संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ३२४

खण्डः ३ - अध्यायः ३२४

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


ऋषय ऊचुः॥
राज्ञो धर्मस्त्वया प्रोक्तो व्यवहारान्ववेक्षणम्॥
तदस्माकं त्वमाचक्ष्व त्वं हि सर्वविदुच्यसे ॥१॥
हंस उवाच॥
आसीत्कृतयुगे पूर्वे प्रजाधर्मनिबन्धनः॥
ततस्त्रेतायुगे तेषां धर्मो नाशमुपागमत् ॥२॥
धर्मे नष्टे मनुष्याणां व्यवहारः प्रवर्तितः॥
द्रष्टा च व्यवहाराणां राजा दण्डधरः कृतः ॥३॥
कुलानि श्रेणयश्चैव गणाश्चाधिकृतो नृपः॥
द्रष्टारो व्यवहाराणां गुरवो ह्युत्तरोत्तरम् ॥४॥
व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह॥
धर्मशास्त्रानुसारेण रागद्वेषविवर्जितः ॥५॥
कुलोद्गता स्थिता धर्मे मृजायुक्ताः श्रुतान्विताः॥
राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः ॥६॥
अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु ॥
सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् ॥७॥
क्षत्त्रियस्त्वथ वा वैश्यो न तु शूद्रः कदाचन॥
यस्य राज्ञस्तु विषये शूद्रो धर्मविवेचकः ॥८॥
तस्य सीदति तद्राष्ट्रं दुर्भिक्षव्याधितस्करैः॥
विवादाद् द्विगुणं दंडं कूटकृत्साक्षिणस्तथा ॥९॥
द्विगुणं च तथा सभ्या रागद्वेषव्यवस्थिताः॥
दुर्मृष्टव्यवहारेण राज्ञा वित्तं यदर्जितम् ॥१०॥
त्रिंशद्गुणं तु दातव्यं ब्राह्मणेष्वथ वांभसि॥
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः ॥११॥
आवेदयति चेद्राज्ञे व्यवहारपदं हि तत्॥
प्रत्यर्थिनस्तथा कुर्यादाह्वानं पृथिवीपतिः ॥१२॥
अनागच्छञ्जितो राज्ञा विनेयः पुरुषो भृशम्॥
नदीसन्तारकारण्यदुर्देशोपप्लवादिषु ॥१३॥
नागस्थो न स दंड्यः स्यान्नासौ राज्ञोपराध्यति॥
निवेष्टुकामो रोगार्तो यियक्षुर्व्यसने स्थितः ॥१४॥
अभियुक्तस्तथान्येन राजकार्यरतस्तथा॥
गवां प्रचारे गोपालाः सम्पत्काले कृषीवलाः ॥१५॥
शिल्पिनश्चैव तत्कालं चायुधेयाश्च विग्रहे॥
अपास्तव्यवहाराश्च दूतदानो मुखी व्रते ॥१६॥
विषमस्थश्च नासाध्या नचैनांश्चाह्वयेन्नृपः॥
प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितमर्थिनः ॥१७॥
समामासतदर्धाहर्ज्ञातिनामादिचिह्नितम्॥
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ ॥१८॥
ततोर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम्॥
चतुर्धा तच्च कथितं मुनिभिस्तत्त्वदर्शिभिः ॥१९॥
लिखितं साक्षिणो भुक्तिश्चतुर्थी वैदिकी क्रिया॥
सारस्तु व्यवहाराणां प्रतिष्ठा समुदाहृता ॥२०॥
तत्सिद्धौ सिद्धिमाप्नोति विपरीतमतोन्यथा॥
अभियोगमनिस्तीर्य नैनं प्रत्यभियोजयेत् । २१॥
कुर्यात्प्रत्यभियोगं च कलहे साहसेषु व॥
उभयोः प्रतिभुवौ ग्राह्यौ समर्थौ कार्यनिर्णये ॥२२॥
साहसस्तेयपारुष्ये ह्यभिशापात्यये स्त्रियम्॥
विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः ॥२३॥
देशाद्देशान्तरं याति सृक्किणी परिलेढि च॥
ललाटं स्विद्यते चास्य मुखं वैवर्ण्यमेति च ॥२४॥
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषते॥
अभियोगेथ वा साक्ष्ये दुष्टः स परिकीर्त्यते ॥२५॥
आकारैरिङ्गितैर्गत्या चेष्टितैर्भाषितेन च॥
नेत्रवक्त्रविकाराभ्यां गृह्यतेंऽतर्गतं मनः ॥२६॥
त्रिपक्षाद्विजितो ज्ञेयस्तूत्तरस्याप्रयच्छतः॥
सर्वेष्वेव विवादेषु बलवत्युत्तरा क्रिया ॥२७॥
आधौ प्रतिग्रहे क्रीते पूर्वात्तु बलवत्तरा॥
सर्वोपद्रवकर्तारमेकदेशविभावितम् ॥२८॥
सर्वस्माद्धीयते चार्थादिति धर्मविदो विदुः॥
बलोपधिनिवृत्ताँस्तु व्यवहारान्निवर्त्तयेत् ॥२९॥
स्त्रीनक्तमन्तरागारबहुशत्रुकृताँस्तथा॥
रोगार्त्तभीतव्यसनिबालशिष्यकृतानि तु ॥३०॥
अकृतानि विजानीयात्तथा दासकृतानि तु॥
गुरोर्वाक्येन शिष्यस्य पितृवाक्यात्सुतस्य च ॥३१॥
दासस्य स्वामिवाक्येन व्यवहारस्तु सिद्ध्यति॥
स्त्रीकृतान्यप्रमाणानि कार्याण्याहुरनापदि ॥३२॥
विशेषतो धनक्षेत्रे दायादधनविक्रमाः॥
एतान्येव प्रमाणानि भर्ता यद्यनुमन्यते ॥३३॥
पुरः पत्युरभावेन राजा वा पितृपुत्रयोः॥
बाल आषोडशावर्षात्पौगण्डश्चाभिशस्यते ॥३४॥
परतो व्यवहारज्ञः स्वतन्त्रः पितरं विना॥
अप्राप्तव्यवहारस्य स्वातंत्र्यं मातुरुच्यते ॥३५॥
अस्वतन्त्रकृतान्याहुरप्रमाणानि पंडिताः॥
नानियुक्तेन वक्तव्यं व्यवहारे कथंचन ॥३६॥
अनियुक्तवचो दण्ड्यो राजा रुक्मस्य कृष्णलम्॥
नियुक्तो न नियुक्तो वा विद्या वाक्यमुदाहरन् ॥३७॥
सर्वस्वरहितः कार्यो लेखकोऽनृतलेखकः॥
लेखकस्य च सभ्यानां साक्षिणां यश्च दूषकः ॥३८॥
अनाहूतस्य चाह्वाने आहूतस्य च मोक्षणे॥
अजितोऽस्मीति मन्वानो ब्रूयात्तं तु पराजितम् ॥३९॥
राजा तान्विनयेद्विप्रान्दंडेन द्विगुणेन च॥
सभा वा न प्रवेष्टव्या वक्तव्यं वासमंजसम् ॥४०॥
अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी॥
पादो धर्मस्य कर्तारं पादः साक्षिणमेव च ॥४१॥
पादः सभासदः सर्वान्पादो राजानमृच्छति॥
राजा भवत्यनेनास्तु निन्दार्हो यत्र निन्द्यते ॥४२॥
एनो गच्छति कर्तारं मुच्यन्ते च सभासदः॥
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः ॥४३॥
भूतमप्यनुपन्यस्तं व्यवहारेण हीयते॥
सपणश्चेद्विवादः स्यातद्धनं दापयेन्नरः॥
दण्डं च स्वपणं चैव धनिके धनमेव च ॥४४॥
न सा सभा यत्र न संति वृद्धा न ते वृद्धा ये न वदंति धर्मम्॥
न तद्धर्मं यत्र न सत्यमस्ति न तत्सत्यं यच्छलेनानुविद्धम् ॥४५॥
इति श्रीविष्णुधर्मोत्तरे तृ०ख० मा० संवादे मुनीन्प्रति हंसगीतासु व्यवहारनिरूपणो नाम चतुर्विंशत्युत्तरत्रिशततमोऽध्यायः ॥३२४॥

N/A

References : N/A
Last Updated : January 29, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP