खण्डः ३ - अध्यायः ३०५
विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.
हंस उवाच॥
भूमिर्धात्री विधात्री च भूमौ सर्वं प्रतिष्ठितम्॥
भूमिर्हि माता सर्वस्य सर्वकामप्रदा वरा ॥१॥
तदुद्भूतेन हविषा तृप्तिमायान्ति देवताः॥
भूमिर्हि धारणी विप्रास्त्रैलोक्यस्य निगद्यते ॥२॥
भूमौ हि सर्वं भवति भूमौ सर्वं प्रतिष्ठितम्॥
सर्वकामप्रदं ज्ञेयं भूमिदानं नरोत्तम ॥३॥
हस्तमात्रां तु यो दद्याद्भुवं पुरुषसत्तम॥
तेनैव ध्रुवमाप्नोति भूमिदानफलं नरः ॥४॥
यदुत्पन्नमथाश्नाति नरः संवत्सरं द्विजाः॥
एकं गोचर्ममात्रं तु भुवः प्रोक्तं विचक्षणैः ॥५॥
ब्राह्मणाय ततो दत्त्वा वसूनां लोकमाप्नुयात्॥
शाकभूमिं ततो दत्त्वा लोकमाङ्गिरसं व्रजेत् ॥६॥
आरामभूमिं दत्त्वा च मारुतं लोकमश्नुते॥
जलाशयार्थं यो दद्याद्वारुणं लोकमाप्नुयात् ॥७॥
यस्य दत्त्वा तु वेश्मार्थं तस्य देवस्य सोऽश्नुते॥
यस्तत्र विद्यते नित्यं लोको द्विजवरा ध्रुवम् ॥८॥
उद्यानभूमिं दत्त्वा च गन्धर्वैः सह मोदते॥
रत्नाकरं तु वै दत्त्वा शक्रलोके महीयते ॥९॥
दत्त्वा कनकभूमिं च वह्निलोके महीयते॥
अन्येषामाकरभुवं लोहानां यः प्रयच्छति ॥१०॥
तस्यापि मतिरुद्दिष्टा लोके हौताशने द्विजाः॥
धान्याकरभुवं दत्त्वा नाकलोके महीयते ॥११॥
अञ्जनाकरभूमिं तु यः प्रयच्छति वै द्विजाः॥
पितृभिर्यमलोकस्थः पूज्यतेऽसौ नरोत्तमः ॥१२॥
लवणाकरभूमिं च सोमलोके महीयते॥
शिम्बिसस्यप्ररोहां तु भुवं दत्त्वा नरोत्तमः ॥१३॥
साध्यानां लोकमाप्नोति नात्र कार्या विचारणा॥
इन्धनाकरभूमिं तु नासत्यैः सहितस्तथा ॥१४॥
शूकधान्यभुवं दत्त्वा रुद्रलोके महीयते॥
केदार भूमिं धर्मज्ञा यः प्रयच्छति धर्मतः ॥१५॥
स महत्पुण्यमाप्नोति ब्रह्मलोकं च गच्छति॥
इक्षुभूमिं नरो दत्त्वा द्राक्षाभूमिमथापि च ॥१६॥
सोमलोकमवाप्नोति सर्वकामाँश्च विन्दति॥
सोपरा तस्कराकीर्णा तथा व्याडवती च भूः ॥१७।
न दातव्या द्विजश्रेष्ठा या च सन्धिषु वै द्विजाः॥
गुल्मपुष्पप्रदां यस्तु लतां वा संप्रयच्छति ॥१८॥
विमाने नन्दने सोऽथ क्रीडत्यप्सरसां गणैः॥
पुष्पदं फलदं वृक्षं दत्त्वा विप्राय भक्तितः ॥१९॥
स्वर्गलोकपरिभ्रष्टो नगराधिपतिर्भवेत्॥
ब्राह्मणाय गृहं दत्त्वा वसूनां लोकमश्नुते ॥२०॥
आराममथ सोद्यानं नन्दने क्रीडते वने॥
धनधान्ययुतं स्फीतं गृहोपकरणैर्युतम् ॥२१॥
शय्यासनयुतं रम्यं गोजाश्वावियुतं तथा॥
गृहं दत्त्वा द्विजेन्द्राय तावत्स्वर्गमुपाश्नुते ॥२२॥
यावत्कल्पावसाने तु कल्पादौ पार्थिवो भवेत्॥
ग्रामप्रदः स्यान्नृपतिस्तथा ह्यशनदो नृपः ॥२३॥
समग्रवसुधेशः स्याच्चक्रवर्ती च राज्यदः॥
स्वदत्तां परदत्तां वा न हरेत वसुन्धराम् ॥२४॥
भूमेरङ्गुलमात्रं तु हृत्वा नरकमृच्छति॥
बहून्यब्दसहस्राणि धर्मेऽपि पुरुषो रतः ॥२५॥
विष्ठाकृमित्वमाप्नोति पितृभिः सहितस्तथा॥
तस्माद्भूमिं न हिंसेत दद्यादेव विचक्षणः ॥२६॥
भूमिदानात्परं दानं नान्यल्लोकेषु विद्यते॥
भूमिं युद्धजितां दद्याद्ब्राह्मणेषु महीपतिः ॥२७॥
परं राष्ट्रं समासाद्य प्राग्दत्तं नैव हिंसयेत्॥
स्वराष्ट्रे परराष्ट्रे वा देवब्राह्मणसात्कृतम् ॥२८॥
चिरं नरकमाप्नोति हृत्वा भूमिपतिर्भुवम्॥
दत्ता न हिंसनीया स्याद्रिपुणापि वसुन्धरा ॥२९॥
भूमिहर्ता परं दुःखं प्रेत्य चेह तथाश्नुते॥
भूमिं क्रीत्वा तु यः कुर्याद्देवब्राह्मणसान्नरः ॥३०॥
स्वर्गलोकमवाप्नोति पुरुषोऽपि सुदारुणः॥
षष्टिवर्षसहस्राणि स्वर्गे वसति भूमिदः ॥३१॥
आच्छेत्ता चानुमन्ता च तावन्ति नरके वसेत्॥
पक्वसस्यां वसुमतीं योऽलङ्कृत्य प्रयच्छति ॥३२॥
कामगेन विमानेन ब्रह्मलोकं स गच्छति॥
यथा भवति विप्रेन्द्राः फलं भूमौ पुनःपुनः ॥३३॥
तथा भूमिकृतं दानं सस्यैरिव विवर्धते॥
यस्तु राजा द्विजातिभ्यः सम्यग्भूमिं प्रयच्छति॥
पुनस्तु जननं प्राप्य राजैव भुवि जायते ॥३४॥
शस्त्रं भद्रासनं वस्त्रं नराश्ववरवारणाः॥
भूमिदानस्य पुष्पाणि फलं स्वर्गः प्रकीर्तितः ॥३५॥
संग्रामे ये हताः शूरास्तथा ये यज्ञयाजिनः॥
वनेषु ये मृतास्ते च नातिक्रामन्ति भूमिदम् ॥३६॥
नास्ति विष्णुसमस्त्राता नास्ति गङ्गासमा नदी ॥३७॥
होममन्त्रस्तथा नास्ति महाव्याहृतिभिः समः॥
गायत्रीसदृशो जप्यो यथा नास्ति द्विजोत्तमाः ॥३८॥
अन्तर्जले तथा नास्ति मन्त्रोऽन्योऽप्यघमर्षणात्॥
विधिर्मानसमो नास्ति तपो नानशनात्परम् ॥३९॥
गुरुर्मातृसमो नास्ति नास्ति भार्यासमः सखा॥
नीचावमाननाद्दुःखाद्दुःखं नास्ति यथा परम् ॥४०॥
यथा च नास्ति लोकेषु सुखं शत्रुजयाधिकम्॥
चक्षुर्ज्ञानसमं नास्ति सुहृद्धर्मसमस्तथा ॥४१॥
भूमिदानात्परं दानं तथा नास्ति द्विजोत्तमाः॥
भूमिदानात्परं नास्ति विमानैः कामगैरिह ॥४२॥
देवस्त्रीनृत्यबहुले वीणामुरजनादिते॥
किंकिणीजालनिर्घोषे मनोरथफलद्रुमे ॥४३॥
मुख्याभिर्देवरामाभिर्वीज्यमानास्तु चामरैः॥
संगीयमाना गन्धर्वैः स्तूयमानास्तथैव च ॥४४॥
बहून्यब्दसहस्राणि देवभोगांस्तु ते नराः॥
स्वर्गे भुक्त्वा यदा यान्ति मानुष्यं कालपर्ययात्॥
भवन्ति सर्वभोगाढ्याः सर्वदुःखविवर्जिताः ॥४५॥
विख्यातशब्दाश्च जनाभिरामाः प्रतप्तचामीकरभूषिताङ्गाः॥
सुगन्धिगन्धैश्च तथानुलिप्ता भवन्ति लोके च सुखैरुपेताः ॥४६॥
इति श्रीविष्णुधमोत्तरे तृ० खं० मा० सं० मुनीन्प्रति हंसगीतासु भूमिदानवर्णनो नाम पञ्चाधिकत्रिशततमोऽध्यायः ॥३०५॥
N/A
References : N/A
Last Updated : January 29, 2023
TOP