संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १६३

खण्डः ३ - अध्यायः १६३

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


 ॥मार्कण्डेय उवाच ॥
चैत्रशुक्लादथारभ्य प्रत्यहं दिनसप्तकम्॥
ह्लादिनीं ह्रादिनीं चैव पावनीं चैव पूजयेत् ॥१॥
सीतां रामं तथा सिन्धुं तथा भागीरथीं क्रमात्॥
बहिःस्नानं ततः कुर्यान्नित्यं नक्ताशनो भवेत् ॥२॥
जले तु जुहुयात्क्षीरं तासां नाम्ना दिनेदिने॥
क्षीरपूर्णा च दातव्या वारिधान्यो द्विजातिषु ॥३॥
क्षीराशनस्तु तिष्ठेत्तु तत्तथा दिनसप्तकम्॥
एवं संवत्सरं कृत्वा पूर्णे संवत्सरे नरः ॥४॥
द्विजातिषु ततो दद्याद्रजतस्य पलंपलम्॥
फाल्गुनस्य सिते पक्षे सप्तम्यां दिवस क्रमात् ॥५॥
तल्लोकमाप्नोति नरो यत्र पायसकर्दमम्॥
नद्यः क्षीरवहा दिव्याः सर्वकामफलप्रदाः ॥६॥
तत्रोष्य कालं सुचिरं महात्मा मानुष्यमासाद्य भवत्यरोगः॥
रूपेण शीलेन धनेन युक्तो राजाथ वा ब्राह्मणपुङ्गवश्च ॥७॥
इति श्रीविष्णुधर्मेत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे नदीव्रतवर्णनोनाम त्रिषष्ट्युत्तरशततमोऽध्यायः ॥१६३॥

N/A

References : N/A
Last Updated : January 26, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP