संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः २६७

खण्डः ३ - अध्यायः २६७

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


हंस उवाच॥
वशे जगदिदं प्राहुः शूरबाहुषु लम्बते॥
शूराणामथ सर्वेषां शौर्यमेव विशिष्यते ॥१॥
ब्राह्मणार्थे गवार्थे वा स्वाम्यर्थे मित्रकारणे॥
आहृतौ ये प्रपद्यन्ते नाकपृष्ठं व्रजंति ते ॥२॥
धनापहारे संप्राप्ते संप्राप्ते दारविप्लवे॥
(आत्मनश्च परित्राणे युध्यमानो दिवं व्रजेत् ॥३॥
क्षत्रविट्छूद्रविप्राणां युद्धमेव परायणम्॥)
आत्मनश्च परित्राणे संप्राप्ते देशविप्लवे ॥४॥
दारनाशे तु संप्राप्ते दक्षिणानां च सङ्करे॥
विप्रस्तु शस्त्रं गृह्णीयात्संकरे चाप्युपस्थिते ॥५॥
वृत्तिन्तु कल्पयेद्विप्रः क्षत्त्रधर्मेण वा न वा॥
संग्रामान्न निवर्त्तेत तस्य धर्मं हितं तदा ॥६॥
एकपुत्रं तृणमुखं तवास्मीति च वादिनम्॥
स्त्रीबालरक्षकम्भीरुं पलायनपरायणम् ॥७॥
व्यायुधं व्यसनस्थं च परेण सह संगतम्॥
धुर्यं च धुर्यवाहं च युद्धप्रेक्षकमेव च ॥८॥
न हन्तव्या द्विजश्रेष्ठा युद्धधर्मं विजानता॥
युद्धं न कुर्याद्या नस्थः पुरुषेण पदातिना ॥९॥
समेन युद्धमाकाङ्क्षस्तथैवाभ्यधिकेन वा॥
नरः प्राप्नोति नरकं हीनहा तद्धतोऽपि वा ॥१०॥
अवर्मयित्वा यो वाहं चात्मानं वर्मयेन्नरः॥
स शीघ्रं नरकं याति सुकृतेनापि कर्मणा ॥११॥
कथितो युद्धधर्मोऽयं फलं चातो निबोधत॥
धर्मलाभोऽर्थलाभश्च यशोलाभश्च तस्य वै ॥१२॥
यः शूरो युद्ध्यते युद्धे विमृन्दन्परवाहिनीम्॥
तस्य धर्मार्थकामाश्च यज्ञाश्चैवाप्तदक्षिणाः ॥१३॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वा विपुलदक्षिणैः॥
न तत्फलमवाप्नोति संग्रामे यदवाप्यते ॥१४॥
असृग्यदास्य गात्रेभ्यो विनिर्याति रणाजिरे॥
तेनैव सार्धं निर्याति तस्य पापं शरीरतः ॥१५॥
सहते च परं क्लेशं प्रहाराणां च रोपणे॥
यद्वीरः समवाप्नोति तपो नास्त्यधिकं ततः ॥१६॥
यस्य युद्धे प्रहारा ये किन्तु स्याद्दैवयोगतः॥
युध्यमानस्य धर्मज्ञाः सोऽपि नाके महीयते ॥१७॥
रणे यथाधिकवधं कृत्वा फलमुपाश्नुते॥
परं ह्यभिमुखं हत्वा तद्यानं योऽधिरोहति ॥१८॥
विष्णुक्रान्तं स जयति चैवं युध्यन्रणाजिरे॥
यस्तु सेनापतिं हत्वा तद्यानमधिरोहति ॥१९॥
अश्वमेधानवाप्नोति चतुरस्तेन कर्मणा॥
यावन्ति तस्य शस्त्राणि भिंदन्ति त्वचमाहवे ॥२०॥
तावतो लभते लोकान्सर्वकामदुघाक्षयान्॥
यत्रयत्र हतः शूरः शत्रुभिर्विनिपातितः ॥२१॥
अक्षयांल्लभते लोकान्निर्वृतिं दीनतां विना॥
स्वामी सुकृतमादत्ते हतानां विपलायिनाम् ॥२२॥
स्वामिनो दुष्कृतं सर्वं तदा च प्रतिपद्यते॥
पलायमानः पुरुषस्तथा प्राप्नोति वै द्विजाः ॥२३॥
पदेपदे दुराचारो गोवधस्य फलं नरः॥
जीवँल्लक्ष्मीं समाप्नोति मृतश्च त्रिदिवं नरः ॥२४॥
यशश्चोभयथा विप्रा नास्ति युद्धे निरर्थता॥
परानभिमुखः शूरो यावद्व्रजति वै द्विजाः ॥२५॥
पदेपदे यज्ञफलमानुपूर्व्यात्समाप्नुयात्॥
अभग्नञ्च परं हन्याद्भग्नं च परिरक्षति ॥२६॥
पलायन्ते स्थिता यस्मिन्स याति परमां गतिम्॥
ऊर्ध्वं तिर्यक् च यश्चार्वाक् प्राणान्संत्यज्य युध्यति ॥२७॥
हतासुश्च पतेद्युद्धे स स्वर्गान्न निवर्तते॥
यस्य युद्धे प्रविष्टस्य देहं चिह्नीकृतं परैः ॥२८॥
आत्मानं यूपमुत्सृज्य स यज्ञोऽनन्तदक्षिणः॥
नाशौचभाजस्तस्य स्युर्बान्धवा द्विजसत्तमाः ॥२९॥
श्राद्धञ्चैवाग्निसंस्कारस्तथैवाप्युदकक्रिया॥
मृतस्य नोपयुज्यन्ते संग्रामेऽभिमुखस्य तु ॥३०॥
क्रियन्ते तस्य धर्मज्ञा आनृण्यार्थं स्वबन्धुभिः॥
यस्य चिह्नीकृतं गात्रं शरशक्त्यृष्टितोमरैः ॥३१॥
देवकन्यास्तु तं वीर रमयन्ते रमन्ति च॥
वराप्सरःसहस्राणि शूरमायोधने हतम् ॥३२॥
त्वरितास्त्वभिधावन्ति मम भर्ता ममेति च॥
हतस्याभिमुखस्याजौ पतितस्यानिवर्तिनः ॥३३॥
ह्रियते यत्परैर्द्रव्यं नरमेधफलं तु तत्॥
शक्यं त्विह समृद्धैस्तु यष्टं क्रतुशतैर्नरैः ॥३४॥
आत्मदेहं तु संग्रामे त्यक्तुं विप्राः सुदुष्करम्॥
यां यज्ञसंघैस्तपसा च विप्राः स्वर्गैषिणः सत्त्वचयैः प्रयान्ति॥
क्षणेन तामैव गतिं प्रयान्ति महाहवे स्वां तनुमुत्सृजन्तः ॥३५॥
सर्वे च वेदाः सह षड्भिरंगैः सांख्यं च योगं च वने च वासः॥
एतान्गुणानेक एवातिदेशेत्संग्रामधाम्ना स्वतनुं त्यजेद्यः ॥३६॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे हंसगीतासु शूरगुणवर्णनो नाम सप्तषष्ट्युत्तरद्विशततमोऽध्यायः ॥२६७॥

N/A

References : N/A
Last Updated : January 28, 2023

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP