खण्डः ३ - अध्यायः ००७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
॥मार्कण्डेय उवाच॥
अथातः संप्रवक्ष्यामि तव प्राकृतलक्षणम्॥
ऋ ऋॄ लृ लॄ न संत्यत्र नष्मा न च मषावुभौ ॥१॥
सकारहीना च तथा नासिक्याश्च तथा नृप॥
रेफश्च शयवा राजन् संयोगे नास्ति कर्हिचित् ॥२॥
एकारश्च तथौकारः पदमध्ये महाबलः॥
दृढयोगे वकारोत्र डगयोगे तथैव च ॥३॥
गययोगे गकारोऽत्र लोप मायाति नित्यदा॥
दमौ युक्तौ पृथक् कृत्वा दुमौ कार्यौ तथैव च ॥४॥
ऋतयोगे दकारस्यात्तकारस्त्वभिधीयते॥
ककारः पदमध्योत्र वक्तव्यो हल्विवर्जितः ॥५॥
नकारस्य णकारः स्यात्क्षकारस्य ख इष्यते॥
तकारश्च थकारश्च ज्ञकारश्च ण एव च ॥६॥
क्वचित्क्वचित्स्या त्तदा हकारश्च तथा क्वचित्॥
क्षकारस्य तु वक्तव्यं वांकारस्य ह इष्यते ॥७॥
चकारस्य छकारः स्थात्युकरे हल् च लुप्यते॥
युक्ते षकारे तद्धीभे हकारोऽपि विधीयते ॥८॥
चतुर्थो नात्र विज्ञेया न च द्विवचनं क्वचित्॥
पदादौ यो गुरुः सोत्र लघुरेव विधीयते ॥९॥
द्विमात्रमेतदुद्दिष्टं मध्या प्राकृतलक्षणम्॥
प्रयोगादनुकर्तव्यो विस्तरो ह्यतिविस्तरः ॥१०॥
देशेषु देशेषु पृथग्विभिन्नं न शक्यते लक्षणतस्तु वक्तुम्॥
लोकेषु यत्स्यादपभ्रष्टसंज्ञं ज्ञेयं हि तद्देशविदोधिकारम् ॥११॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे प्राकृतभाषालक्षणं नाम सप्तमोऽध्यायः ॥७॥
N/A
References : N/A
Last Updated : December 22, 2022
TOP