संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ११७

खण्डः ३ - अध्यायः ११७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
अथ देवयात्राविधिर्भवति ।
यस्य देवस्य या तिथिः स्वकीया उक्ता तस्य तस्यां तिथौ यात्रां कुर्यात्॥
यस्य तिथिर्न ज्ञायते तस्य पौर्णमास्यां कुर्यात्॥
श्रीभगवतो वासुदेवस्य सर्वा एव तिथयः नास्य तिथिर्नाम तत्रादावेव सुधावदातं सुचित्रितं देवकुलं कृत्वा शुभेह्नि विनायक पूजनं कुर्यात्॥
द्वितीयेह्नि ग्रहर्क्षपूजनं, तृतीयेह्नि नागपूजनम्,
चतुर्थेह्नि प्रमथपूजनम्,
पञ्चमेह्नि ब्राह्मणपूजनम्, दीनानाथदानं च षष्ठेह्नि स्नपनम्॥
तत्र बृहत्स्नपनं कृत्वा सर्वे एव नागरजनाः सुशुक्लवाससः पवित्रकृतपाणयः महता वाद्यघोषेण सुभगानर्तितेन सरःसरित्प्रस्रवणागारं नगरसंनिकर्षमासन्नतमं गच्छेयुः । तस्मादुदककलशानादाय गजपृष्ठगतान् वा वाससा शुभेनाच्छादितान्प्रवेशयेत् ।
प्रवेश्य श्रीभगवन्तं स्नापयेत, भोगविधिपूर्वकेन प्रतिष्ठोक्तेन विधिना पूजयेत्, नृत्यवाद्यगीतैश्च श्रीभगवन्तमर्चयेत्, ततो यात्रादिने प्राप्ते स्वल्पार्चां प्रतिमाख्याम् । कूटागारे मनोहरे नानाप्रकारवसनाच्छादिते सकिङ्किणीके रत्नमाल्यपताकोपशोभिते रथे दृढीकृत्वा अश्वैर्दा न्तैर्व्यायतैर्वा पुरुषैर्नगरं भ्रामयेत् ।
नागरेण च जनेन सुवेशेन चापमात्रपाणिना कूटागारस्य पुरस्ताद्भ्रमणं कर्तव्यम्॥
अन्यैश्च कुसुममालाविकिरणं कर्तव्यम् ।
स्तुतीश्च कुर्युः ।
वन्दिनो मङ्गलपाठकाश्च पुरतो भवेयुः ।
वादित्राणि वादयंश्चतुरङ्गबलानुयातो राजा चानुगमनं कुर्यात्॥
नगराधिकृतो वा तदधिकृतो वा गजपृष्ठगतः सांवत्सरेणानुगमनं कुर्यात् ॥निमित्तानि च पश्येत् ।
विनावातं ध्वजभङ्गे राज्ञां मरणमादिशेत् ।
छत्रभङ्गे जनपदविनाशः ।
ईषद्भङ्गे राजपत्नीमरणम्॥
रज्जुच्छेदे बालपीडा॥
अश्वदान्तनरविपत्तौ जनपद पीडा, मातृकाच्छेदे राजमातुः पीडा॥
अर्चाभङ्गपतने लोकनाशः, समग्रकूटागारस्य पतने सराजकस्य राष्ट्रस्य विनाशः, विस्वरेषु वादित्रेषु परचक्रागमः, ध्वजस्थो गव्यादेः समरभयम् ।
अपृष्टजनपदे दुर्भिक्षभयम्॥
शुभभे शुभं बालका यत्र कुर्युः तत् तथाविधमेव भवति ।
यस्य च पुरुषस्य तस्मिन्नहनि यादृशे सुखदुःख भवताम॥
तादृशेपि संवत्सरे तस्य ज्ञेये ।
तस्मात्तत्राह्नि स्वाशितेन सुवाससा प्रकृष्टेन नागरेण भवितव्यम॥
एवं नगरे संभ्राम्य चिह्नागसं ज्ञात्वा प्रविष्टायां प्रतिमार्चायां महदुत्सवं कुर्यात् ।
द्वितीयदिवसादारभ्य यावत्सामर्थ्यं प्रत्यहं नटनर्तकनर्तकीमल्लेन्द्रजालिकादीनां प्रेक्षापूर्वकं धनं दद्यात्॥
प्रेक्षाकाले च प्रेक्षकं जनं माल्यताम्बूलानुलेपना दिदानेनार्चयेत् ।
अदृश्यानां प्रेक्षकाणां भूतानां रङ्गादिदिग्विदिक्षु सोदकमन्नाद्यं फलानि पुष्पाणि पललोल्लोपिकामोदकानि विकिरेत्॥
प्रेक्षकाणां यथागतानां च श्रेयश्चाऽस्त्वित्युदीरयेत् ।
यथागताश्च प्रेक्षका आगामिनीं यात्रां पश्यंत्वित्युदीरयेत॥
अशुभनिमित्तोत्पत्तौ तदुपशमनायानेन विधिना पुनर्यात्रां सम्यक्कुर्यात्॥
अनेन विधिना यस्तु यात्रां कुर्यात्सुरालये॥
स सर्वकामानाप्नोति विष्णुलोकं च गच्छति॥
धन्यं यशस्यमायुष्यं राज्ञां च विजयप्रदम्॥
नागराणां हितकरं यात्राकर्म प्रकीर्तितम्॥
तुष्ट्यर्थं त्रिशेन्द्राणां हितार्थं नगरस्य च॥
जनस्य राजन्कर्तव्यं यात्राकर्म जयावहम्॥
अतिवृष्टिकरं प्रोक्तं त्वनावृष्टिविनाशनम्॥
यात्राकर्म त्विदं कार्यं देवतायतनं सदा॥
प्रतिसंवत्सरं राजन्राजा विजयमिच्छता॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे यात्राविधिवर्णनो नाम सप्तदशोत्तरशत तमोध्यायः ॥११७॥

N/A

References : N/A
Last Updated : January 24, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP