संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११२

खण्डः ३ - अध्यायः ११२

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


॥ मार्कण्डेय उवाच ॥॥
स्नातं श्रीभगवन्तं समर्चयेत्॥
चन्दनबहुलनिर्यासजातीफलमृगमदकर्पूराणि समस्तानि व्यक्तानि वानुलेपनं कुर्यात्॥
गन्धद्वारेति श्रीभगवन्तमनुलिम्पेत्।॥
वायुरग्रेगा इति तालवृन्तं निवेदयेत्॥
वात आवातभेषजमिति वीजयेत्॥
सावित्राणि सावित्रस्येति चामरं निवेदयेत्॥
श्रीविष्णुगायत्र्या बीजानि निवेदयेत्॥
युवासुवास इति महार्हैर्वस्त्रैः श्रीभगवन्तं आच्छादयेत्॥
नोपभुक्तैर्न नीलैः हिरण्यवर्णैराभरणैरर्चयेत् ।
कङ्कतो न कङ्कत इति कङ्कतेन इन्द्राविश्वेति कङ्कतेन दूष्यादूशिरसि प्रतिसंख्या अञ्जन मणिना प्रैजनेन आत्मव्यूहेन कूर्चप्रसादनेन पुष्पवतीति पुष्पैः प्रथितैरग्रास्थितैश्च॥
प्रजापते न त्वदेतान्यन्य इति पटवासेन॥
अग्निमूर्धेति दीपेन॥
धूरसि धूर्वमिति धूपेन॥
अभित्वा शूर नोनुम इति च्छत्रेण॥
विष्णुगायत्र्या उपानद्भ्याम्॥
इदं विष्णुर्विचक्रमे इति यानेन तेनैव प्रवहणेन ।
केतुं कृण्वन्निति ध्वजैः तेनैव पताकादिभिः ।
ततः स्तोत्रैः श्रीभगवन्तमर्चयेत्॥
ततो अग्निर्मूर्धेति सर्वभोगपूरणार्थीयमात्रया॥
ततस्तन्त्रीवाद्यैः ततः शंखपटहभेरीनिनादैः सुभगातेनवेति॥
अनेन विधिना भोगैः समभ्यर्च्य जनार्दनम्॥
सर्वान्कामानवाप्नोति विष्णुलोकं च गच्छति ॥१॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे भोगदानवर्णनो नाम द्वादशोत्तरशततमोऽध्यायः ॥११२॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP