संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३४५

खण्डः ३ - अध्यायः ३४५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥वज्र उवाच ॥
प्रसादं परमं तस्य केशवस्य महात्मनः॥
ब्रूहि भक्तजने मह्यं देवदेवस्य चक्रिणः ॥१॥
न हि तृप्याम्यहं तस्य शृण्वानः श्रवणामृतम्॥
हस्तत्राणप्रदो लोके य एकः पततां नृणाम् ॥२॥
 ॥मार्कण्डेय उवाच ॥
देवाश्च ऋषयश्चैव विवदन्तः पुरानघ॥
बीजैर्यष्टव्यमित्येतत्त्रिवर्षपरमोषितैः ॥३॥
अजसंज्ञानि बीजानि छागं घ्नन्तुमथार्हसि॥
पक्षोऽयमासीद्धर्मज्ञ ऋषीणां भावितात्मनाम् ॥४॥
देवानां तु पशुः पक्षस्ततो मार्गागतोभवत्॥
राजोपरिचरो नाम वसुर्वसुमतां वरः ॥५॥
देवाश्च ऋषयश्चैव पपृच्छन्तस्तदा वसुम्॥
यथोपनीतैर्यष्टव्यमित्युक्तं वसुना पुरा ॥६॥
गतेनानृतवाक्येन राजा हिंसाप्रवर्तिना॥
नित्यमाकाशगो भूत्वा भूमेर्विवरगोभवत् ॥७॥
भूमेर्विवरगस्याथ देवपक्षार्थवादिनः॥
निधनार्थं मतिं चक्रुर्देवभक्तस्य दानवाः ॥८॥
तेषां चिकीर्षितं श्रुत्वा देवाः शीघ्रपराक्रमाः॥
न्यवेदयँस्तथा चक्रं देवाचार्ये बृहस्पतौ ॥९॥
बृहस्पतिस्ततो गत्वा भूमेर्विवरगं नृपम्॥
रक्षामध्यापयामास वैष्णवीमपराजिताम् ॥१०॥
भूतभव्यभविष्याणां कर्मणामनु कीर्तनैः॥
निर्मिता ब्रह्मणा विद्या सर्वबाधाक्षयङ्करी॥
अध्याप्य तं च राजानमिदमाह बृहस्पतिः ॥११॥
बृहस्पतिरुवाच॥
इहस्थो भोक्ष्यसे राजन्वसोर्धारां हुतां द्विजैः॥
देवतानां प्रसादेन तया चाप्यायितः सदा ॥१२॥
विद्यया चानया राजन्नवध्यस्त्वं भविष्यसि॥
भूमेर्विवरसंस्थोऽपि दैत्यदानवराक्षसान्॥
एवमुक्त्वा स राजानं तत्रैवान्तरधीयत ॥१३॥
वज्र उवाच॥
रक्षां तु तां मे कथय द्विजेन्द्र कृता तु या देव पुरोहितेन॥
राज्ञो वसोर्भूमिबिलस्थितस्य रक्षा हि साग्र्या परमा मता मे ॥१४॥
इति श्रीविष्णुधर्मोत्तरे तृ० खं० मार्कण्डेयवज्रसंवादे भूविवरस्थितराज्ञो रक्षावर्णनो नाम पञ्चचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥३४५॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP