खण्डः ३ - अध्यायः ०२९
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
अतः परं प्रवक्ष्यामि गीतानां लक्षणं तव॥
स्वभावेनोत्तुङ्गगतौ कार्यं जानुकटीसमम् ॥१॥
युद्धचारी प्रचारेषु जानुस्तनसमं न्यसेत्॥
ज्वरान्ते च क्षुधान्ते च तपःश्रान्ते रुजान्विते ॥२॥
विकृते चावहित्थे च तथौत्सुक्यसमन्विते॥
शृङ्गारे चैव शोके च स्वच्छन्द गमने तथा ॥३॥
एतेष्वेव तु सर्वत्र स्थिरा कार्या गतिर्बुधैः॥
अस्वस्थे कम्पिते नैव भये वित्रासिते तथा ॥४॥
आवेगे चैव हर्षे च कार्यं यच्च त्वरान्वितम्॥
अनिष्टश्रवणे चैव क्षेपे चाद्भुतदर्शने ॥५॥
अपि चात्ययिके कार्ये तथा चैवारिमार्गणे॥
अपराधानुसारेण श्वापदानुगतौ तथा ॥६॥
एवंविधेषु कार्येषु गतिं शीघ्रां प्रयोजयेत्॥
गतिः शृङ्गारिणी कार्या स्वस्थकामितसम्भवे ॥७॥
दूतीदर्शितमार्गस्तु हृद्यवेशपरिक्रमे॥
ससौष्ठवसमायुक्तैर्लयतालवशोनुगैः ॥८॥
पादयोरनुगौ चापि हस्तौ कार्यौ प्रयोक्तृभिः॥
प्रच्छन्नकामिते गच्छन्न चात्यर्थं विभूषितः ॥९॥
कृष्णवासाः पदैर्मंदैः शब्दाशङ्की मुहुर्मुहुः॥
वेपमानशरीरश्च शङ्कितः प्रस्खलन्मुहुः ॥१०॥
अङ्गस्वभावनेपथ्यो रौद्रस्तु त्रिविधो मतः॥
रुधिरक्लिन्नदेहस्तु पद्मांत्राङ्गधरस्तथा ॥११॥
बह्वायुधधरो रौद्रनेपथ्येन प्रकीर्तितः॥
रूक्षो निर्भर्त्सनकथो निर्घृणस्तु स्वभावतः ॥१२॥
विविधस्यापि रौद्रस्य चतुस्तालान्तरागतिः॥
अहृद्या तु मही यत्र श्मशानरणसङ्कुला ॥१३॥
आसन्ना च विकृष्टा च तत्र बीभत्सिका गतिः॥
गतिर्वीरे च कर्त्तव्या पादविक्षिप्तसंयुता ॥१४॥
विस्मये चैव हर्षे च विक्षिप्तपदविक्रमा॥
गतिः स्थिरपदा प्रोक्ता तथैव करुणारसे ॥१५॥
न तत्र सौष्ठवं कार्यं न प्रमाणं तथाविधम्॥
विघूर्णितशरीरा च स्तब्धा च शिथिला गतिः ॥१६॥
गाढप्रहारिते कार्या गतिः पिण्डितविग्रहा॥
द्रुता भयानके कार्या स्तब्धा कार्यवशादथ ॥१७॥
सत्त्वे तु विकृते दृष्टे गतिर्विस्फुरितेक्षणा॥
तापसानां भवेन्मन्दा युगमात्रेक्षणा गतिः ॥१८॥
हस्तसंस्पर्शनान्मन्दाप्यन्धकारे गतिर्भवेत्॥
रथस्थस्यापि कर्त्तव्या गतिर्मन्दपदैरथ ॥१९॥
समपादं बुधस्थानं कृत्वा रथगतिं व्रजेत्॥
धनुर्गृहीत्वा हस्तेन तथा चैकेन कूबरम् ॥२०॥
सूतश्चास्य भवेदेव प्रतोदग्रहणाकृतिः॥
विमानस्थस्य कर्तव्या गतिरानंदिनी भवेत् ॥२१॥
आरोहाश्चावरोहाश्च ऊर्ध्वाधोवीक्षणैर्गतैः॥
मण्डलावर्तनैः कार्यमाकाशगमनं तथा ॥२२॥
ऋज्वागतोन्नतैः पादैर्भ्रश्यमानस्तु खाद्भवेत्॥
उच्छ्रितारोहणं कार्यमपक्रान्तपदैरथ ॥२३॥
तथावतरणं कार्यं शंकितैरिव संहितैः॥
उत्क्षिप्तपदसञ्चारा सलिले च गतिर्भवेत् ॥२४॥
उत्क्षिप्तहस्तसञ्चारा पादपारोहणे भवेत्॥
सूचीविद्धैरपक्रान्तैः पदैः पार्श्वगतैरथ ॥२५॥
अङ्कुशग्रहणान्नागं खलीनग्रहणाद्भयम्॥
प्रग्रह ग्रहणादेव अन्येषां कारयेद्गतिम् ॥२६॥
अश्वयाने गतिः कार्या वैशाखस्थानकेन ह॥
पन्नगानां गतिः कार्या पदैः स्वस्तिकसंयुतैः ॥२७॥
विटस्यापि तु कर्तव्या गतिर्ललितविक्रमा॥
कंचुकीयस्य कर्तव्या कम्पिता स्खलिता गतिः ॥२८॥
विष्टम्भनगतिप्राणा कृशस्यापि गतिर्भवेत्॥
व्याधिग्रस्तस्य च तथा तपःश्रान्तस्य चैव हि ॥२९॥
दीर्घाध्वनि गतस्यापि शनैर्मन्दपरिक्रमा॥
मत्तस्य तु गतिः कार्या स्खलिता पार्श्वयोर्द्वयोः ॥३०॥
उन्मत्तस्यापि कर्तव्या गतिस्त्वभिनयक्रमा॥
असम्बद्धप्रलापी स्यान्मलिनो लोमशस्तथा ॥३१॥
विकलानां गतिः कार्या यथा कार्यानुरूपतः॥
स्थूलदेहस्य कर्तव्या गतिर्देहानुकर्षिणी ॥३२॥
विदूषकस्य कर्तव्या गतिर्हास्यप्रदा तथा॥
स्वभावजातं विन्यस्य कुटिलं वामके करे ॥३३॥
गतौ रमेत चेटानां दृष्टिश्चार्यविचारिणी॥
नानादेशसमुद्भूता पुरुषाणां स्वभावतः ॥३४॥
श्वापदानां पशूनां च गतिः कार्या नराधिप॥
शेषाणामर्थयोगेन स्थानकानि प्रयोजयेत् ॥३५॥
धैर्योपपन्ना गतिरुत्तमानां मध्या गतिर्मध्यमसंमितानाम्॥
द्रुता गतिश्च प्रचुराधमानां लयत्रयं सत्त्ववशेन योज्यम् ॥३६॥
रंगे विकृत्ता तु नृपप्रधान गतागतैः पादगतिप्रचारः॥
कार्या वशादेव गृहस्य नित्यं समीक्ष्य रङ्गं तु यथानुरूपम् ॥३७॥
स्त्रीणां गतिः स्याल्ललितप्रचारा धीरा नराणां च तथोद्धता स्यात्॥
गति प्रचारोऽर्थवशेन योज्यश्चैतावदुक्तं तव राजसिंह ॥३८॥
वयोनुरूपः प्रथमस्तु वेशो वेशानुरूपश्च गतिप्रचारः॥
गतिप्रचारानुगतं च नाट्यं नाट्यानु रूपोऽभिनयश्च कार्यः ॥३९॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे गतिप्रचारवर्णनो नामैकोनत्रिंशत्तमोऽध्यायः ॥२९॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP