खण्डः ३ - अध्यायः २२४
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
इति रोचव्रतं श्रुत्वा भुक्त्वा धनदवेश्मनि॥
श्रुत्वा गीतं च वाद्यं च दृष्ट्वा नृत्तं मनोहरम् ॥१॥
तत्रोष्य रजनीमेकां धनाध्यक्षेण पूजितः॥
उदग्जगाम धर्मात्मा हिमशैलस्य स द्विजः ॥२॥
स शैलदेशे कस्मिंश्चिद्ददर्श रुचिरं गृहम्॥
शीतांशुरश्मिजालाभं सर्वकामसमृद्धिमत् ॥३॥
तस्मिन्गृहे ददर्शाथ वृद्धां रूपवतीं स्त्रियम्॥
सर्वाभरणसम्पन्नां बह्वीभिः परिवारिताम् ॥४॥
तरुणीभिर्वरस्त्रीभिश्चारुवेशाभिरेव च॥
सा च तं पूजयामास पाद्यादिभिरनुक्रमात् ॥५॥
गन्धतैलेन चाभ्यर्च्य स्नापयामास यादव॥
सुखस्पर्शैश्च पवनैर्गन्धैश्च विविधैस्तथा ॥६॥
लिलेप चास्य गात्राणि चन्दनेन सुगन्धिना॥
वस्त्रालङ्कारमाल्यैश्च पूजयामास तं तथा ॥७॥
भोजयामास चान्नेन सर्वकाममृद्धिना॥
ताम्बूलं प्रददौ चास्मै सुगन्धि सुमनोहरम् ॥८॥
श्वेतोत्तरच्छदं चित्रं स्वास्तीर्णं परमर्द्धिमत्॥
गृहे विचित्रे शयनं प्रददौ सुमनोहरम् ॥९॥
तादृग्विधे परे तत्र सा च सुष्वाप भामिनी॥
विसर्जयित्वा नारीस्ताः सर्वा बालमृगेक्षणाः ॥१०॥
शीतापदेशेन ततो विरात्रे शयनात्स्वकात्॥
अष्टावक्रस्य शयनं जगाम वरवर्णिनी ॥११॥
दृष्ट्वा शयनसम्प्राप्तां किमेतदिति सोऽब्रवीत्॥
नानुरूपमिदं तत्ते वयसश्चारुहासिनि ॥१२॥
अभग्नब्रह्मचर्योऽस्मि परदारविवर्जकः॥
स्वच्छन्दं मामवज्ञाय किमिदं कर्तुमीहसे ॥१३॥
दिगुवाच॥
न वयं द्विज तारुण्ये चपलाः केवलं स्त्रियः॥
वयसोन्तेऽपि चापल्यं भजामः कामचोदिताः ॥१४॥
न श्रुतं तत्त्वया मन्ये स्त्रीशीलं द्विजसत्तम॥
नैता वयसि रज्यन्ते न रूपे न कुले श्रुते ॥१५॥
शीले वेशे धने शौर्ये रज्यन्ते क्वचिदेव तु॥
कामयन्त्येव पुरुषं यथालाभमिति श्रुतिः ॥१६॥
यासां हि रक्षा महती तास्त्रियः कुब्जवामनैः॥
प्रेष्यैर्वापीह सज्जन्ते पुमांसमिति भार्गव ॥१७॥
नाग्निस्तृप्यति काष्ठैर्वा नापगाभिर्महोदधिः॥
नान्तकः सर्वभूतैर्वा न पुंभिर्वामलोचनाः ॥१८॥
लीलयैव कुलं घ्नन्ति स्मयमानास्तु योषितः॥
दुर्लभा हि स्त्रीरमणात्स्वभावेन भृगूत्तम ॥१९॥
रहो नास्ति क्षणो नास्ति नास्ति चोपनिमन्त्रकः॥
तेन धर्मज्ञ नारीणां सतीत्वमुपजायते ॥२०॥
प्रेषितस्त्वं महाभाग मत्समीपं महात्मना॥
स्त्रीणां शीलमिह ज्ञातुमस्मद्दृष्टं तथा श्रुतम् ॥२१॥
एतञ्ज्ञात्वा जुगुप्सां च स्त्रीणां कार्या न च त्वया॥
मूलं धर्मार्थकामानां यतस्ता एव योषितः ॥२२॥
वह्निरन्नं जलं चैव नराणां धृतिहेतवः॥
घातकाश्च त एवोक्तास्तथा ज्ञेयाश्च योषितः ॥२३॥
वृत्तिर्लोके यथा नास्ति वह्नयन्नसलिलैर्विना ॥
गृहाश्रमस्तथा नास्ति विना स्त्रीभिः कथञ्चन ॥२४॥
तस्मात्ताः प्रज्ञया रक्ष्या नोग्रेण मृदुना न च॥
स्त्रियो मूलमनर्थानां त्रिवर्गस्य च साधनम् ॥२५॥
तासां न गच्छेद्विश्वासं मणिवद्गोपयेत्तु ताः॥
गृहकार्योद्यताः कृत्वा रक्ष्यास्ता भूतिमिच्छता ॥२६॥
एतच्छ्रुत्वा द्वितीयेह्नि पूजितः स तया स्त्रिया॥
जगाम धनदावासं ततोऽपि श्वशुरालयम् ॥२७॥
ततः श्वशुरमासाद्य सर्वं तस्मै न्यवेदयत॥
स च पप्रच्छ तं विप्रं श्रुत्वा स्त्रीणां विचेष्टितम् ॥२८॥
बुद्धिर्निवेष्टुं सञ्जाता न वा जाता वदस्व तत्॥
एतच्छ्रुत्वोत्तरं वाक्यमष्टावक्रोऽब्रवीन्मुनिम् ॥२९॥
न चाप्येषा गतिः क्षेम्या न चान्या विद्यते गतिः॥
तस्मात्प्रयच्छ धर्मज्ञ पत्न्यर्थं स्वसुतां मम ॥३०॥
एतच्छ्रुत्वा ददौ तस्मै स्वसुतां भार्गवो मुनिः॥
तिथौ दिवसनक्षत्रे मुहुर्ते चाभिपूजिते ॥३१॥
त्रिवर्गमूलं सम्प्राप्य तां भार्यामसितेक्षणाम्॥
जगाम परमां तुष्टिं मुमुदे च तया सह ॥३२॥
ररक्ष चैनां स ततो महात्मा कृत्वा च नित्यं गृहकार्ययुक्ताम्॥
आराधयामास च सा द्विजेन्द्रं धर्मे निविष्टा परमा च साध्वी ॥३३॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे अष्टावक्रदिक्संवादो नाम चतुर्विंशत्युत्तरद्विशततमोऽध्यायः ॥२२४॥
N/A
References : N/A
Last Updated : January 27, 2023
TOP