संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०७०

खण्डः ३ - अध्यायः ०७०

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
मनुद्वयस्य मे रूपं कथयस्वामितद्युते॥
देवेन्द्रस्य च धर्मज्ञ यमस्याभिहितं त्वया ॥१॥
मार्कंडेय उवाच॥
वर्तमानो मनुः कार्यो राजलक्षणसंयुतः॥
भविष्यन्तु तथा कार्यः सर्वाभरणवर्जितः ॥२॥
जटाधरोऽक्षमाली च कमण्डलुधरस्तथा॥
कृशोऽपि तेजसा युक्तस्तपस्यभिरतस्तथा ॥३॥
कार्या योगेन चान्येऽपि भविष्या मनवश्च ये॥
सावर्णमनुतुल्येन कार्यो रूपेण यादव ॥४॥
अतीता मनवः कार्या राजलक्षणलक्षिताः॥
पृष्ठेश्वे सूर्यवत्कार्यो रेवन्तश्च तथा प्रभुः ॥५॥
इति श्रीवि० तृ० ख० मा० सं० मनुरूपनिरूपणो नाम सप्ततितमोऽध्यायः ॥७०॥

N/A

References : N/A
Last Updated : December 27, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP