत्यये दाने प्रातिभाव्यं त्रिधा स्मृतम् ॥२८॥
आदौ तु वितथे दद्यादितरस्य सुतावपि॥
दर्शने प्रतिभूर्यत्र मृतः प्रात्ययिकोऽपि वा ॥२९॥
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय ये स्थिताः॥
प्रकाशं प्रतिभूर्यत्र दापितो धनिनां धनम्॥
सोयं तस्य तु तद्द्रव्यमृणिको दातुमर्हति ॥३०॥
वर्णत्रयं विप्रवरा ऋणार्थं क्षीणे विशुद्धाविह कर्म कार्यम्॥
क्षीणोग्रजं सा तु यथोदयं तद्दाप्यो न कर्माहरणे तदर्थम् ॥३१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु ऋणदानवर्णनो नामैकत्रिंशदधिकत्रिशततमोऽध्यायः ॥३३१॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP