संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२७

खण्डः ३ - अध्यायः ३२७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥हंस उवाच ॥
एकादशविधः साक्षी शास्त्रदृष्टो मनीषिभिः॥
कृतः पञ्चविधस्तत्र षड्विधोऽकृत उच्यते ॥१॥
लिखितः स्मारितश्चैव यदृच्छाभिज्ञ एव च॥
गूढश्चोत्तरसाक्षी च कृतः पञ्चविधः स्मृतः ॥२॥
ग्रामश्च प्राड्विवाकश्च राजा च व्यवहारिणाम्॥
कार्येष्वभ्यन्तरो यः स्यादर्थिना प्रहितः सदा ॥३॥
कुलं कुलविवादेषु षड्विधस्त्वकृतः स्मृतः॥
द्वयोर्विवदतोरर्थे द्वयोः सत्सु च साक्षिषु ॥४॥
पूर्वपक्षो भवेद्यस्य भवेयुस्तस्य साक्षिणः॥
आधार्यः पूर्वपक्षस्य यस्मिन्नर्थवशाद्भवेत् ॥५॥
विवादे साक्षिणस्तत्र प्रष्टव्याः प्रतिवादिनः॥
न परेण समुद्दिष्टमुपेयात्साक्षिणं प्रति ॥६॥
भेदयेत्तु न वान्योन्यं हीयत्येवं समाचरेत्॥
साक्षिद्विष्टो यदि प्रेयाद्गच्छेद्वापि दिगन्तरम् ॥७॥
तच्चोभयोः प्रमाणं तु प्रमाणे ह्यन्तरा क्रिया॥
अनिर्दिष्टस्तु साक्षित्वे स्वयमेवैत्य यो वदेत् ॥८॥
सूचीत्युक्तः स साक्षी तु न स साक्षित्वमर्हति॥
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ ॥९॥
न श्रोत्रियो न लिङ्गस्थो न सर्वेभ्यो विनिर्गतः॥
न व्याधितो न वक्तव्यो न दस्युर्न विकर्मकृत् ॥१०॥
न वृद्धो न शिशुर्नैको नान्धो न विकलेन्द्रियः॥
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः ॥११॥
न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः॥
नार्थसम्बन्धिनोराप्तो न हायनविचारिणः ॥१२॥
न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः॥
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः ॥१३॥
शूद्राश्च साधुशूद्राणां मर्त्यानां मर्त्ययोनयः॥
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् ॥१४॥
अन्तर्वेश्मन्यरण्ये वा शरीरस्य तथात्यये॥
स्त्रियोऽपि सम्भवे कार्या बालेन स्थविरेण वा ॥१५॥
शिष्येण बन्धुना वापि दासेन भृतकेन वा॥
बालवृद्धातुराणां तु साक्ष्ये तु वदतां मृषा ॥१६॥
जानीयादधिवाचमुत्सिक्तमनसां तथा॥
गृहिणः पुत्रिणो मौलाः शूद्रा विट्क्षत्रयोनयः ॥१७॥
अत्युक्ताः साक्ष्यमर्हन्ति नये कूटधनापदि॥
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः ॥१८॥
बहुत्वे परिगृह्णीयात्साक्षित्वे वेतनाधिपम्॥
समेषु त्वगुणोत्कृष्टं गुणित्वे वै द्विजोत्तमान् ॥१९॥
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति॥
तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते ॥२०॥
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नरकं व्रजेत्॥
पृष्टानि बद्धोऽपि वदेद्यथा दृष्टं यथाश्रुतम् ॥२१॥
एको लुब्धस्त्वसाक्षी स्याद्बहवोऽपि न वा क्वचित्॥
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् ॥२२॥
न जातु साक्षिणः प्राप्तानर्थिप्रत्यर्थिसन्निधौ॥
प्राड्विवाको नियुंजीत विधिनानेन सान्त्वयन् ॥२३॥
यत्तयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितेऽपि वा॥
तद् ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षितम् ॥२४॥
देवब्राह्मणसान्निध्ये साक्ष्यं पृच्छेत्ततो द्विजाः॥
उदङ्मुखः प्राङ्मुखो वा पूर्वाह्णे वै शुचिः शुचीन् ॥२५॥
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम्॥
गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः ॥२६॥
ब्रह्मणे च स्मृता लोका ये च स्त्रीबाल घातिनः॥
मित्रद्रुहः कृतघ्नस्य तत्ते स्युर्ब्रुवतां मृषा ॥२७॥
जन्मप्रभृति यत्किञ्चित्किञ्चित्पुण्यं त्वया कृतम्॥
तत्सर्वं तस्य जानीहि यं पराजयसे मृषा ॥२८॥
नग्नो मुण्डः कपाली च भिक्षार्थी क्षुत्पिपासितः॥
अन्धः शत्रुगृहं गच्छेद्यत्साक्ष्यमनृतं वदेत् ॥२९॥
एतांस्तु दोषान्वीक्ष्य त्वं सर्वाननृतभाषणात्॥
यथाश्रुतं यथादृष्टं सर्वमेवाञ्जसा वद ॥३०॥
सत्यं साक्ष्यं ब्रुवन्साक्षी लोकान्प्राप्नोत्यनुत्तमान्॥
इह वानुत्तमां कीर्तिं वाग्येषां ब्रह्मपूजिता ॥३१॥
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः॥
तांश्च देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः ॥३२ ॥
आदित्यचन्द्रावनलानिलौ च द्यौर्भूमिरापो हृदयं यमश्च॥
अहश्च रात्रिश्च उभे च सन्ध्ये धर्मश्च जानाति नरस्य वृत्तम् ॥३३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० वज्रसंवादे मुनीन्प्रति हंसगीतासु साक्षिनिर्णयो नाम सप्तविंशत्युत्तरत्रिशत तमोऽध्यायः ॥३२७॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP