खण्डः ३ - अध्यायः ०३०
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
मार्कण्डेय उवाच॥
हास्यशृंगारकरुणारौद्रघोरभयानकाः॥
बीभत्साद्भुतशान्ताख्या नव नाट्ये रसाः स्मृताः ॥१॥
शान्तो रसः स्वतन्त्रोत्र पृथगेव व्यवस्थितः॥
शृङ्गाराद्धि भवेद्धास्यो रौद्राच्च करुणोदयः ॥२॥
वीराच्चैवाद्भुतोत्पत्तिर्बीभत्साच्च भयानकः॥
एतेषामङ्गवर्णाश्च सात्त्विकोभि नयः स्मृतः ॥३॥
शान्तस्वभाववर्णस्तु रसः प्रोक्तो नराधिप॥
शृङ्गारस्तु भवेच्छ्यामो रक्तो रौद्रः प्रकीर्तितः ॥४॥
सितो हास्यश्च विज्ञेयः कृष्णश्चैव भयानकः॥
गौरो वीरस्तु विज्ञेयः पीतश्चैवाद्भुतः स्मृतः ॥५॥
कापोतः करुणश्चैव नीलो बीभत्समेव च॥
हास्यः प्रमथदेवस्तु शृङ्गारो विष्णुदैवतः ॥६॥
रौद्रो रौद्राधिदेवश्च करुणो यमदैवतः॥
बीभत्सस्य महाकालः कालदेवो भयानकः ॥७॥
वीरो महेन्द्रदेवः स्यादद्भुतो ब्रह्मदैवतः ॥शा
न्तस्य देवो विज्ञेयः परः पुरुष एव तु ॥८॥
शान्तस्य तु समुत्पत्तिर्नृप वैराग्यतः स्मृता॥
स चाभिनेयो भवति लिङ्गग्रहणतस्तथा ॥९॥
सर्वभूतदयाध्यानमोक्षमार्गप्रर्तनैः॥
नास्ति यत्र सुखं दुःखं न द्वेषो नापि मत्सरः ॥१०॥
समः सर्वेषु भूतेषु स शान्तः प्रथितो रसः॥
हास्यस्य तु समुत्पत्तिरसम्बद्धप्रलापतः ॥११॥
असम्बद्धात्तथा वेशाद्भवतीति विनिश्चयः॥
आत्मस्थश्च परस्थश्च द्विविधः स च कीर्तितः ॥१२॥
आत्मस्थश्च स्वयं हासात्परस्थः परहासनात्॥
उत्तमाधममुख्यानां त्रिविधः स भवेत्तदा ॥१३॥
ईषद्विकम्पितैर्गण्डैः कटाक्षैस्सौष्ठवान्वितैः॥
अलक्षितद्विजं चैव उत्तमानां स्मितं भवेत् ॥१४॥
तथा दर्शितदन्तन्तु मध्यमानां प्रकीर्तितम्॥
सास्रं तदधमानां स्यात्सस्वनं च महीभुजाम् ॥१५॥
शृङ्गारो द्विविधः प्रोक्तः सम्भोगाद्विरहात्तथा॥
विप्रलम्भकृतस्यात्र निर्वेदोऽभिनयक्रियः ॥१६॥
विप्रलम्भे तु निर्दिष्टाः कामावस्थास्तथा दश॥
चक्षुःप्रीतिर्विनिर्दिष्टा प्रथमायां नराधिप ॥१७॥
मनसश्च तथा सङ्गो द्वितीयायां प्रकीर्तितः॥
स्मरणं च तथा प्रोक्तं तृतीयायां निरन्तरम् ॥१८॥
निद्राभेदश्चतुर्थ्यां तु पंचम्यां तनुता तथा॥
व्यावृत्तिविषयेभ्यस्तु षष्ठ्यां प्रोक्ता नराधिप ॥१९॥
लज्जाप्रणाशः सप्तम्यामुन्मादस्तदनन्तरम्॥
नवम्यां तु तथा मूर्च्छा दशम्यां मरणं भवेत् ॥२०॥
द्वयोरुज्ज्वलयोस्तत्र सम्भोगाभिनयो भवेत॥
सुखप्रायेष्टसंपन्नो यत्र माल्यानुलेपकः ॥२१॥
पुरुषप्रमदायुग्मं शृंगार इति संज्ञितः॥
शोकाद्भवति राजेन्द्र तथैव करुणो रसः ॥२२॥
त्रस्तगात्राद्विनिःश्वासपरिदेवितरोदनैः॥
मुखवैवर्ण्य शोषैश्च तस्येहाभिनयो भवेत् ॥२३॥
क्रोधाद्भवति रौद्रस्य रसस्य तु समुद्भवः॥
रक्तत्वनेत्रभ्रुकुटिक्रोधामर्षैः ससाहसैः ॥२४॥
पीडनैः शस्त्रसङ्घातैस्तस्येहाभिनयो भवेत॥
जुगुप्सया भवति बीभत्सस्य समुद्भवः ॥२५॥
नासाविघूर्णनात्तस्य चोद्वेगेन तथैव च॥
आश्चर्येण समुत्पत्तिरद्भुतं तत्प्रकीर्तितम् ॥२६॥
प्रस्फुरिताक्षिरोमाञ्चैरङ्गुलीभ्रमणादिभिः॥
स्वेदेन चाभिनेयः स्यादद्भुतस्तु तथा रसः ॥२७॥
नाट्यस्य मूलं तु रसः प्रदिष्टो रसेन हीनं न हि वृत्तमस्ति॥
तस्मात्प्रयत्नेन रसाश्रयस्य वृत्तस्य यत्नं पुरुषेण कार्यम् ॥२८॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे रसवणर्नो नाम त्रिंशत्तमोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : December 23, 2022
TOP