संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः १०९

खण्डः ३ - अध्यायः १०९

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


वज्र उवाच॥
भगवन्होमविधिमाचक्ष्व ।
तमुवाच भगवान्मार्कण्डेयः ।
अधिवासितो भगवानग्निं प्रज्वाल्य परिसमूह्याज्येन विलीनेनोत्सवेन रक्षोघ्नमंत्राज्यभागान्तरं प्रागुक्तं हुत्वा वक्ष्यमाणैर्नामभिः स्वाहान्तैश्चतुर्थीप्रयुक्तैः यवतिलसिद्धार्थानेकैकेन नाम्ना अष्टौ वा अष्टाविंशति अष्टोत्तरशतं वाज्याहुतीर्जुहुयात्॥
ॐनमो भगवते वासुदेवाय॥
ॐनमो भगवते संकर्षणाय॥
ॐनमो भगवते प्रद्युम्नाय॥
ॐनमो भगवते अनिरुद्धाय॥
ॐनमो भगवते पुरुषाय॥
ॐनमो भगवते सत्याय॥
ॐनमो भगवते अच्युताय॥
ॐनमः श्रियै॥
ॐनमः कालरात्र्यै॥
ॐनमः सृष्ट्यै॥
ॐनमो गरुडाय॥
ॐनमस्तालाय॥
ॐनमो मकराय॥
ॐ नमो ऋष्याय॥
ॐनमोऽनन्ताय॥
ॐनमः कौस्तुभाय॥
ॐनमो वनमालायै॥
ॐनमः पृथिव्यै॥
ॐनमः शङ्खाय॥
ॐनमः पद्माय॥
ॐनमो गदायै॥
ॐनमश्चक्राय॥
ॐनमो हलाय॥
ॐनमो मुसलाय॥
ॐनमश्चापाय॥
ॐनमश्चर्मणे॥
ॐनमः खड्गाय॥
ॐनमो सुभद्राय॥
ॐनमो वसुभद्राय॥
ॐनमो आषाढाय॥
ॐनमो यज्ञताताय॥
ॐनमो जयाय॥
ॐनमो विजयाय॥
ॐनमो आमोदाय॥
ॐनमः प्रमोदाय॥
ततो व्याहृतिहोमः कार्यः ।
ततो गायत्र्या होमं कुर्यात ।
ततस्तद्विष्णोः परमं पदमित्यनया ततो वैष्णवगायत्र्या॥
ततो युञ्जते मन इति अनुवाकेन॥
ततः पुरुषसूक्तेन॥
ततो रथो अक्षेष्विति ऋक्चतुष्टयेन॥
ततश्चमकषट्केन॥
ततस्त्वाज्येन॥
संवत्सरादेवादिहोमपूर्वकेण कर्मणोत्तरतंत्रं समापयेत्॥
विष्णोः प्रतिष्ठा करणे होम एष प्रकीर्तितः॥
अन्यासां देवतानां च तल्लिङ्गैर्जुहुयाद्धविः॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे होमविधि वर्णनो नाम नवोत्तरशततमोऽध्यायः ॥१०९॥

N/A

References : N/A
Last Updated : January 22, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP