खण्डः ३ - अध्यायः १४०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
इदमन्यत्प्रवक्ष्यामि चतुर्मूर्तिव्रतं तव॥
बलं ज्ञानं तथैश्वर्यं शक्तिश्च यदुनन्दन ॥१॥
विख्यातं देवदेवस्य तस्य मूर्तिचतुष्टयम्॥
यदेव रूपं धर्मस्य बलस्योक्तं तदेव तु ॥२॥
रूपं ज्ञानस्य ते प्रोक्तं नरसिंहं तथा नृप॥
रुद्ररूपमथैश्वर्यं कथितं ते मया नृप ॥३॥
शक्तिर्वराहः कथितो देवो मधुनिषूदनः॥
एवमेतन्मुखात्प्रोक्तं चतुर्मूर्तिधरस्य ते ॥४॥
पूर्वं बलमुखं तस्य वासुदेवमुखं भवेत्॥
दक्षिणं वदनं ज्ञानं देवं संकर्षणं विदुः ॥५॥
ऐश्वर्यं पश्चिमं वक्त्रं रौद्रं पापहरं तथा॥
वराहमुत्तरं वक्त्रमनिरुद्धं प्रकीर्तितम ॥६॥
त्रिरात्रोपोषितश्चैत्रे पूर्वं संपूजयेन्मुखम्॥
तथा वैशाखमासे तु पूजयेद्दक्षिणामुखम्॥
ज्येष्ठे च पश्चिमं वक्त्रमाषाढेति तथोत्तरम् ॥७॥
गृहोपयोगि दातव्यं चैत्रे मासि द्विजातये॥
रणोपयोगि दातव्यं वैशाखे यादवोत्तम ॥८॥
यागोपयोगि दातव्यं तथा ज्येष्ठे द्विजातये।
यज्ञोपयोगि दातव्यं मास्याषाढे तथैव च ॥९॥
व्रतमेतन्नरः कृत्वा पूर्णं मासचतुष्टयम्॥
पारणे प्रथमे प्राप्ते भवतीति विनिश्चयः ॥१०॥
पारणं प्रथमं कृत्वा स्वर्गलोके महीयते॥
दशवर्षसहस्राणि स्वर्गं भुक्त्वा यथोदितम् ॥११॥
सौम्यादिषु च यामेषु द्वितीयं पारणं भवेत्॥
द्वितीयं पारणं कृत्वा भोजयेद्ब्राह्मणाञ्शुचिः॥
भोजनं गोरसप्रायं मृद्वीकाशर्करायुतम् ॥१२॥
प्राप्ते तृतीये द्विजपारणे च प्राप्नोति देवस्य सलोकतां सः॥
स्वर्गेन्दुलोकौ च तथोक्तकालं भुक्त्वा सुखी सर्वसमृद्धिकामः ॥१३॥
इति श्रीविष्णुधर्मोत्तरे तृ० ख० मार्कण्डेयवज्रसंवादे चतुर्थः चतुर्मूर्तिव्रतवर्णनो नाम चत्वारिंशदुत्तरशतमोऽध्यायः ॥१४०॥
N/A
References : N/A
Last Updated : January 24, 2023
![Top](/portal/service/themes/silver/images/up.gif)
TOP