संस्कृत सूची|संस्कृत साहित्य|पुराण|विष्णुधर्मोत्तरपुराणम्|तृतीय खण्डः|
अध्यायः ०१५

खण्डः ३ - अध्यायः ०१५

विष्णुधर्मोत्तर पुराण एक उपपुराण आहे.
अधिक माहितीसाठी प्रस्तावना पहा.


मार्कण्डेय उवाच॥
धर्मार्थकाममोक्षाणां शास्त्रं स्यादुपदेशकम्॥
पूर्वैराचरितं सद्भिर्धर्मकामार्थसाधकम् ॥१॥
मोक्षस्य यत्रोपन्यास इतिहासः स उच्यते॥
तदेव काव्यमित्युक्तं चोपदेशं विना कृतम् ॥२॥
एकस्य चरितादेव तथा काव्यं प्रकीर्तितम्॥
निबद्धो यत्र राजेन्द्र नायकप्रतिनायकौ ॥३॥
प्रयाणोद्यतसंप्रेषयुद्धयुक्तं तदेव तु॥
नायकाभ्युदयोपेतं महाकाव्यं तदिष्यते ॥४॥
वर्णयेच्च महाकाव्ये देशपत्तनपार्थिवान्॥
ऋत्वद्रिनिम्नगाश्चैव तथा नारीश्च पार्थिव ॥५॥
वर्णनीयौ तथैवात्र नायकप्रतिनायकौ॥
नायको धर्मविजयी सताम्पन्थानमाश्रितः ॥६॥
तथा च लोकविजयी विज्ञेयः प्रतिनायकः॥
प्रतिनायकघातस्तु वक्तव्यो नेतरस्य तु ॥७॥
नायकस्य महाराज मरणं नैव वर्णयेत्॥
सशरीरस्य यस्य स्यात्संप्राप्तिस्तस्य वर्णयेत् ॥८॥
छन्दोविरहितं गद्यं शब्दशास्त्रविरोधि च॥
कष्टाक्षरपदन्यासमश्लीलवचनान्वितम् ॥९॥
तस्मादुल्लक्ष्यवाक्यार्थमप्रसिद्धाभिधानवत्॥
काव्यबन्धं न कर्तव्यं पुनरुक्तं च यद्भवेत् ॥१०॥
विस्मये वाभ्यसूयायां भयशोकत्वरासु च॥
हर्षे च वीप्सा कर्तव्या पुनरुक्तं न तद्विदुः ॥११॥
दूतवाक्ये तथा स्वप्ने कार्यगत्या तथागते॥
पुनर्वर्धननिर्देशे पुनरुक्तं च तद्विदुः ॥१२॥
ससंशयं न वक्तव्यं प्रतिज्ञारहितं तथा॥
पूर्वापरविरुद्धं च यच्च लोकविगर्हितम् ॥१३॥
शृङ्गारहास्यकरुणारौद्रवीरभयानकैः॥
बीभत्साद्भुतशान्ताख्यै रसैः कार्यं समन्वितम् ॥१४॥
काव्यं कलाकौशलसंप्रयुक्तं धर्मेण चार्थेन तथोपपन्नम्॥
धर्मेण युक्तस्य च नायकस्य कार्यं तथा चाभ्युदयान्तमेव ॥१५॥
इति श्रीविष्णुधर्मोत्तरे तृतीयखण्डे मार्कण्डेयवज्रसंवादे महाकाव्यलक्षणं नाम पञ्चदशोऽध्यायः ॥१५॥

N/A

References : N/A
Last Updated : December 23, 2022

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP