खण्डः ३ - अध्यायः ३०६
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
गावः पवित्रा मङ्गल्या गोषु लोकाः प्रतिष्ठिताः॥
तास्वायत्तानि यज्ञानि देवतातिथिपूजनम् ॥१॥
बलन्तुष्टिश्च पुष्टिश्च तथा श्राद्धक्रिया द्विजाः॥
नासौ सम्पन्नमश्नाति यस्य धेनुर्न विद्यते॥
तस्मात्सर्वप्रदानानां गवां दानमनुत्तमम्॥
हीनाङ्गीं क्षीरपां वृद्धां दुग्धदोहां निरिन्द्रियाम् ॥३॥
व्याधितां विषमां व्यालां तथैव प्रपलायिनीम्॥
मूल्यैस्तथाप्यसंशुद्धैर्हृताश्च द्विजपुङ्गवात् ॥४॥
न दातव्या स्मृता धेनुर्दत्त्वा नरकमाप्नुयात्॥
ब्राह्मणो यस्तु कुरुते गोरसानां तु विक्रयम् ॥५॥
गवां च विक्रयं विप्रा विषमो यस्तथा गवाम्॥
अपात्रदोषयुक्तश्च न देया तस्य चाप्यथ ॥६॥
नैका बहूनां दातव्या न द्वयोर्द्विजपुङ्गवाः॥
सा तु विक्रयमापन्ना दातुर्नरकदायिनी ॥७॥
एकं पात्रमथासाद्य देयास्तु बहवः स्मृताः॥
गवां प्रदाने यत्नेन परीक्ष्यो ब्राह्मणो भवेत् ॥८॥
यथाकथञ्चिद् दत्त्वा गां धेनुं वाऽधेनुमेव वा॥
अरोगामपरिक्लिष्टां दाता स्वर्गे महीयते ॥९॥
दत्त्वा वत्सतरीं विप्राः स्वर्गलोके महीयते॥
गुर्विणीं च तथा दत्त्वा वसूनां लोकमश्नुते ॥१०॥
प्रसूयमानां तां दत्त्वा भूमिदानफलं लभेत्॥
स्रवंत्यां च तथा दत्त्वा नन्दने मोदते नरः ॥११॥
श्वेतां दत्त्वा सोमलोके रक्तां दत्त्वा विभावसोः॥
कृष्णां दत्त्वा तथा याम्ये नीलां दत्त्वा च वारुणे ॥१२॥
इन्द्रलोके तु शबलामिन्द्रलोके तु रोहिणीम्॥
वातरेणुसवर्णां तु वायुलोके महीयते ॥१३॥
धूम्रवर्णां तथा दत्त्वा वसूनां लोकमश्नुते॥
आषाढेन सवर्णान्तु लोकं वारुणमाप्नुयात् ॥१४॥
सुवर्णवर्णां कौबेरं ताम्रामाङ्गिरसं तथा॥
पलालधूम्रवर्णाभां पितृलोकं तथैव च ॥१५॥
शितिकण्ठाप्रदानेन वैश्वदेवमवाप्नुयात्॥
गौरीं दत्त्वा भृगूणाञ्च वैराटाभां प्रजापतेः ॥१६॥
पाण्डुकम्बलवर्णाभां रुद्राणां लोकमाप्नुयात्॥
शुक्लबिन्दुचितां कृष्णां गन्धर्वैः सह मोदते ॥१७॥
(कपिलाञ्च तथा दत्त्वा यथेष्टं लोकमाप्नुयात्॥)
गावः प्रकृतिवर्णास्तु कपिलाः परिकीर्तिताः ॥१८॥
कृतन्तु वर्णवैचित्र्यं पूर्वं तासान्तु शम्भुना॥
यथा तु गङ्गा सरितां धेनूनां कपिला तथा ॥१९॥
सायं प्रातश्च सततं होमकाले द्विजोत्तमाः॥
गावो ददति वै हौम्यमृषिभ्यो नात्र संशयः ॥२०॥
दुष्कृतानि दुरिष्टानि दुर्गाणि विषमाणि च॥
तरन्ति चैव पापेभ्यो धेनुदानेन मानवाः ॥२१॥
एकां गां दशगुर्दद्याद्दश दद्याच्च गोशती॥
शतं सहस्रगुर्दद्यात्सर्वे तुल्यफला हि ते ॥२२॥
शतवर्षसहस्राणि तपस्तप्तं सुदुश्चरम्॥
गोभिः पूर्वविसृष्टाभिर्गच्छेम श्रेष्ठतामिति ॥२३॥
लोकेऽस्मिन्दक्षिणानाञ्च सर्वा गा वयसोत्तराः॥
भवे तानि च लिंप्येम दोषेणातिपरन्तपाः ॥२४॥
शकृत्तासां पवित्रार्थं कुर्वीरन्देवमानुषाः॥
तथा सर्वाणि भूतानि स्थावराणि चराणि च ॥२५॥
प्रदातारश्च गोलोकान्गच्छेयुरिति मानदाः॥
एतद्धनं ददौ तासां सर्वमेव पितामहः ॥२६॥
सुरभिर्देवधेनुर्या तस्याः पुत्रत्वमागताः॥
धर्मो वृषभरूपेण महादेवध्वजः स्मृतः ॥२७॥
दशधेनुप्रदानेन यथेष्टाङ्गतिमाप्नुयात्॥
शतञ्च दत्त्वा धर्मज्ञः शक्रलोकमुपागतः ॥२८॥
कल्पावशेषं स सुखी मोदत्यप्सरसां गणैः॥
दत्त्वा सहस्रं धेनूनां सर्वपापैर्विमुच्यते ॥२९॥
उक्ष्णां च ये प्रयच्छन्ति शतेन सह यूथपम्॥
सर्वपापविनिर्मुक्तास्ते प्रयान्त्यमरावतीम् ॥३०॥
कल्पावशेषं त्रिदिवे सुखमुप्य नरोत्तमाः॥
मानुष्ये धनसंयुक्ता भवन्ति सुखिनस्ततः ॥३१॥
सहस्रेण गवां सार्धं ये प्रयच्छन्ति यूथपम्॥
अलंकृतं यथाशक्त्या गोलोकं यान्ति ते नराः ॥३२॥
उक्षाणमिन्द्रियोपेतं यस्तु दद्याद्द्विजातये॥
दशधेनुफलं तस्य नात्र कार्या विचारणा ॥३३॥
गोयुगं ये प्रयच्छन्ति सीरयूपयुतं द्विजाः॥
सर्वकामसमृद्धस्य प्राप्नुवन्ति फलं नराः ॥३४॥
गोभिश्चतुर्भिः संयुक्तं रथं दत्त्वा द्विजातये॥
धान्यैर्वस्त्रैर्युतं शक्त्या शक्रलोकं व्रजन्ति ते ॥३५॥
मानुष्यमासाद्य तथा भवन्ति वसुधाधिपाः॥
शकटस्य प्रदानन्तु विना गोभिर्महाफलम् ॥३६॥
विशेषेण महाभागास्तस्य गोभिर्युतस्य च॥
ससस्यं शकटं दत्त्वा नाकलोकं महीयते ॥३७॥
दत्त्वा तु धेनुं होमार्थे ब्राह्मणायाहिताग्नये॥
गोदानफलमाप्नोति होमदानफलं तथा ॥३८॥
स्नपनार्थं तथा दत्त्वा धेनुं रुद्रसुरालये॥
रुद्रलोकमवाप्नोति कुलञ्चैव समुद्धरेत् ॥३९॥
दत्त्वा सचैलं वृषभं महादेवालये नरः॥
रुद्रलोकमवाप्नोति कुलमुद्धरते तथा ॥४०॥
धेनूनां कपिला श्रेष्ठा वृषभः श्वेत उच्यते॥
श्वेतन्तु वृषभं दत्त्वा फलस्यानन्त्यमश्नुते ॥४३॥
दधिक्षीरहितार्थाय वासुदेवसुरालये॥
दत्त्वा गां मधुपर्कार्थं चानन्तं फलमाप्नुयात् ॥४२॥
गोप्रदानरता यान्ति गोलोकं मानवोत्तमाः॥
सहाप्सरोभिर्मुदिता विमानवरमास्थिताः ॥४३॥
अपामधस्ताल्लोको यो तस्योपरि महीधराः॥
नागानामुपरिष्टाद्भूः पृथिव्युपरि मानवाः ॥४४॥
मनुष्यलोकादूर्ध्वन्तु खगानां गतिरुच्यते॥
आकाशस्योपरि रविर्द्वारं स्वर्गस्य तत्स्मृतम् ॥४५॥
देवलोकः परस्तस्माद्ब्रह्मलोकस्ततः परम्॥
तत्रोपरि गवां लोको विष्णुलोकस्ततः परम् ॥४६॥
एकस्त्वधो दुष्कृतिनां कर्मिणां पृथिवी मता॥
ब्राह्मे तपसि युक्तानां ब्रह्मलोकः सनातनः ॥४७॥
गवामेव हि गोलोको दुरारोहा हि सा गतिः॥
एकान्तिनो विष्णुभक्ता विष्णुलोकं व्रजन्ति ते । ४८॥
गोप्रदानरता यांति गोलोकं सर्वकामदम्॥
तत्र कामफला वृक्षा नद्यः पायसकर्दमाः ॥४९॥
सुवर्णसिकताश्चान्या विमलाम्बुयुताः शुभाः॥
यथाकामेप्सितास्तत्र भवन्ति शुभकर्मिणाम् ॥५०॥
देशा मनोहराः शुभ्रा देवारामविभूषणाः॥
दिव्येन नृत्यगीतेन वादित्रेण मनोहराः ॥५१॥
तत्रेप्सितानां कामानामाप्तिर्भवति नित्यदा॥
हेमशृङ्गीं रूप्यखुरां मुक्तालांगूलभूषणाम् ॥५२॥
अहताम्बरसंवीतां तथा कांस्योपदोहिनीम्॥
त्रिरात्रं स्थंडिले सुप्त्वा त्रिरात्रं गोरसाशनः ॥५३॥
तृप्तान्तु तर्पिते दत्त्वा वाससा संवृतां द्विजाः॥
सदक्षिणां महाभागास्त्रिरात्रं गोरसैस्ततः ॥५४॥
प्राणसंधारणं कृत्वा गवां लोके महीयते॥
यावन्ति धेनुरोमाणि तावद्वर्षाणि मानवः ॥५५॥
दत्तैवं कपिलां विप्राः प्राप्नोत्यभ्यधिकं फलम्॥
सायं प्रातर्मनुष्याणामशनं देवनिर्मितम् ॥५६॥
तत्रैककालमश्नन्तो द्वितीयादशनान्नरः॥
यथोक्तविधिना दद्यात्क्रीत्वा तु कपिलां नरः ॥५७॥
सर्वकामसमृद्धस्य यज्ञस्य फलमश्नुते॥
गवां लोकमवाप्नोति कुलमुद्धरति स्वकम् ॥५८॥
अलंकृतां ततो दत्त्वा गोदानफलमाप्नुयात्॥
अजामलंकृतां दत्त्वा वह्निलोके महीयते ॥५९॥
तदेव लोकमाप्नोति दत्त्वाजं विधिवन्नरः॥
वारुणं लोकमाप्नोति दत्त्वा च महिषीं नरः ॥६०॥
महिषस्य प्रदानेन याम्ये लोके महीयते॥
वारुणं लोकमाप्नोति दत्त्वोरभ्रं नरोत्तमः ॥६१।
अविप्रदाता शतधा तदेव फलमश्नुते॥
आरण्यपशुदानेन वायुलोके महीयते ॥६२॥
एतदेव फलं प्रोक्तं प्रदानेन च पक्षिणाम्॥
शस्त्रपिण्डकि जालादिरुदकादानतस्तथा ॥६३॥
गोरसानां प्रदानेन तृप्तिमाप्नोत्यनुत्तमाम्॥
तत्र वाश्वयुजे मासे यस्तु दद्याद्द्विजातिषु ॥६४॥
आरोग्यं महदाप्नोति यत्रयत्राभिजायते॥
तथा दध्नः प्रदानेन मङ्गलान्याप्नुते सदा ॥६५॥
क्षीरदस्तृप्तिमाप्नोति सर्वदुःखैर्विमुच्यते॥
क्षीरेण स्नपनं कृत्वा हरस्य प्रयतो नरः ॥६६॥
मनोऽभितापनिर्मुक्तो रुद्रलोके महीयते॥
परमान्नप्रदानेन कामानाप्नोति शाश्वतान् ॥६७॥
मासि मासि तु रेवत्यां ब्राह्मणान्घृतपायसम्॥
सदक्षिणं भोजयित्वा रूपमाप्नोत्यनुत्तमम् ॥६८॥
आज्यन्तेजः समुद्दिष्टं चाज्यं पापहरं परम् ।
आज्यं सुराणामाहारश्चाज्ये लोकाः प्रतिष्ठिताः ॥६९॥
आज्येन लिङ्गस्नपनं नरः कृत्वा तु शूलिनः॥
सर्वदुःखविनिर्मुक्तो रुद्रलोके महीयते ॥७०॥
अलक्ष्मीशमनं प्रोक्तं घृतस्नानं तथा द्विजाः॥
कल्यमुत्थाय यो गव्यघृते मुखमथात्मनः । ७१॥
पश्यते स जहात्येव कृत्वा पापमहर्निशम्॥
अलक्ष्मीर्नश्यते चास्य क्षिप्रमेषा करीषिणी ॥७२॥
घृतदानान्नरो याति स्वर्गलोकमसंशयम्॥
मासे चाश्वयुजे नित्यं घृतं यस्तु प्रयच्छति ॥७३॥
कल्यमुत्थाय विप्रेभ्यः प्रीणयेच्च तथाश्विनौ॥
स रूपं महदाप्नोति तथा रोगैश्च मुच्यते॥
एवं महाफलं दानं गोरसानां तथा गवाम् ॥७४॥
प्रयच्छते यः कपिलां सचैलां कांस्योपदोहां कनकाग्रशृङ्गीम्॥
तैस्तैर्गुणैः कामदुघा च भूत्वा नरं प्रदातारमुपैति सा गौः ॥७५॥
यावन्ति रोमाणि भवन्ति धेन्वास्तावत्फलं प्राप्नुते गोप्रदाता॥
पुत्रांश्च पौत्रांश्च कुलञ्च सर्वमासप्तमं तारयते परत्र ॥७६॥
इति श्रीविष्णुधर्मोत्तरे तृतीये खण्डे मार्कण्डेयवज्रसंवादे मुनीन्प्रति हंसगीतासु गोदानफलनिरूपणो नाम षडधिकत्रिशततमोऽध्यायः ॥३०६॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP