खण्डः ३ - अध्यायः ०३७
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
अङ्गप्रत्यङ्गमानेन यथा पञ्च नराः स्मृताः॥
स्त्रियः पञ्च तथा ज्ञेयास्ता एव मनुजोत्तम ॥१॥
पुरुषस्य समीपस्था कर्तव्या योषिदीश्वर॥
नरस्कन्धप्रमाणेन कार्यैका सा यथामिति ॥२॥
अङ्गुली द्वौ नरात्क्षामं स्त्रियो मध्यं विधीयते॥
अधिका च कटिः कार्या तथैव चतुरडुलम् ॥३॥
उरःप्रमाणतः कार्यौ स्तनौ नृप मनोहरौ॥
नृपाश्च सर्वे कर्तव्या महापुरुषलक्षणाः ॥४॥
जालपादकराः कार्यास्तथा वै चक्रवर्तिनः॥
ऊर्णेयं च भुवोर्मध्ये तेषां कार्यं तथा शुभम् ॥५॥
रेखाश्च करयोः कार्यास्तिस्रो राज्ञां मनोहराः॥
शशक्षतजसङ्काशाः शस्त्रा वै क्षामकोटकाः ॥६॥
तदङ्गभङ्गिनः सूक्ष्मा निजस्नेहाभ्यलंकृताः॥
घनेन्द्रनीलसदृथाः केशाः कार्यास्तथा शुभाः ॥७॥
कुन्तला दक्षिणावर्तास्तरङ्गा सिंहकेसराः॥
वर्धरा जूटटसरा इत्येताः केशजातयः ॥८॥
चापाकारं भवेन्नेत्रं मत्स्योदरमथापि वा॥
नेत्रमुत्पलपत्राभं पद्मपत्रनिभं तथा ॥९॥
शानाकृतिर्महाराज पञ्चमं परिकीर्तितम्॥
चापाकारं भवेन्नेत्रं प्रमाणेन यथा स्त्रियः ॥१०॥
मत्स्योदराख्यं कथितं तथा यवचतुष्टयम्॥
नेत्रमुत्पलपत्राख्यं प्रमाणात्षड्यवं स्मृतम् ॥११॥
पद्मपत्रनिभं नेत्रं प्रमाणेन यवा नव॥
शशाकृतिं च विज्ञेयं तथैव च यवा दश ॥१२॥
स्वमानाऽङ्गुलमानस्य यवमानं प्रकल्पयेत्॥
चापाकारं भवेन्नेत्रं योगभूमिनिरीक्षणात् ॥१३॥
मत्स्योदराकृति कार्यं नारीणां कामिनां तथा॥
नेत्रमुत्पलपत्राभं निर्विकारस्य शस्यते ॥१४॥
त्रस्तस्स रुदतश्चैव पद्मपत्रनिभं भवेत्॥
क्रुद्धस्य वेदनान्तस्य नेत्रं शाराकृतिर्भवेत् ॥१५॥
ऋषयः पितरश्चैव देवताश्च नराधिप॥
स्वप्रभाभरणाः कार्या द्युतिमन्तस्तथैव च॥
मुष्णन्तस्तेजसां तेजः परेषां नृपसत्तम ॥१६॥
सम्यग्विचार्य नृपतिः स्वधिया यथोक्तं ह्येतत्प्रमाणमनुरूपमनिन्दितं च॥
स्थानैरनेककिरणैः स्थिरभूमिलम्भैः कार्यं तदेव सकुमारमजिह्मरेखम् ॥१७॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मा० व० सं० सामान्यमानवर्णनो नाम सप्तत्रिंशत्तमोऽध्यायः ॥३७॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP